अग्निपुराणम्

















गङ्गामाहात्म्यं


अग्निरुवाच
गङ्गामाहात्म्यमाख्यास्ये सेव्या सा भुक्तिमुक्तिदा ।११०.००१
येषां मध्ये याति गङ्गा ते देशा पावना वराः ॥११०.००१
गङ्गा तारयते(३) चोभौ वंशौ नित्यं हि सेविता ॥११०.००२
चान्द्रायणसहस्राच्च गङ्गाम्भःपानमुत्तमं ।११०.००३
गङ्गां मासन्तु संसेव्य सर्वयज्ञफलं लभेत् ॥११०.००३
सकलाघहरी देवी स्वर्गलोकप्रदायिनी ।११०.००४
यावदस्थि च गङ्गायां तावत्स्वर्गे स तिष्ठति ॥११०.००४
अन्धादयस्तु(४) तां सेव्य देवैर्गच्छन्ति तुल्यतां(५) ।११०.००५
गङ्गातीर्थसमुद्भूतमृद्धारी सोऽघहार्कवत्(६) ॥११०.००५
दर्शनात्स्पर्शनात्पानात्तथा गङ्गेतिकीर्तनात् ।११०.००६
पुनाति पुण्यपुरुषान् शतशोथ सहस्रशः ॥११०.००६
इत्याग्नेये महापुराणे गङ्गामाहात्म्यं नाम दशाधिकशततमोऽध्यायः
- - - - -- - -- - -- - -- - ..
३ गङ्गा पावयते इति झ..
४ पतितादयस्तु इति झ..
५ गच्छन्ति साम्यतामिति घ.. , झ.. च
६ गङ्गातीरसमुद्भूतमृद्धारो सोऽघहार्कवदिति ख.. , ग.. , झ.. च । गङ्गातीरसमुद्भूतमृदं मूर्धा विभर्ति यः । विभर्ति रूपं सोर्कस्य तमोनाशाय केवलमिति ङ..
-- - - -- - -- - - -