मत्स्यपुराणम्/अध्यायः १२५
ज्यौतिषचक्रवर्णनम्।
ऋषय ऊचुः।
एवं श्रुत्वा कथां दिव्यामब्रुवन् लोमहर्षणिम्।
सूर्याश्चन्द्रमसोचारं ग्रहाणाञ्चैव सर्वशः।। १२५.१ ।।
भ्रमन्ति कथमेतानि ज्योतींषि रविमण्डले।
अव्यूहेनैव सर्वाणि तथा चासङ्गरेण वा।। १२५.२ ।।
कश्च भ्रामयते तानि भ्रमन्ति यदि वा स्वयम्।
एतद्वेदितुमिच्छामस्ततो निगदसत्तम!।। १२५.३ ।।
सूत उवाच।
भूतसंमोहनं ह्येतद् ब्रुवतो मे निबोध तम्।
प्रत्यक्षमपि द्रृश्यं तत् संमोहयति वै प्रजाः।। १२५.४ ।।
योऽसौ चतुर्दशर्क्षेषु शिंशुमारो व्यवस्थितः।
उत्तानपादपुत्रोऽसौ मेढीभूतो ध्रुवो दिवि।। १२५.५ ।।
सैष भ्रमन् भ्रामयते चन्द्रादित्यौ ग्रहैः सह।
भ्रमन्तमनुसर्पन्ति नक्षत्राणि च चक्रवत्।। १२५.६ ।।
ध्रुवस्य मनसा यौ वै भ्रमते ज्योतिषाङ्गणः।
वातानीकमयैर्बन्धैर्ध्रुवे बद्धः प्रसर्पति।। १२५.७ ।।
तेषां भेदश्च योगश्च तथा कालस्य निश्चयः।
अस्तोदयास्तथोत्पाता अयने दक्षिणोत्तरे ।। १२५.८ ।।
विषुवद्ग्रहवर्णश्च सर्वमेतद् ध्रुवेरितम्।
जीमूता नाम ते मेघा यदेभ्यो जीवसम्भवः।। १२५.९ ।।
द्वितीय आवहन् वायुर्मेघास्ते त्वभिसंश्रिताः।
इतो योजनमात्राच्च अध्यर्द्धविकृता अपि।। १२५.१० ।।
वृष्टिसर्गस्तथा तेषां धाराधारः प्रकीर्तिताः।
पुष्करावर्तका नाम ये मेघाः पक्षसम्भवाः।। १२५.११ ।।
शक्रेण पक्षाश्छिन्ना वै पर्वतानां महौजसा।
कामगानां समृद्धानां भूतानां नाशमिच्छताम्।। १२५.१२ ।।
पुष्करा नाम ते पक्षा बृहन्तस्तोयधारिणः।
पुष्करावर्तका नाम कारणेनेह शब्दिताः।। १२५.१३ ।।
नानारूपधराश्चैव महाघोरस्वराश्च ते।
कल्पान्तवृष्टिकर्तारः कल्पान्ताग्नेर्नियामकाः।। १२५.१४ ।।
वाय्वाधारा वहन्ते वै सामृताः कल्पसाधकाः।
यान्यस्याण्डस्य भिन्नस्य प्राकृतान्यभवंस्तदा।। १२५.१५ ।।
यस्मिन् ब्रह्मा समुत्पन्नश्चतुर्वक्त्रः स्वयं प्रभुः।
तान्येवाण्डकपालानि सर्वे मेघाः प्रकीर्तिताः।। १२५.१६ ।।
तेषामप्यायनं धूमः सर्वेषामविशेषतः।
तेषां श्रेष्ठश्च पर्जन्यश्चत्वारश्चैव दिग्गजाः।। १२५.१७ ।।
गजनां पर्वतानाञ्च मेघानां भोगिभिः सह।
कुलमेकं द्विधाभूतं योनिरेका जलं स्मृतम्।। १२५.१८ ।।
पर्जन्यो दिग्गजाश्चैव हेमन्ते शीतसम्भवम्।
तुषारवर्षं वर्षन्ति वृद्धा ह्यन्नविवृद्धये।। १२५.१९ ।।
षष्ठः परिवहो नाम वायुस्तेषां परायणः।
