मत्स्यपुराणम्/अध्यायः २११
सावित्र्युपाख्यानम्।
सावित्र्युवाच।
कुतः क्लमः कुतो दुःखं सद्भिः सह समागमे।
सतां तस्मान्न मे ग्लानिस्त्वत्समीपे सुरोत्तम! ।। २११.१ ।।
साधूनां वाप्यसाधूनां सन्त एव सदागतिः।
नैवासतां नैव सतामसन्तो नैवमात्मनः ।। २११.२ ।।
विषाग्निसर्प शस्त्रेभ्यो न तथा जायते भयम्।
अकारणं जगद्वैरि खलेभ्यो जायते यथा ।। २११.३ ।।
सन्तः प्राणानपि त्यक्त्वा परार्थं कुर्वते यथा।
तथाऽसन्तोऽपि सन्त्यज्य परपीड़ासु तत्पराः ।। २११.४ ।।
त्यजत्यसून यं लोकस्तृणवद्यस्य कारणात्।
परोपघातशक्तास्तं परलोकन्तथा सतः ।। २११.५ ।।
निकायेषु निकायेषु तथा ब्रह्मा जगद्गुरुः।
असतामुपघाताय राजानं ज्ञातवान् स्वयम् ।। २११.६ ।।
नरान् परीक्षयेद्राजा साधून् सम्मानयेत् सदा।
निग्रहञ्चासतां कुर्यात् सलोके लोकजित्तमः ।। २११.७ ।।
निग्रहेणासतां राजा सताञ्च परिपालनात्।
एतावदेव कर्तव्यं राज्ञा स्वर्गमभीप्सुना ।। २११.८ ।।
राजकृत्यं हि लोकेषु नास्त्यन्यज्जगतीपते!
असतां निग्रहादेव सताञ्च परिपालनात् ।। २११.९ ।।
राजभिश्चाप्यशास्तानामसतां शासिता भवान्।
तेन त्वमधिको देवो देवेभ्यः प्रतिभासि मे ।। २११.१० ।।
जगत्तु धार्यते सद्भिः सतामग्य्रस्तथा भवान्।
तेन त्वामनुयान्त्या मे क्लमो देव! न विद्यते ।। २११.११ ।।
यम उवाच।
तुष्टोऽस्मि ते विशालाक्षि! वचनैर्धर्मसंगतैः।
विना सत्यवतः प्राणाद् वरं वरय मा चिरम् ।। २११.१२ ।।
सावित्र्युवाच।
सहोदराणां भ्रातॄणां कामयामि शतं विभो!।
अनपत्यः पिता प्रीतिं पुत्रलाभात् प्रयातु मे ।। २११.१३ ।।
तामुवाच यमो गच्छ यथागतमनिन्दिते!।
और्ध्वदेहिककार्येषु यत्नं भर्तुः समाचर ।। २११.१४ ।।
नानुगन्तुमयं शक्यस्त्वया लोकान्तरं गतः।
पतिव्रतासि तेन त्वं मुहूर्तं मम यास्यसि ।। २११.१५ ।।
गुरुशुश्रूषणाद् भद्रे! तथा सत्यवतो महत्।
पुण्यं समर्जितं येन न याम्येनमहं स्वयम् ।। २११.१६ ।।
एतावदेव कर्तव्यं पुरुषेण विजानता।
मातुः पितुश्च शुश्रूषा गुरोश्च वरवर्णिनि! ।। २११.१७ ।।
तोषितं त्रयमेतच्च सदा सत्यवता वने।
पूजितं विजितः स्वर्गस्त्वयानेन चिरं शुभे! ।। २११.१८ ।।
तपसा ब्रह्मचर्येण अग्निशुश्रूषया शुभे!।
पुरुषाः स्वर्गमायान्ति गुरुशुश्रूषया तथा ।। २११.१९ ।।
आचार्यश्च पिता चैव माता भ्राता च पूर्वजः।
नार्तेनात्यवमन्तव्या ब्राह्मणा न विशेषतः ।। २११.२० ।।
आचार्यो ब्रह्मणो मूर्तिः पिता मूर्तिः प्रजापतेः।
माता पृथिव्या मूर्तिस्तु भ्राता वै मूर्तिरात्मनः ।। २११.२१ ।।
जन्मना पितरौ क्लेशं सहेते सम्भवे नृणाम्।
न तस्य निष्कृतिः शक्या कर्तुं वर्षशतैरपि ।। २११.२२ ।।
तयोर्नित्यं प्रियं कुर्यादाचार्यस्य तु सर्वदा।
तेष्वेव त्रिषु तुष्टेषु तपः सर्वं समाप्यते ।। २११.२३ ।।
तेषां त्रयाणां शुश्रुषा परमन्तप उच्यते।
न च तैरननुज्ञातो धर्ममन्यं समाचरेत् ।। २११.२४ ।।
त एव हि त्रयो लोकास्त एव त्रय आश्रमाः।
त एव च त्रयोवेदास्तथैवोक्ता स्त्रयोऽग्नयः ।। २११.२५ ।।
पिता वै गार्हपत्योऽग्निर्माता दक्षिणतः स्मृतः।
गुरुराहवनीयश्च साग्नित्रेता गरीयसी ।। २११.२६ ।।
त्रिषु प्रमाद्यते नैषु त्रीन् लोकान् जायते गृही।
दीप्यमानः स्ववपुषा देववद्दिवि मोदते ।। २११.२७ ।।
कृतेन कामेन निवर्त भद्रे! भविष्यतीदं सकलं त्वयोक्तम्।
ममोपरोधस्तव च क्लमः स्यात् तथाऽधुना तेन तव ब्रवीमि ।। २११.२८ ।।