अग्निपुराणम्
















आग्न्येयपुराणमाहात्म्यम्

सम्पाद्यताम्



अग्निरुवाच
आग्नेयं ब्रह्मरूपन्ते पुराणं कथितं मया ।
सप्रपञ्चं निष्प्रपञ्चं विद्याद्वयमयं महत् ।। ३८३.१ ।।
ऋग्यजुःसामाश्चर्वाख्या विद्या विष्णुर्जगज्जनिः ।
छन्दः शिक्षा व्याकरणं निधण्टुज्योतिराख्यकाः ।। ३८३.२ ।।
निरुक्तधर्मशास्त्रादि मीमांसान्यायविस्तराः ।
आयुर्वेदपुराणाख्या धनुर्गन्धर्वविस्तराः ।। ३८३.३ ।।
विद्या सैवार्थसास्त्राख्या वेदान्ताऽन्या हरिर्महान् ।
इत्येषा चापरा विद्या परविद्याऽक्षरं ।। ३८३.४ ।।
यस्य भावोऽखिलं विष्णुस्तस्य नो बाधते कलिः ।
अनिष्ट्वा तु महायज्ञानकृत्वापि पितृस्वधां ।। ३८३.५ ।।
कृष्णमभ्यर्च्चयन्भक्त्या नैनसो भाजनं भवेत् ।
सर्वकारणमत्यन्तं विष्णुं ध्यायन्न सीदति ।। ३८३.६ ।।
अन्यतन्त्रादिदोषोत्थो विषयाकृष्टमानसः ।
कृत्वापि पापं गोविन्दं ध्यायन्पापैः प्रमुच्यते ।। ३८३.७ ।।
तद्ध्यानं यत्र गोविन्दः सा कथा यत्र केशवः ।
तत् कर्म यत्तदर्थीयं किमन्यैर्बहुभाषितैः ।। ३८३.८ ।।
न तत् पिता पु पुत्राय न शिष्याय गुरुर्द्विज ।
परमार्थं परं ब्रूयाद्यदेतत्ते मयोदितं ।। ३८३.९ ।।
संसारे भ्रमता लभ्यं पुत्रदारधनं वसु ।
सुहृदश्च तथैवान्ये नोपदेशो द्विजेदृशः ।। ३८३.१० ।।
किं पुत्रदारैमित्रैर्वा किं मित्रक्षेत्रवान्धवैः ।
उपदेशः परो वन्धुरीदृशो यो विमुक्तये ।। ३८३.११ ।।
द्विविधो भूतमार्गोयं दैव आसुर एव च ।
विष्णुभक्तिपरो दैवो विपरीतस्तथासुरः ।। ३८३.१२ ।।
एतत् पवित्रमारोग्यं धन्यं दुःस्वप्ननाशनं ।
सुखप्रीतिकरं नॄणां मोक्षकृद् यत्तवेरितं ।। ३८३.१३ ।।
येषां गृहेषु लिखितमाग्नेयं हि पुराणकं ।
पुस्तकं स्थास्यति सदा तत्र नेशुरुपद्रवाः ।। ३८३.१४ ।।
किं तीर्यैर्गोप्रदानैर्वा किं यज्ञैः किमुपोषितैः ।
आग्नेयं ये हि श्रृण्वन्ति अहन्यहनि मानवाः ।। ३८३.१५ ।।
यो ददाति तिलप्रस्थं सुवर्णस्य च माषकं ।
श्रृणेति श्लोकमेकञ्च आग्नेयस्य तदाप्नुयात् ।। ३८३.१६ ।।
अध्यायपठनञ्चास्य गोप्रदानाद् विशिष्यते ।
अहोरात्रकृतं पापं श्रोतुमिच्छोः प्रणश्यति ।। ३८३.१७ ।।
कपिलानां शते दत्ते यद् भवेज्ज्येष्ठपुष्करे ।
तदाग्नेयं पुराणं हि पठित्वा फलमाप्नुयात् ।। ३८३.१८ ।।
प्रवृत्तञ्च निवृत्तञ्च धर्मं विद्याद्वयात्मकं ।
आग्नेयस्य पुराणस्य शास्त्रस्यास्य समं न हि ।। ३८३.१९ ।।
पठन्नाग्नेयकं नित्यं श्रृण्वन् वापि पुराणकं ।
भक्तो वशिष्ठ मनुजः सर्वपापैः प्रमुच्यते ।। ३८३.२० ।।
नोपसर्गा न चानर्था न चौरारिभयं गृहे ।
तस्मिन् स्याद् यत्र चाग्नेयपुराणस्य हि पुस्तकं ।। ३८३.२१ ।।
न गर्भहारिणी भीतिर्न च बालग्रहा गृहे ।
