मत्स्यपुराणम्/अध्यायः १२७
ग्रहाणांगतिवर्णनम्।
सूत उवाच।
ताराग्रहाणां वक्ष्यामि स्वर्भानोस्तु रथं पुनः।
अथ तेजोमयः शुभ्रः सोमपुत्रस्य वै रथः।। १२७.१ ।।
युक्तो हयैः पिशङ्गैश्च दशभिर्वातरंहसैः।
श्वेतः पिशङ्गः सारङ्गो नीलः श्यामो विलोहितः।। १२७.२ ।।
श्वेतश्च हरितश्चैव पृषतो वृष्णिरेव च।
दशभिस्तु महाभागैरुत्तमैर्वातसम्भवैः।। १२७.३ ।।
ततो भौमरथश्चापि अष्टाङ्गः काञ्चनः स्मृतः।
अष्टभिर्लोहितैरश्वैः सध्वजैरग्निसम्भवैः।। १२७.४ ।।
सर्पतेऽसौ कुमारो वै ऋजुवक्रानुवक्रगः।
अतश्चाङ्गिरसौ विद्वान् देवाचार्यो बृहस्पतिः।। १२७.५ ।।
गौराश्वेन तु रौक्मेण स्यन्दनेन विसर्पति।
युक्तेनाष्टाभिरश्वैश्च ध्वजैरग्निसमुद्भवैः।। १२७.६ ।।
अब्दं वसति यो राशौ स्वदिशं तेन गच्छति।
ततः शनैश्चरोऽप्यश्वैः सबलैर्वातरंहसैः।। १२७.७ ।।
कार्ष्णायसं समारुह्य स्यन्दनं यात्यसौ शनिः।
स्वर्भानोस्तु तथाष्टाश्वाः कृष्णा वै वातरंहसः।। १२७.८ ।।
रथन्तमोमयं तस्य वहन्तिस्म सुदंशिताः।
आदित्यनिलयो राहुः सोमं गच्छति पर्वसु।। १२७.९ ।।
आदित्यमेति सोमाच्च तमसां तेषु पर्वसु।
ततः केतुमतस्त्वश्वा अष्टौ ते वातरंहसः।। १२७.१० ।।
पलालधूमवर्णाभाः क्षामदेहाः सुदारुणाः।
एते वाहा ग्रहाणां वै मया प्रोक्ता रथै सह।। १२७.११ ।।
सर्वे ध्रुवे निबद्धास्ते निबद्धा वातरश्मिभिः।
एते वै भ्राम्यमाणास्ते यथायोगं वहन्ति वै।। १२७.१२ ।।
वायव्याभिरदृश्याभिः प्रबद्धा वातरश्मिभिः।
परिभ्रमन्ति तद्बद्ध्वा श्चन्द्रसूर्यग्रहा दिवि।। १२७.१३ ।।
यावत्तमनुपर्येति ध्रुवं वै ज्योतिषाङ्गणः।
यथा नद्युदके नौस्तु उदकेन सहोह्यते।। १२७.१४ ।।
तथा देवगृहाणि स्युरुह्यन्ते वातरंहसा।
तस्माद्यानि प्रगृह्यन्ते व्योम्नि देवगृहा इति।। १२७.१५ ।।
यावन्त्यश्चैव ताराः स्युस्तावन्तोऽस्य मरीचयः।
सर्वा ध्रुवनिबद्धास्ता भ्रमन्त्यो भ्रामयन्ति च।। १२७.१६ ।।
तैलपीडं यथा चक्रं भ्रामते भ्रामयन्ति वै।
तथा भ्रमन्ति ज्योतींषि वाता बद्धानि सर्वशः।। १२७.१७ ।।
अलातचक्रवद्यान्ति वातचक्रेरितानि तु।
यस्मात् प्रवहते तानि प्रवहस्तेन स स्मृतः।। १२७.१८ ।।
एवं ध्रुवे नियुक्तोऽसौ भ्रमते ज्योतिषाङ्गणाः।
एष तारामयः प्रोक्तः शिशुमारे ध्रुवा दिवि।। १२७.१९ ।।
शिश्ने सम्वत्सरो ज्ञेयो मित्रश्चापानमाश्रितः।
पुच्छेऽग्निश्च महेन्द्रश्च मरीचिः कश्यपो ध्रुवः।। १२७.२० ।।
एष तारामयः स्तम्भो नास्तमेति नवोदयम्।
नक्षत्रचन्द्रसूर्याश्च ग्रहास्तारागणैः सह।। १२७.२१ ।।
यादह्रा कुरुते पापन्तं द्रृष्ट्वा निशि मुञ्चतः।
शिशुमारशरीरस्था यावन्त्यस्तारकास्तु ताः।। १२७.२२ ।।
वर्षाणि द्रृष्ट्वा जीवेत तावदेवाधिकानि तु।
शिशुमाराकृतिं ज्ञात्वा प्रविभागेत सर्वशः।। १२७.२३ ।।
उत्तानपादस्तस्याथ विज्ञेयः सोत्तरा हनुः।
यज्ञोधरस्तु विज्ञेयो धर्मोमूर्द्धानमाश्रितः।। १२७.२४ ।।
हृदि नारायणः साध्या अश्विनौ पूर्वपादयोः।
वरुणश्चार्यमा चैव पश्चिमे तस्य सक्थिनी।। १२७.२५ ।।
तन्मुखाभिमुखाः सर्वे चक्रभूता दिवि स्थिताः।
ध्रुवेणाधिष्ठिताश्चैव ध्रुवमेव प्रदक्षिणम्।। १२७.२६ ।।
परियान्ति सुरश्रेष्ठं मेढीभूतं ध्रुवं दिवि।
आग्नीध्रकाश्यपानान्तु तेषां स परमो ध्रुवः।। १२७.२७ ।।
एक एव भ्रमत्येष मेरोरन्तरमूर्द्धनि।
ज्योतिषाञ्च क्रमादाय आकर्षस्तमधोमुखः।।
मेरुमालोकयन्नेव प्रति याति प्रदक्षिणम्।। १२७.२८ ।।