मत्स्यपुराणम्/अध्यायः २६४
देवप्रतिष्ठाविधिवर्णनम्।
ऋषय ऊचुः।
देवतानामथैतासां प्रतिष्ठाविधिमुत्तमम्।
वद सूत! यथान्यायं सर्वेषामप्यशेषतः ।। २६४.१
सूत उवाच।
अथातः संप्रवक्ष्यामि प्रतिष्ठा विधिमुत्तमम्।
कुण्डमण्डपवेदीनां प्रमाणञ्च यथाक्रमम् ।। २६४.२
चैत्रे वा फाल्गुने वापि ज्येष्ठे वा माधवे तथा।
माघे वा सर्वदेवानां प्रतिष्ठा शुभदा भवेत् ।। २६४.३
प्राप्य पक्षं शुभं शुक्लमतीते दक्षिणायने।
पञ्चमी च द्वितीया च तृतीया सप्तमी तथा ।। २६४.४
दशणी पौर्णमासी च तथा श्रेष्ठा त्रयोदशी।
आसु प्रतिष्ठा विधिवत् कृत्वा बहुफला लभेत् ।। २६४.५
आषाढे द्वे तथा मूलमुत्तराद्वयमेव च।
ज्येष्ठा श्रवणरोहिण्यः पूर्वाभाद्रपदा तथा ।। २६४.६
हस्ताश्विनी रेवती च पुष्यो मृगशिरस्तथा।
अनुराधा तथा स्वाती प्रतिष्ठादिषु शस्यते ।। २६४.७
बुधो बृहस्पतिः शुक्रस्त्रयोऽप्येते शुभग्रहाः।
एभिर्निरीक्षितं लग्नं नक्षत्रञ्च प्रशस्यते ।। २६४.८
ग्रहताराबलं लब्ध्वा ग्रहपूजां विधाय च।
निमित्तं शकुनं लब्ध्वा वर्जयित्वाद्भुतादिकम् ।। २६४.९
शुभयोगे शुभस्थाने क्रूरग्रहविवर्जिते।
लग्ने ऋक्षे प्रकुर्वीत प्रतिष्ठादिकमुत्तमम् ।। २६४.१०
अयने विषुवे तद्वत् षड़शीतिमुखे तथा।
एतेषु स्थापनं कार्यं विधिदृष्टेन कर्मणा ।। २६४.११
प्राजापत्ये तु शयनं श्वेते तूत्थापनं तथा।
मुहूर्ते स्थापनं कुर्यात् पुनर्बाह्ये विचक्षणः ।। २६४.१२
प्रासादस्योत्तरेवापि पूर्वे वा मण्डपो भवेत्।
हस्तान् षोड़शकुर्वीत दशद्वादश वा पुनः ।। २६४.१३
मध्ये वेदिकया युक्तः परिक्षिप्तः समन्ततः।
पञ्चसप्तापि चतुरः करान् कुर्वीत वेदिकाम् ।। २६४.१४
चतुर्भिस्तोरणैर्युक्तो मण्डपः स्याच्चतुर्मुखः।
प्लक्षद्वारं भवेत्पूर्वं याम्ये चौदुम्बरं भवेत् ।। २६४.१५
पश्चादश्वत्थघटितं न्यग्रोधं च तथोत्तरे।
भूमौ हस्तप्रविष्टानि चतुर्हस्तानि चोच्छ्रये ।। २६४.१६
सूपलिप्तं तथा श्लक्ष्णं भूतलं स्यात् सुशोभनम्।
वस्त्रैर्नानाविधैस्तद्वत् पुष्पपल्लवशोभितम् ।। २६४.१७
कृत्वैवं मण्डपं पूर्वं चतुर्द्वारेषु विन्यसेत्।
अव्रणान् कलशानष्टौ ज्वलत्काञ्चनगर्भितान् ।। २६४.१८
चूतपल्लवसच्छन्नान् सितवस्त्रयुगान्वितान्।
सर्वौषधिफलोपेतान् चन्दनोदकपूरितान् ।। २६४.१९
एवं निवेश्य तद्गर्भे गन्धधूपार्चनादिभिः।
ध्वजादिरोहणं कार्यं मण्डपस्य समन्ततः ।। २६४.२०
