मत्स्यपुराणम्/अध्यायः ४१
ययात्यष्टकसम्वादवर्णनम्।
अष्टक उवाच।
कतरस्त्वेतयोः पूर्व देवानामेति सात्म्यताम्।
उभयोर्धावतो राजन्! सूर्य्या चन्द्रमसोरिव।। ४१.१ ।।
ययातिरुवाच।
अनिकेतगृहस्थेषु कामवृत्तेषु संयतः।
ग्राम एव चरन् भिक्षुस्तयोः पूर्वतरङ्गतः।। ४१.२ ।।
अप्राप्यं दीर्घमायुश्च यः प्राप्तो विकृतिं चरेत्।
तप्येत यदितत्कृत्वा चरेत् सोग्रं तपस्ततः।। ४१.३ ।।
यद्वै नृशंसन्तदपथ्यमाहुर्यः सेवते धर्ममनर्थबुद्धिः।
असावनीशः स तथैव राजन् तदार्जवं ससमाधिस्तदार्यम्।। ४१.४ ।।
अष्टक उवाच।
केनाद्य त्वन्तु प्रहितोऽसि राजन् युवा स्रग्वी दर्शनीयः सुवर्चाः।
कुत आगतः कतमस्यां दिशि त्वमुताहोस्वित् पार्थिवस्थानमस्ति।। ४१.५ ।।
ययातिरुवाच।
इमं भौमं नरकं क्षीणपुण्यः प्रवेष्टुमुर्वीं गगनाद्विप्रकीर्णः।
उक्त्वाऽहं व प्रपतिष्याम्यनन्तरं तरन्तुत्वमी ब्रह्मणो लोकपाये।। ४१.६ ।।
सतां सकाशे तु वृतः प्रपातस्ते सङ्गता गुणवन्तस्तु सर्वे।
शक्राच्च लब्धो हि वरो मयैष प्रतिष्यता भूमितलं नरेन्द्र!।। ४१.७ ।।
अष्टक उवाच।
पृच्छामि त्वां प्रपतन्तं प्रपातं यदि लोकाः पार्थिव सन्ति मेऽत्र।
यद्यन्तरिक्षे यदि वा दिवि श्रिताः क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये।। ४१.८ ।।
ययातिरुत्वाच।
यावत्पृथिव्यां विहितं गवाश्वं सहारण्यैः पशुभिः पक्षिभिश्च।
तावल्लोका दिवि ते संस्थिता वै तथा विजानीहि नरेन्द्रसिंह।। ४१.९ ।।
अष्टक उवाच।
तांस्ते ददामि मा प्रपत प्रपातं ये मे लोका दिवि राजेन्द्र सन्ति।
यद्यन्तरिक्षे यदि वा दिवि श्रितास्तानाक्रम क्षिप्रममित्रहासि।। ४१.१० ।।
ययातिरुवाच।
नास्मद्विधो ब्राह्मणो ब्रह्मविच्च प्रतिग्रहे वर्तते राजमुख्य!।
यथा प्रदेयं सततं द्विजेभ्यस्तथा ददे पूर्वमहं नरेन्द्रम्।। ४१.११ ।।
नाब्राह्मणः कृपणो जातु जीवेद्यद्यपि स्यात् ब्राह्मणी वीरपत्नी।
सोऽहं सदेवाकृत पूर्वं चरेयं विवित्समानः किमु तत्र साधुः।। ४१.१२ ।।
प्रतर्दन उवाच।
पृच्छामि त्वां स्पुहणीयरूप प्रतर्दनोऽहं यदि मे सन्ति लोकाः।
यद्यन्तरिक्षे यदि वा दिवि श्रुताः क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये।। ४१.१३।।
ययातिरुवाच।
सन्ति लोका बहवस्ते नरेन्द्र! अप्येकैकं सप्तशताम्यहानि।
मधुच्युतो घृतवन्तो विशोकास्तेनान्तवन्तः प्रतिपालयन्ति।। ४१.१४ ।।
प्रतर्दन उवाच।
तांस्ते ददामि पतमानस्य राजन्! ये मे लोकास्तव ते वै भवन्तु।
यद्यन्तरिक्षे यदि वा दिवि श्रितास्तानाक्रम क्षिप्रमपेतमोहः।। ४१.१५ ।।
ययातिरुवाच।
न तुल्यतेजाः सुकृतं हि कामये योगक्षेमं पार्थिवात् पार्थिवः सन्।
दैवादेशादापदं प्राप्य विद्वान् चरेन्नृशंसं हि न जातु राजा।। ४१.१६ ।।
धर्म्यं मार्गं चिन्तयानो यशस्यं कुर्य्यात्तपो धर्ममवेक्षमाणः।
न मद्विधो धर्मबुद्धिर्हि राजा ह्येवं कुर्य्यात् कृपणं मां यथात्थ।। ४१.१७ ।।
कुर्य्यामपूर्वं न कृतं यदन्यैर्विवित्समानः किमु तत्र साधुः।
ब्रुवाणमेवं नृपतिं ययातिं नृपोत्तमो वसुमानब्रवीत्तम्।। ४१.१८ ।।