मत्स्यपुराणम्/अध्यायः १९९
कश्यपवंशज-ऋषीणां नामगोत्रवंशप्रवरवर्णनम्।
मत्स्य उवाच।
मरीचेः कश्यपः पुत्रः कश्यपस्य तथा कुले।
गोत्रकारान् ऋषीन् वक्ष्ये तेषां नामानि मे श्रृणु ।। १९९.१
आश्रायणिः ऋषिगणो मेषकीरिटकायनाः।
उदग्रजा माठराश्च भोजा विनयलक्षणाः ।। १९९.२
शालाहलेयाः कौरिष्टाः कन्यकाश्चासुरायणाः।
मन्दाकिन्यां वै मृगयाः श्रृतया भोजयापनाः ।। १९९.३
देवयाना गोमयानाह्यधश्छाया भयाश्च ये।
कात्यायनाः शाक्रयाणाः बर्हियोगगदायनाः ।। १९९.४
भवनन्दि महाचक्रि दाक्षपायन एव च।
योधयानाः कार्तिवयो हस्तिदानास्तथैव च ।। १९९.५
वात्स्यायनानि कृतजा ह्याश्वलायनिनस्तथा।
प्रागायणाः पौलमौलिराश्ववातायनस्तथा ।। १९९.६
कौवेरकाश्च श्याकारा अग्निशर्मायणश्च ये।
मेषपाः कैकरसपास्तथा चैव तु वभ्रवः ।। १९९.७
प्राचेयो ज्ञानसंज्ञेया आग्ना प्रासेव्य एव च।
श्यामोदरा वैवशपास्तथा चैवोद्बलायनाः ।। १९९.८
काष्ठाहारिणमारीचा आजिहायनहास्तिकाः।
वैकर्णेयाः काश्यपेयाः सासिसाहारितायनाः ।। १९९.९
मान्तगिनश्च भृगवस्त्रयार्षेयाः परिकीर्तिताः।
वत्सरः कश्यपश्चैव निध्रवश्च महातपाः ।। १९९.१0
परस्परमवैवाह्या ऋषयः परिकीर्तिताः।
अतः परं प्रवक्ष्यामि द्व्यामुष्यायण गोत्रजान् ।। १९८.११
अनसूयो नाकुरयः स्नातपो राजवर्तपः।
शैशिरोदवहिश्चैव सैरन्ध्रीरोपसेवकिः ।। १९९.१२
या मुनिः काद्रुपिङ्गाक्षिः सजातम्विस्तथैव च।
दिवावष्टाश्व इत्येते भक्त्या ज्ञेयाश्च काश्यपाः ।। १९९.१३
त्र्यार्षेयाश्च तथैवेषां सर्वेषां प्रवराः शुभाः।
वत्सरः काश्यपश्चैव वसिष्ठश्च महातपाः ।। १९९.१४
परस्परमवैवाह्या ऋषयः परिकीर्तिताः।
संयातिश्च नभश्चोभौ पिप्पल्योऽथ जलन्धरः ।। १९९.१५
भुजातपूरः पूर्यश्च कर्दमो गर्द्दभीमुखः।
हिरण्यबाहुकैरातावुभौ काश्यपगोभिलौ ।। १९९.१६
कुलहो वृषकण्डश्च मृगकेतुस्तथोत्तरः।
निदाघमसृणौ भत्स्या महान्तः केवलाश्च ये ।। १९९.१७
शाण्डिल्यो दानवश्चैव तथा वै देवजातयः।
पैप्पलादित्स प्रवरा ऋषयः परिकीर्तिताः ।। १९९.१८
त्र्यार्षेयाभिमताश्चैषां सर्वेषां प्रवराः शुभाः।
असितो देवलश्चैव कश्यपश्च महातपाः ।
परस्परमवैवाह्या ऋषयः परिकीर्तिताः ।। १९९.१९
ऋषिप्रधानस्य च कश्यपस्य दाक्षायणीभ्यः सकलं प्रसूतम्।
जगत्समग्रं मनुसिंह पुण्यं किं ते प्रवक्ष्याम्यहमन्तरेण ।। १९९.२0