यत्राग्नेयं पुराणं स्यान्न पिशाचादिकं भयं ।। ३८३.२२ ।।
श्रृण्वन् विप्रो वेदवित् स्यात् क्षत्रियः पृथिवीपतिः ।
ऋद्धिं प्राप्नोति वैश्यश्च शूद्रश्चारोग्यमृच्छति ।। ३८३.२३ ।।
यः पठेत् श्रृणुयान्नित्यं समदृग्विष्णुमानसः ।
ब्रह्माग्नेयं पुराणं सत्तत्र नश्यन्त्युपद्रवाः ।। ३८३.२४ ।।
दिव्यान्तरीक्षभौमाद्या दुःस्वप्नाद्यभिचारकाः ।
यच्चान्यद्दुरितं किञ्चित्तत्सर्व्वं हन्ति केशवः ।। ३८३.२५ ।।
पठतः श्रृण्वतः पुंसः पुस्तकं यजतो महत् ।
आग्नेयं श्रीपुराणं हि हेमन्ते यः श्रृणोति वै ।। ३८३.२६ ।।
प्रपूज्य गन्धपुष्पाद्यैरग्निष्टोमफलं लभेत् ।
शिशिरे पुण्डरीकस्य वसन्ते चाश्वमेधजम् ।। ३८३.२७ ।।
ग्रीष्मे तु वाजपेयस्य राजसूयस्य वर्षति ।
गोसहस्रस्य शरदि फलं तत्पठतो ह्यृतौ ।। ३८३.२८ ।।
आग्नेयं हि पुराणं यो भक्ताग्रे पठते हरेः ।
सोऽर्च्चयेच्च वसिष्ठेह ज्ञानयज्ञेन केशवम् ।। ३८३.२९ ।।
यस्याग्नेयपुराणस्य पुस्तकं तस्य वै जयः ।
लिखितं पूजितं गेहे भुक्तिर्मुक्तिः करेऽस्ति हि ।। ३८३.३० ।।
इति कालाग्निरूपेण गीतं मे हरिणा पुरा ।
आग्नेयं हि पुराणं वै ब्रह्मविद्याद्वयास्पदम् ।।
विद्याद्वयं वसिष्ठेदं भक्तेभ्यः कथयिष्यसि ।। ३८३.३१ ।।
वसिष्ठ उवाच
व्यासाग्नेयपुराणं ते रूपं विद्याद्वयात्मकं ।
कथितं ब्रह्मणो विष्णोरग्निना कथितं यथा ।। ३८३.३२ ।।
सार्द्धं देवैश्च भुनिभिर्मह्यं सर्व्वार्थदर्शकं ।
पुराणमग्निना गीतमाग्नेयं ब्रह्मसमिमतं ।। ३८३.३३ ।।
यः पठेच्छृणुयाद्व्यास लिखेद्वा लेखयेदपि ।
श्रावयेत्पाठयेद्वापि पूजयेद्धारयेदपि ।। ३८३.३४ ।।
सर्व्वपापविनिर्मुक्तः प्राप्तकामो दिवं व्रजेत् ।
लेखयित्वा पुराणं यो दद्याद्विप्रेभ्य उत्तमं ।। ३८३.३५ ।।
स ब्रह्मलोकमाप्नोति कुलानां शतमुद्धरेत् ।
एकं श्लोकं पठेद्यस्तु पापपङ्काद्विमुच्यते ।। ३८३.३६ ।।
तस्माद्व्यास सदा श्राव्यं शिष्यभ्यः सर्वदर्शनं ।
शुकाद्यैर्मुनिभिः सार्द्धं श्रोतुकामैः पुराणकं ।। ३८३.३७ ।।
आग्नेयं पठितं ध्यातं शुभं स्याद् भुक्तिमुक्तिदं ।
अग्नये तु नमस्तस्मै येन गीतं पुराणकं ।। ३८३.३८ ।।
व्यास उवाच
वसिष्ठेन पुरा गीतं सूतैतत्ते मयोदितं ।
पराविद्याऽपराविद्यास्वरूपं परमं पदम् ।। ३८३.३९ ।।
आग्नयं दुर्लभं रूपं प्राप्यते भाग्यसंयुतैः ।
ध्यायन्तो ब्रह्म चाग्नेयं पुराणं हरिमागताः ।। ३८३.४० ।।
विद्यार्थिनस्तथा विद्यां राज्यं राज्यार्थिनो गताः ।
अपुत्राः पुत्रिणः सन्ति नाश्रया आश्रयं गताः ।। ३८३.४१ ।।
सौभाग्यार्थी च सौभाग्यं मोक्षं मोक्षार्थिनो गताः ।
लिखन्तो लेखयन्तश्च निष्पापाश्च श्रियं गताः ।। ३८३.४२ ।।
