मत्स्यपुराणम्/अध्यायः ७२
अङ्गारकव्रतकथनम्।
ईश्वर उवाच।
श्रृणु चान्यद् भविष्यं यद्रूपसम्पद्विधायकम्।
भविष्यति युगे तस्मिन् द्वापरान्ते पितामह।।
पिप्पलादस्य संवादो युधिष्ठिरपुरःसरैः ।। ७२.१ ।।
वसन्तं नैमिषारण्ये पिप्पलादं महामुनिम्।
अधिगम्य तदा चैनं प्रश्नमेकं करिष्यति।
युधिष्ठिरो धर्म्मपुत्रो धर्मयुक्तस्तपोधनम्।। ७२.२ ।।
युधिष्ठिर उवाच।
कथमारोग्यमैश्वर्यं मतिर्धर्म्मेगतिस्तथा।
अव्यङ्गता शिवे भक्तिर्वैष्णवो वा भवेत् कथम्।। ७२.३ ।।
ईश्वर उवाच।
तस्योत्तरमिदं ब्रह्मन्! पिप्पलादस्य धीमतः।
श्रृणुष्व यद्वक्ष्यति वै धर्म्मपुत्राय धार्मिकः।। ७२.४ ।।
पिप्पलाद उवाच।
साधु पृष्टं त्वया भद्र! इदानीं कथयामि ते।
अङ्गारव्रतमित्येतत् स वक्ष्यति महीपतेः।। ७२.५ ।।
अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
विरोचनस्य सम्वादं भार्गवस्य च धीमतः।। ७२.६ ।।
प्रह्लादस्य सुतं द्रृष्ट्वा द्विरष्टपरिवत्सरम्।
रूपेणाप्रतिमं कान्त्या सोऽहसद्भृगुनन्दनः।। ७२.७ ।।
साधु साधु महाबाहो! विरोचन ! शिवं तव।
तत्तथा हसितं तस्य पप्रच्छ सुरसूदनः।। ७२.८ ।।
ब्रह्मन्! किमर्थमेतत्ते हास्यमाकस्मिकं कृतम्।
साधु साध्विति मामेवमुक्तवांस्त्वं वदस्व मे।। ७२.९ ।।
तमेवं वादिनं शुक्र उवाच वदताम्वरः।
विस्मयाद् व्रतमाहात्म्याद्धास्यमेतत् कृतं मया।। ७२.१० ।।
पुरा दक्षविनाशाय कुपितस्य तु शूलिनः।
अथ तद्भीमवक्त्रस्य स्वेदबिन्दुर्ललाटजः।। ७२.११ ।।
भित्वा स सप्तपातालानदहत्सप्त सागरान्।
अनेकवक्त्रनयनो ज्वलज्ज्वलनभीषणः।। ७२.१२ ।।
वीरभद्र इति ख्यातः करपादायुतैर्युतः।
कृत्वासौ यज्ञमथनं पुनर्भूतलसम्भवः।
त्रिजगन्निर्दहन् भूयः शिवेन विनिवारितः।। ७२.१३ ।।
कृतं त्वया वीरभद्र! दक्षयज्ञविनाशनम्।
इदानीमलमेतेन लोकदाहेन कर्म्मणा।। ७२.१४ ।।
शान्तिप्रदाता सर्वेषां ग्रहाणां प्रथमो भव।
प्रेक्षिष्यन्ते जनाः पूजां करिष्यन्ति वरान् मम।। ७२.१५ ।।
अङ्गारक इति ख्यातिं गमिष्यसि धरात्मज।
देवलोके द्वितीयञ्च तव रूपं भविष्यति।। ७२.१६ ।।
ये च त्वां पूजयिष्यन्ति चतुर्थ्यां त्वद्दिने नराः।
रूपमारोग्यमैश्वर्यं तेष्वनन्तं भविष्यति।। ७२.१७ ।।
एवमुक्तस्तदा शान्तिमगमत्कामरूपधृक्।
सञ्जातस्तत्क्षणाद्राजन्!ग्रहत्वमगमत् पुनः।। ७२.१८ ।।
स कदाचित् भवांस्तस्य पूजार्घ्यादिकमुत्तमम्।
द्रृष्टवान् क्रियमाणञ्च शूद्रेण च व्यवस्थितः।। ७२.१९ ।।
तेन त्वं रूपवान् जातः सुरशत्रुकुलोद्वह।
विविधा च रुचिर्जाता यस्मात् तव विदूरगा।। ७२.२० ।।
विरोचन इति प्राहुर्यस्मात् त्वां देवदानवाः।
शूद्रेण क्रियमाणस्य व्रतस्य तव दर्शनात्।। ७२.२१ ।।
ईद्रृशीं रूपसम्पत्तिं द्रृष्ट्वा विस्मितवानहम्।
साधु साध्विति तेनोक्तं मही माहात्म्यमुत्तमम्।।
पश्यतोऽपि भवेद्रूपमैश्वर्यं किमु कुर्वतः।। ७२.२२ ।।
यस्माच्च भक्त्या धरणीसुतस्य विनिन्द्यमानेन गवादिदानम्।
