मत्स्यपुराणम्/अध्यायः २२९
शान्तिविघानवर्णनम् ।
मनुरुवाच।
अद्भुतानां फलं देव! शमनञ्च तथा वद।
त्वं हि वेत्सि विशालाक्ष! ज्ञेयं सर्वमशेषतः ।। २२९.१ ।।
मत्स्य उवाच।
अत्र ते वर्णयिष्यामि यदुवाच महातपाः।
अत्र ये वृद्धगर्भस्तु सर्वधर्मभृतां वरः ।। २२९.२ ।।
सरस्वत्याः सुखासीनं गर्गं श्रोतसि पार्थिव!।
पप्रच्छासौ महातेजा अत्रिर्मुनिजनप्रियम् ।। २२९.३ ।।
अत्रिरुवाच।
नश्यतां पूर्वरूपाणि जनानां कथयस्व मे।
नगराणां तथा राज्ञा त्वं हि सर्वं वदस्व माम् ।। २२९.४ ।।
गर्ग उवाच।
पुरुषापचारान्नियतमपरज्यन्ति देवताः।
ततोऽपरागाद्देवानामुपसर्गः प्रवर्तते ।। २२९.५ ।।
दिव्यान्तरिक्षभौमञ्च त्रिविधं संप्रकीर्तितम्।
ग्रहर्क्षवैकृतं दिव्यमान्तरिक्षं निबोध मे ।। २२९.६ ।।
उल्कापातो दिशान्दाहः परिवेषस्तथैव च।
गन्धर्वनगरञ्चैव वृष्टिश्च विकृता तु या ।। २२९.७ ।।
एवमादीनि लोकेऽस्मिन्नान्तरिक्षं विनिर्दिशेत्।
चरस्थिर-भवभौमो भूकम्पश्चापि भूमिजः ।। २२९.८ ।।
जलाशयानां वैकृत्यं भौमं तदपि कीर्तितम्।
भौमे त्वल्पफलं ज्ञेयं चिरेण च विपच्यते ।। २२९.९ ।।
अभ्रजं मध्यफलदं मध्यकालफलप्रदम्।
अद्भुते तु समुत्पन्ने यदि वृष्टिः शिवा भवेत् ।। २२९.१० ।।
सप्ताहाभ्यन्तरे ज्ञेयमद्भुतं निष्फलं भवेत्।
अद्भुतस्य विपाकश्च विना शान्त्या न दृश्यते ।। २२९.११ ।।
त्रिभिर्वर्षैस्तथा ज्ञेयं सुमहद् भयकारकम्।
राज्ञः शरीरे लोके च पुरुद्वारे पुरोहिते ।। २२९.१२ ।।
पाकमायाति पुत्रेषु तथा वै कोशवाहने।
ऋतुस्वभावाद्राजेन्द्र! भवन्त्यद्भुतसंज्ञिताः ।। २२९.१३ ।।
शुभावहास्ते विज्ञेयास्तांश्च मे गदतः श्रृणु।
वज्राशनिमहीकम्पसस्यानिर्घातनिःस्वना ।। २२९.१४ ।।
परिवेषरजोधूम रक्तार्कास्तमयोदयाः।
द्रुमोद्भेदकरस्नेहो बहुशः सफलद्रुमः ।। २२९.१५ ।।
गोपक्षिमधुवृद्धिश्च शुभानि मधु माधवे।
ऋक्षोल्कापातकलुषे कपिलार्केन्दुमण्डलम् ।। २२९.१६ ।।
कृष्णश्वेतं तथा पीतं धूसर ध्वान्त लोहितम्।
रक्तपुष्पारुणं साध्यं नभः क्षुब्धार्णवोपमम् ।। २२९.१७ ।।
सरिताञ्चाम्बु संशोषं दृष्ट्वा ग्रीष्मे शुभं वदेत्।
शक्रायुधपरीवेषं विद्युदल्काधिरोहणम् ।। २२९.१८ ।।
कम्पोद्वर्तन वैकृत्यं हसनं दारणं क्षिते।
नद्योदपानं सरसां विधूनतरणप्लवाः ।। २२९.१९ ।।
श्रृङ्गिणाञ्च वराहाणां वर्षासु शुभमिष्यते।
शीतानिलतुषारत्वं नर्द्दनं मृगपक्षिणाम् ।। २२९.२० ।।
रक्षोभूतपिशाचानां दर्शनं वागमानुषी।
दिशो धूमान्धकाराश्च स नभो-वन-पर्वताः ।। २२९.२१ ।।
उच्चैः सूर्यादयास्तौ च हेमन्ते शोभनाः स्मृताः ।
दिव्यस्त्रीरूपगन्धर्व विमानाद्भुतदर्शनम् ।। २२९.२२ ।।
ग्रहनक्षत्रताराणां दर्शनं वागमानुषी।
गीतवादित्रनिर्घोषो वनपर्वतसानुषु ।। २२९.२३ ।।
सस्यवृद्धी रसोत्पत्तिः शरत्काले शुभाः स्मृताः।
हिमपातानिलोत्पात विरूपाद्भुतदर्शनम् ।। २२९.२४ ।।
कृष्णाञ्जनाभमाकाशं तारोल्कापातपिञ्जरम्।
चित्रगर्भोद्भवः स्त्रीषु गोऽजाश्वमृगपक्षिषु
पत्राङ्कुर-लतानाञ्च विकारा शिशिरे शुभाः ।। २२९.२५ ।।
ऋतुस्वभावेन विनाद्भुतस्य जातस्य दृष्टस्य तु शीघ्रमेव ।।
यतागमं शान्तिरनन्तरन्तु कार्या यथोक्ता वसुधाधिपेन ।। २२९.२६ ।।