मत्स्यपुराणम्/अध्यायः २८८
रत्नदेनुमहादानविधिवर्णनम्।
मत्स्य उवाच।
अथातः संप्रवक्ष्यामि महादानमनुत्तमम्।
रत्नधेन्विति विख्यातं गोलोकफलदं नृणाम् ।। २८८.१
पुण्यं दिनमथासाद्य तुला पुरुषदानवत्।
लोकेशावाहनं कृत्वा ततो धेनुं प्रकल्पयेत् ।। २८८.२
भूमौ कृष्णाजिनं कृत्वा लवणद्रोणसंयुतम्।
धेनुं रत्नमयीं कुर्यात् सङ्कल्प्य विधिपूर्वकम् ।। २८८.३
स्थापयेत् पद्मरागाणामेकाशीति मुखे बुधः।
पुष्परागशतं तद्वद्धोणायां परिकल्पयेत् ।। २८८.४
ललाटे हेमतिलकं मुक्ता फलशतं दृशोः।
भ्रूयुगे विद्रुमशतं शुक्री कर्णद्वये स्मृतौ ।। २८८.५
काञ्चनानानि च श्रङ्गाणि शिरो वज्र शतात्मकम्।
ग्रीवायां नेत्रपटकं गोमेदकशतान्वितम् ।। २८८.६
इन्द्रनीलशतं पृष्ठे वैढूर्यशतपार्श्वके।
स्फाटिकैरुदरं तद्वत् सौगन्धिकशतैः कटिम् ।। २८८.७
खुरा हेममयाः कार्याः पुच्छं मुक्तावलीमयम्।
सूर्यकान्तेन्दुकान्तौ च घ्राणो कर्पूरचन्दने ।। २८८.८
कुङ्कुमानि च रोमाणि रौप्यनाभि च कारयेत्।
गारुत्मतशतं तद्वदपाने परिकल्पयेत् ।। २८८.९
तथान्यानि च रत्नानि स्थापयेत् सर्वसन्धिषु।
कुर्याच्छर्करया जिह्वां गोमयञ्च गुडात्मकम् ।। २८८१०
गोमूत्रमाज्येन तथा दधिदुग्धे स्वरूपतः।
पुच्छाग्रे चामरं दद्यात् समीपे ताम्रदोहनम् ।। २८८.११
कुण्डलानि च हैमानि भूषणानि च शक्तितः।
कारयेदेवमेवन्तु चतुर्थांशेन वत्सकम् ।। २८८.१२
तथा धान्यानि सर्वाणि पादाश्चेक्षुमयाः स्मृताः।
नाना फलानि सर्वाणि पञ्चवर्णं वितानकम् ।। २८८.१३
एवं विरचनं कृत्वा तद्वद्धोमाधिवासनम्।
ऋत्विग्भ्यो दक्षिणां दद्याद्धेनुमामन्त्रयेत्ततः ।।
गुडधेनुवदावाह्य इदञ्चोदाहरेत्ततः ।। २८८.१४
त्वां सर्वदेवगणधाम यतः पठन्ति रुद्रेन्द्रसूर्यकमलासन वासुदेवाः।
तस्मात् समस्त भुवनत्रय देहयुक्ता मां पाहि देवि! भवसागरपीड्यमानम् ।। २८८.१५
आमन्त्र्य चेत्यमभितः परिवृत्य भक्त्या दद्याद्द्विजाय गुरवे जलपूर्विकां ताम्।
यः पुण्यमाप्य दिनमत्रकृतोपवासः पापैर्विमुक्ततनुरेति पदं मुरारेः ।। २८८.१६
इति सकलविधिज्ञो रत्नधेनुप्रदानं वितरति स विमानं प्राप्य देदीप्यमानम्।
सकलकलुषमुक्तो बन्धुभिः पुत्रपौत्रैः स हि मदनसरूपः स्थानमभ्येति शम्भोः ।। २८८.१७