योऽसौ बिभर्ति भगवन्! गङ्गामाकाशगोचराम्।। १२५.२० ।।
दिव्यामृतजलां पुण्यां त्रिपथामिति विश्रुताम्।
तस्या विस्पन्दितन्तोयं दिग्गजाः पृथुभिः करैः।। १२५.२१ ।।
शीकरान् सम्प्रमुञ्चन्ति नीहार इति स स्मृतः।
दक्षिणेन गिरिर्योऽसौ हेमकूट इति स्मृतः।। १२५.२२ ।।
उदग्हिमवतः शैलस्योत्तरे चैव दक्षिणे।
पुण्ड्रं नाम समाख्यातं सम्यग्वृष्टिविवृद्धये।। १२५.२३ ।।
तस्मिन् प्रवर्तते वर्षं तत्तुषारसमुद्भवम्।
ततो हिमवतो वायुर्हिमं तत्र समुद्भवम्।। १२५.२४ ।।
आनयत्यात्मवेगेन सिञ्चयानो महागिरिम्।
हिमवन्तमतिक्रम्य वृष्टिशेषं ततः परम्।। १२५.२५ ।।
इभास्ये च ततः पश्चादिदम्भूतविवृद्धये।
वर्षद्वयं समाख्यातं सम्यग् वृष्टिविवृद्धये।। १२५.२६ ।।
मेघाश्चाप्यायनं चैव सर्वमेतत् प्रकीर्त्तितम्।
सूर्य्य एव तु वृष्टीनां स्रष्टा समुपदिश्यते।। १२५.२७ ।।
वर्षं धर्मं हिमं रात्रिं सन्ध्ये चैव दिनं तथा।
शुभाशुभफलानीह ध्रुवात् सर्व प्रवर्त्तते।। १२५.२८ ।।
ध्रुवेणाधिष्ठिताश्चापः सूर्य्यो वै गृह्य तिष्ठति।
सर्वभूतशरीरेषु त्वापो ह्यानुश्चिताश्चयाः।। १२५.२९ ।।
दह्यमानेषु तेष्वेह जङ्गमस्थावरेषु च।
धूमधूतास्तु ता ह्यापो निष्क्रामन्तीह सर्वशः।। १२५.३० ।।
तेन चास्त्राणि जायन्ते स्थानमभ्रमयं स्मृतम्।
तेजोभिः सर्वलोकेभ्य आदत्ते रश्मिभिर्जलम्।। १२५.३१ ।।
समुद्राद्वायुसंयोगात् वहन्त्यापो गभस्तयः।
ततस्त्वृतुवशात् काले परिवर्त्तन् दिवाकरः।। १२५.३२ ।।
नियच्छत्यापो मेघेभ्यः शुक्लाः शुक्लैस्तु रश्मिभिः।
अभ्रस्थाः प्रपतन्त्यापो वायुना समुदीरिताः।। १२५.३३ ।।
ततो वर्षति षण्मासान् सर्वभूतविवृद्धये।
वायुभिस्तनितं चैव विद्युतस्त्वग्निजाः स्मृताः।। १२५.३४ ।।
मेहनाच्च मिहेर्धातोर्मेघत्वं व्यञ्जयन्ति च।
न भ्रश्यन्ते ततो ह्यापस्तस्मादभ्रस्य वै स्थितः।।
स्रष्टाऽसौ वृष्टिसर्गस्य ध्रुवेणाधिष्ठितो रविः १२५.३५ ।।
ध्रुवेणाधिष्ठितो वायुर्वृष्टिं संहरते पुनः।
ग्रहान्निवृत्या सूर्य्यात्तु चरते ऋक्षमण्डलम्।। १२५.३६ ।।
चारस्यान्ते विशत्यर्कं ध्रुवेण समधिष्ठितम्।
अतः सूर्य्यरथस्यापि सन्निवेशं प्रचक्षते।। १२५.३७ ।।
स्थितेन त्वेकचक्रेण पञ्चारेण त्रिनाभिना।
हिरण्मयेनाणुना वै अष्टचक्रैक नेमिना।।
चक्रेण भास्वता सूर्य्यः स्यन्दनेन प्रसर्पिणा।। १२५.३८ ।।
शतयोजनसाहस्रो विस्तारायाम उच्यते।
