मत्स्यपुराणम्/अध्यायः ७७
शर्करासप्तमीव्रतकथनम्।
ईश्वर उवाच।
शर्करासप्तमीं वक्ष्ये तद्वत्कल्मषनाशिनीम्।
आयुरारोग्यमैश्वर्यं ययाऽनन्तं प्रजायते।। ७७.१ ।।
माधवस्य सिते पक्षे सप्तम्यां नियतव्रतः।
प्रातः स्नात्वा तिलैः शुक्लैः शुक्लमाल्यानुलेपनैः।। ७७.२ ।।
स्थण्डिले पद्ममालिख्य कुङ्कुमेन सकर्णिकम्।
तस्मिन्नमः सवित्रे तु गन्धधूपौ निवेदयेत्।। ७७.३ ।।
स्थापयेदुदकुम्भञ्च शर्करापात्रसंयुतम्।
शुक्लवस्त्रैरलङ्कृत्य शुक्लमाल्यानुलेपनैः।।
सुवर्णेन समायुक्तं मन्त्रेणानेन पूजयेत्।। ७७.४ ।।
विश्ववेदमयो यस्माद्वेदवादीति पठ्यसे।
सर्वस्यामृतमेव त्वमतः शान्तिं प्रयच्छ मे ।। ७७.५ ।।
पञ्चगव्यं ततः पीत्वा स्वपेत्तत् पार्श्वतः क्षितौ।
सौरसूक्तं स्मरन्नास्ते पुराणश्रवणेन च।। ७७.६ ।।
अहोरात्रे गते पश्चादष्टम्यां कृतनैत्यकः।
तत्सर्वं विदुषे तद्वद् ब्राह्मणाय निवेदयेत्।। ७७.७ ।।
भोजयेच्छक्तितो विप्रान् शर्कराघृतपायसैः।
भुञ्जीतातैललवणं स्वयमप्यथ वाग्यतः।। ७७.८ ।।
अनेन विधिना सर्वं मासि मासि समाचरेत्।
संवत्सरान्ते शयनं शर्कराकलशान्वितम्।। ७७.९ ।।
सर्वोपस्करसंयुक्तं तथैकाङ्गां पयस्विनीम्।
गृहं च शक्तिमान् दद्यात् समस्तोपस्करान्वितम्।। ७७.१० ।।
सहस्रेणाथ निष्काणां कृत्वा दद्याच्छतेन वा।
दशभिर्वाथ निष्केण तदर्धेनापि शक्तितः।। ७७.११ ।।
सुवर्णाश्वः प्रदातव्यः पूर्ववन् मन्त्रवादनम्।
न वित्तशाठ्यं कुर्वीत कुर्वन्दोषं समश्नुते।। ७७.१२ ।।
अमृतं पिबतो वक्त्रात् सूर्य्यस्यामृतबिन्दवः।
निपेतुर्ये तदुत्थामी शालिमुद्गेक्षवः स्मृताः।। ७७.१३ ।।
शर्करा तु परा तस्मादिक्षुसारोऽमृतात्मवान्।
इष्टा रवेरतः पुण्या शर्करा हव्यकव्ययोः।। ७७.१४ ।।
शर्करासप्तमी चेयं वाजिमेधफलप्रदा।
सर्वदुष्टप्रशमनी पुत्रपौत्रप्रवर्द्धिनी।। ७७.१५ ।।
यः कुर्यात् परया भक्त्या स वै सद्गतिमाप्नुयात्।
कल्पमेकं वसेत् स्वर्गे ततो याति परम्पदम्।। ७७.१६ ।।
इममनघं यः श्रृणोति स्मरेद्वा परिपठतीह सुरेश्वरस्य लोके।
मतिमपि च ददाति सोऽपि देवैरमरवधूजनमालयाऽभिपूज्यः।। ७७.१७ ।।