आलोकितन्तेन सुरारिगर्भे सम्भूतिरेषा तव दैत्य! जाता।। ७२.२३ ।।
ईश्वर उवाच।
अथ तद्वचनं श्रुत्वा भार्गवस्य महात्मनः।
प्रह्लादनन्दनो वीरः पुनः पप्रच्छ विस्मितः।। ७२.२४ ।।
विरोचन उवाच।
भगवंस्तद् व्रतं सम्यक् श्रोतुमिच्छामि तत्त्वतः।
दीयमानन्तु यद्दानं मया द्रृष्टं भवान्तरे।। ७२.२५ ।।
माहात्म्यञ्च विधिं तस्य यथावद्वक्तुमर्हसि।
इति तद्वचनं श्रुत्वा पुनः प्रोवाच विस्तरात्।। ७२.२६ ।।
शुक्र उवाच।
चतुर्थ्यङ्गारकदिने यदा भवति दानव।
मृदा स्नानां तदा कुर्यात् पद्मरागविभूषितः।। ७२.२७ ।।
अग्निर्मूर्द्धादिवो मन्त्रं जपन्नास्ते उदङ्मुखः।
शूद्रस्तूष्णीं स्मरन् भौममास्ते भोगविवर्जितः।। ७२.२८ ।।
तथास्तमित आदित्ये गोमयेनानुलेपयेत्।
प्राङ्गणं पुष्पमालाभिरक्षताभिः समन्ततः।। ७२.२९ ।।
अभ्यर्च्याभि लिखेत् पद्मं कुङ्कुमेनाष्टपत्रकम्।
कुङ्कुमस्याप्यभावे तु रक्तचन्दनमिष्यते।। ७२.३० ।।
चत्वारः करकाः कार्या भक्ष्यभोज्यसमन्विताः।
तण्डुलैरक्तशालीयैः पद्मरागैश्च संयुताः।। ७२.३१ ।।
चतुः कोणेषु तान् कृत्वा फलानि विविधानि च।
गन्धमाल्यादिकं सर्वं तथैव विनिवेदयेत्।। ७२.३२ ।।
सुवर्णश्रृङ्गीं कपिलामथार्च्य रौप्यैः खुरैः कांस्यदोहां सवत्साम्।
धुरन्धरं रक्तमतीव सौम्यं दान्यानि सप्ताम्बरसंयुतानि।। ७२.३३ ।।
अङ्गुष्ठमात्रं पुरुषं तथैव सौवर्णमत्यायतबाहुदण्डम्।
चतुर्भुजं हेममये निविष्टं पात्रे गुडस्योपरि सर्पियुक्तम्।। ७२.३४ ।।
समस्तयज्ञाय जितेन्द्रियाय पात्राय शीलान्वयसंयुताय।
दातव्यमेतत् सकलं द्विजाय कुटुम्बिने नैव तु दाम्भिकाय।
समर्पयेद्विप्रवराय भक्त्या कृताञ्जलिः पूर्वमुदीर्य मन्त्रम्।। ७२.३५ ।।
भूमिपुत्र! महाभाग! स्वेदोद्भव! पिनाकिनः।
रूपार्थी त्वां प्रपन्नोऽहं गृहाणार्घ्यं नमोऽस्तु ते।। ७२.३६ ।।
मन्त्रेणानेन दत्त्वार्घ्यं रक्तचन्दनवारिणा।
ततोऽर्चयेद्विप्रवरं रक्तमाल्याम्बरादिभिः।। ७२.३७ ।।
दद्यात्तेनैव मन्त्रेण भौमङ्गोमिथुनान्वितम्।
शय्यां च शक्तितो दद्यात् सर्वोपस्करसंयुताम्।। ७२.३८ ।।
यद्यदिष्टतमं लोके यच्चास्य दयितं गृहे।
तत्तद्गुणवते देयन्तदेवाक्षयमिच्छता।। ७२.३९ ।।
प्रदक्षिणां ततः कृत्वा विसर्ज्य द्विजपुङ्गवम्।
नक्तमक्षारलवणमश्नीयाद् घृतसंयुतम्।। ७२.४० ।।
भक्त्या यस्तु पुनः कुर्यादेवमङ्गारकाष्टकम्।
चतुरो वाथ वा तस्य यत्पुण्यं तद्वदामि ते।। ७२.४१ ।।
रूपसौभाग्यसम्पन्नः पुनर्जन्मनि जन्मनि।
विष्णौ वाऽथ शिवे भक्तः सप्तद्वीपाधिपो भवेत्।। ७२.४२ ।।
सप्तकल्पसहस्राणि रुद्रलोके महीयते।
तस्मात्त्वमपि दैत्येन्द्र! व्रतमेतत् समाचर।। ७२.४३ ।।
पिप्पलाद उवाच।
इत्येवमुक्त्वा भृगुनन्दनोऽपि जगाम दैत्यश्च चकार सर्वम्।
त्वं चापि राजन्! कुरु सर्वमेतद्यतोऽक्षयं वेदविदो वदन्ति।। ७२.४४ ।।
ईश्वर उवाच।
तथेति संपूज्य स पिप्पलादं वाक्यञ्चकाराद्भुतवीर्यकर्मा।
श्रृणोति यश्चैनमनन्यचेतास्तस्यापि सिद्धिं भगवान् विधत्ते।। ७२.४५ ।।