द्विगुणा च रथोपस्थादीषादण्डः प्रमाणत।। १२५.३९ ।।
स तस्य ब्रह्मणा सृष्टो रथोह्यर्थवशेन तु।
असङ्गः काञ्चनो दिव्यो युक्तः पर्वतगैर्हयैः।। १२५.४० ।।
च्छन्दोभिर्वाजिरूपैस्तैर्यथाचक्रं समास्थितैः।
वारुणस्य रथस्येह लक्षणैः सद्रृशश्च सः।। १२५.४१ ।।
तेनासौ चरति व्योम्नि भास्वाननुदिनन् दिवि।
अथाङ्गानि तु सूर्य्यस्य प्रत्यङ्गानि रथस्य च।।
सम्वत्सरस्यावयवैः कल्पितानि यथाक्रमम्।। १२५.४२ ।।
अहर्नाभिस्तु सूर्य्यस्य एकचक्रस्य वै स्मृतः।
अरात् सम्वत्सरास्तस्य नेम्यः षड् ऋतवः स्मृताः।। १२५.४३ ।।
रात्रिर्वरूथोधर्म्मश्च ध्वजऊर्ध्वं व्यवस्थितः।
अक्षकोट्योर्युगान्यस्य अर्तवाहाः कलाः स्मृताः।। १२५.४४ ।।
तस्य काष्ठा स्मृता घोणा दन्तपङ्क्तिः क्षणास्तु वै।
निमेषश्चानुकर्षोऽस्य ईषा चास्य कला स्मृता।। १२५.४५ ।।
युगाक्षकोटी ते तस्य अर्थकामावुभौ स्मृतौ।
सप्ता (मा) श्चरूपाश्छन्दांसि वहन्ते वायुरंहसा।। १२५.४६ ।।
गायत्री चैव त्रिष्टुप् च जगत्यनुष्टुप् तथैव च।
पङ्क्तिश्च बृहतीचैव उष्णिगेव तु सप्तमः।। १२५.४७ ।।
चक्रमक्षे निबद्धन्तु ध्रुवे चाक्षः समर्पितः।
सहचक्रो भ्रमत्यक्षः सहाक्षो भ्रमति ध्रुवम्।। १२५.४८ ।।
अक्षः सहैव चक्रेण भ्रमतेऽसौ ध्रुवेरितः।
एवमर्थवशात्तस्य सन्निवेशो रथस्य तु।। १२५.४९ ।।
तथा संयोगभागेन सिद्धो वै भास्करो रथः।
तेनाऽसौ तरणिर्मध्ये नभसः सर्पते दिवम्।। १२५.५० ।।
युगाक्षकोटी ते तस्य दक्षिणे स्यन्दनस्य तु।
भ्रमतो भ्रमतो रश्मी तौ चक्रयुगयोस्तु वै।। १२५.५१ ।।
मण्डलानि भ्रमतेऽस्य खेचरस्य रथस्य तु।
कुलालचक्रभ्रमवन्मण्डलं सर्वतो दिशम्।। १२५.५२ ।।
युगाक्षकोटि ते तस्य वातोर्मीस्यन्दनस्य तु।
संक्रमे ते ध्रुवमहो मण्डले पर्वतो दिशम्।। १२५.५३ ।।
भ्रमतस्तस्य रश्मी ते मण्डले तूत्तरायणे।
वर्द्धेते दक्षिणेष्वत्र भ्रमतो मण्डलानि तु।। १२५.५४ ।।
युगाक्षकोटी सम्बद्धौ द्वे रश्मीस्यन्दनस्य ते।
ध्रुवेण प्रगृहीतौ तौ रश्मी धारयता रविम्।। १२५.५५ ।।
आकृष्यते यदा ते तु ध्रुवेण समधिष्ठिते।
तदा सोऽभ्यन्तरे सूर्य्यो भ्रमते मण्डलानि तु।। १२५.५६ ।।
अशीतिमण्डलशतं काष्ठयोरुभयोश्चरन्।
ध्रुवेण मुच्यमाने न पुना रश्मियुगेन च।। १२५.५७ ।।
तथैव बाह्यतः सूर्य्यो भ्रमते मण्डलानि तु।
उद्वेष्टयन् वै वेगेन मण्डलानि तु गच्छति।। १२५.५८ ।।