मत्स्यपुराणम्/अध्यायः २२३
राजधर्मवर्णने भेदप्रयोगवर्णनम्।
मत्स्य उवाच।
परस्परन्तु ये दुष्टाः क्रुद्धा भीतावमानिताः।
तेषां भेदं प्रयुञ्जीत भेदसाध्या हि ते मताः ।। २२३.१ ।।
ये तु येनैव दोषेण परस्मान्नापि बिभ्यति।
ते तु तद्दोषपातेन भेदनीया भृशन्ततः ।। २२३.२ ।।
आत्मीयां दर्शयेदाशां परस्माद्दर्शयेद् भयम्।
एवं हि भेदयेद्भिन्नान् यथावद्वशमानयेत् ।। २२३.३ ।।
संहितानि विना भेदं शक्रेणापि सुदुः सहाः।
भेदमेव प्रशंसन्ति तस्मान्नय विशारदाः ।। २२३.४ ।।
स्वमुखेनाश्रयेद् भेदम् भेदं परमुखेन च।
परीक्ष्य साधु मन्येत भेदं परमुखाच्छ्रुतम् ।। २२३.५ ।।
सद्यः स्वकार्यमुद्दिश्य कुशलै र्ये हि भेदिताः।
भेदितास्ते विनिर्दिष्टा नैव राज्ञार्थवादिभिः ।। २२३.६ ।।
अन्तः कोपो बहिः कोपो यत्र स्यातां महीक्षिताम्।
अन्तः कोपो महांस्तत्र नाशकः पृथिवीक्षिताम् ।। २२३.७ ।।
साम्ना न कोपो बाह्यस्तु कोपः प्रोक्तो महीभृतः।
महीषी युवराजभ्यां तथा सेनापते नृप! ।। २२३.८ ।।
अमात्यमन्त्रिणाञ्चैव राजपुत्रे तथैव च।
अन्तः कोपो विनिर्दिष्टो दारुणः पृथिवीक्षिताम् ।। २२३.९ ।।
बाह्यकोपे समुत्पन्ने सुमहत्यपि पार्थिवः।
शुद्धान्तस्तु महाभाग! शीघ्रमेव जयी भवेत् ।। २२३.१० ।।
अपि शक्रसमो राजा अन्तः कोपेन नश्यति।
सोऽन्तः कोपः प्रयत्नेन तस्माद्रक्ष्यो महीभृता ।। २२३.११ ।।
परतः कोपमुत्पाद्य भेदेन विजिगीषुणाः।
ज्ञातीनां भेदनं कार्यं परेषां विजिगीषुणा ।। २२३.१२ ।।
रक्ष्यञ्चैव प्रयत्नेन ज्ञातिभेदस्तथात्मनः।
ज्ञातयः परितप्यन्ते सततं परितापिताः ।। २२३.१३ ।।
तथापि तेषां कर्तव्यं सुगम्भीरेण चेतसा।
ग्रहणं दानमानाभ्यां भेदस्तेभ्यो भयङ्करः ।। २२३.१४ ।।
न ज्ञातिमनुगृह्णन्ति न ज्ञातिं वै श्वसन्ति च।
ज्ञातिभिर्भेदनीयास्तु रिपवस्ते न पार्थिवैः ।। २२३.१५ ।।
भन्ना हि शक्या रिपवः स्वल्पेन सैन्येन निहन्तुमाजौ।
सुसंहतानां हि तदस्तु भेदः कार्यो रिपूणां नयशास्त्रविद्भिः ।। २२३.१६ ।।