ध्वजांश्च लोकपालानां सर्वदिक्षु निवेशयेत्।
पताका जलदाकारा मध्ये स्यान्मण्डपस्य तु ।। २६४.२१
गन्धधूपादिकं कुर्यात् स्वैस्वैर्मन्त्रैरनुक्रमात्।
बलिञ्चलोकपालेभ्यः स्वमन्त्रेण निवेदयेत् ।। २६४.२२
ऊर्ध्वन्तु ब्रह्मणो देयं त्वधस्ताच्छेषवासुकेः।
संहितायान्तु ये मन्त्रा तद्दैवत्याः श्रुतौ स्मृताः ।। २६४.२३
तैः पूजा लोकपालानां कर्तव्या च समन्ततः।
त्रिरात्रमेकरात्रं वा पञ्चरात्रमथापि वा ।। २६४.२४
अथवा सप्तरात्रन्तु कार्यं स्यादधिवासनम्।
एवं सतोरणं कृत्वा अधिवासनमुत्तमम्।। २६४.२५
तस्याप्युत्तरतः कुर्यात् स्नानमण्डपमुत्तमम्।
तदर्धेन त्रिभागेन चतुर्भागेन वा पुनः ।। २६४.२६
आनीय लिङ्गमर्च्चां वा शिल्पिनः पूजयेद् बुधः।
वस्त्राभरणरत्नैश्च येऽपि तत्परिचारकाः ।। २६४.२७
क्षमध्वमितितान् ब्रूयाद् यजमानोऽप्यतः परम्।
देवं प्रस्तरणे कृत्वा नेत्रज्योतिः प्रकल्पयेत् ।। २६४.२८
अक्ष्णोरुद्धरणं वक्ष्ये लिङ्गस्यापि समासतः।
सर्वतस्तु बलिं दद्यात् सिद्धार्थघृतपायसैः ।। २६४.२९
शक्लपुष्पैरलङ्कृत्य घृतगुग्गुलधूपितम्।
विप्राणाञ्चार्चनं कुर्य्याद्दद्याच्छक्त्या च दक्षिणाम्।। २६४.३०
गां महीं कनकञ्चैव स्थापकाय निवेदयेत्।
लक्षणं कारयेद् भक्त्या मन्त्रेणानेन वै द्विजः ।। २६४.३१
ॐ नमो भगवते तुभ्यं शिवाय परमात्मने।
हिरण्यरेतसे विष्णो विश्वरूपाय ते नमः ।। २६४.३२
मन्त्रोऽयं सर्वदेवानां नेत्रज्योतिष्वपि स्मृतः।
एवमामन्त्र्य देवेशं काञ्चनेन विलेखयेत् ।। २६४.३३
मङ्गल्यानि च वाद्यानि ब्रह्मघोषं सगीतकम्।
वृद्ध्यर्थं कारयेद् विद्वान् अमङ्गल्यविनाशनम् ।। २६४.३४
लक्षणोद्धरणं वक्ष्ये लिङ्गस्य सुसमाहितः।
त्रिधा विभज्य पूज्यायां लक्षणं स्याद् विभाजकम् ।। २६४.३५
लेखा त्रयन्तु कर्तव्यं यवाष्टान्तरसंयुतम्।
न स्थूलं न कृशं तद्वन्न वक्त्त्रं छेदवर्जितम् ।। २६४.३६
निम्नं यवप्रमाणेन ज्येष्ठलिङ्गस्य कारयेत्।
सूक्ष्मास्ततस्तु कर्तव्या यथा मध्यमके न्यसेत् ।। २६४.३७
अष्टभक्तं ततः कृत्वा त्यक्त्वा भागत्रयं बुधः।
लम्बयेत् सप्तरेखास्तु पार्श्वयोरुभयोः समाः ।। २६४.३८
तावत् प्रलम्बयेद्विद्वान् यावद्भागचतुष्टयम्।
भ्राम्यते पञ्चभागोर्ध्वं कारयेत्सङ्गमन्ततः ।। २६४.३९
रेखयोः सङ्गमे तद्वत् पृष्ठे भागद्वयं भवेत्।
एवमेतत् समाख्यातं समासाल्लक्षणं मया ।। २६४.४०