शुकपैलमुखैः सूत आग्नेयन्तु पुराणकं ।
रूपं चिन्तय यातासि भुक्तिं मुक्तिं न संशयः ।।
श्रावय त्वञ्च शिष्येभ्यो भक्तेभ्यश्च पुराणकम् ।। ३८३.४३ ।।
सूत उवाच
व्यासप्रसादादाग्नेयं पुराणं श्रुतमादरात् ।। ३८३.४४ ।।
आग्नेयं ब्रह्मरूपं हि मुनयः शौनकादयः ।
भवन्तो नैमिषारण्ये यजन्तो हरिमीश्वरं ।। ३८३.४५ ।।
तिष्ठन्तः श्रद्धया युक्तास्तस्माद्वः समुदीरितम् ।
अग्निना प्रोक्तमाग्नेयं पुराणं वेदसम्मितं ।। ३८३.४६ ।।
ब्रह्मविद्याद्वयोपेतं भुक्तिदं मुक्तिदं महत् ।
नास्मात्परतरः सारो नास्मात्परतरः सुहृत् ।। ३८३.४७ ।।
नास्मात्परतरो ग्रन्थो नास्मात्परतरा गतिः ।
नास्मात्परतरं शास्त्रं नास्मात्परतरा श्रुतिः ।। ३८३.४८ ।।
नास्मात्परतरं ज्ञानं नास्मात्परतरा स्मृतिः ।
नास्मात्परो ह्यागमोऽस्ति नास्माद्विद्या पराऽस्ति हि ।। ३८३.४९ ।।
नास्मात्परः स्यात्सिद्धान्तो नास्मात्परममङ्गलम् ।
नास्मात्परोऽस्ति वेदान्तः पुराणं परमन्त्विदं ।। ३८३.५० ।।
नास्मात्परतरं भूमौ विद्यते वस्तु दुर्लभम् ।
आग्नेये हि पुराणेऽस्मिन् सर्वविद्याः प्रदर्शिताः ।। ३८३.५१ ।।
सर्वे मत्स्यावताराद्या गीता रामायणन्त्विह ।
हरिवंशो भारतञ्च नव सर्गाः प्रदर्शिताः ।। ३८३.५२ ।।
आगमो वैष्णवो गीतः पूजादीक्षाप्रतिष्ठया ।
पवित्रारोहणादीनि प्रतिमालक्षणादिकं ।। ३८३.५३ ।।
प्रासादलक्षणाद्यञ्च मन्त्रा वै भुक्तिभुक्तिदाः ।
शैवागमस्तदर्थश्च शाक्तेयः सौर एव च ।। ३८३.५४ ।।
मण्डलानि च बास्तुश्च मन्त्राणि विविधानि च ।
प्रतिसर्गश्चानुगीतो ब्रह्माण्डपरिमण्डलं ।। ३८३.५५ ।।
गीतो भुवनकोषश्च द्वीपवर्षादिनिम्नगाः ।
गयागङ्गाप्रयागादि-तीर्थमाहात्म्यमीरितं ।। ३८३.५६ ।।
ज्योतिश्चक्रं ज्योतिषादि गीतो युद्धजयार्णवः ।
मन्वन्तरादयो गीताः धर्मा वर्णादिकस्य च ।। ३८३.५७ ।।
अशौचं द्रव्यशुद्धिश्च प्रायश्चित्तं प्रदर्शितं ।
राजधर्म्मा दानधर्मा व्रतानि विविधानि च ।। ३८३.५८ ।।
व्यवहाराः शान्तयश्च ऋग्वेदादिविधानकं ।
सूर्यवंशः सोमवंशो धनुर्वेदश्च वैद्यकं ।। ३८३.५९ ।।
गान्धर्व्ववेदोऽर्थशास्त्रं मीमांसा न्यायविस्तरः ।
पुराणसंख्यामाहात्म्यं छन्दो व्याकरणं स्मृतं ।। ३८३.६० ।।
अहङ्कारो निघण्टुश्च शिक्षा कल्प इहोदितः ।
स्मृतः नैमित्तिकः प्राकृतिको लय आत्यन्तिकः ।। ३८३.६१ ।।
वेदान्तं ब्रह्मविज्ञानं योगी ह्यष्टाङ्ग ईरितः ।
स्तोत्रं पुराणमाहात्म्यं विद्या ह्यष्टादश स्मृताः ।। ३८३.६२ ।।
ऋग्वेदाद्याः परा ह्यत्र पराविद्याक्षरं परं ।
सप्रपञ्चं निष्प्रपञ्चं ब्रह्मणो रूपमीरितं ।। ३८३.६३ ।।
इदं पञ्चदशसाहस्रं शतकोटिप्रविस्तरं ।
देवलोके दैवतैश्च पुरणं पठ्यते सदा ।। ३८३.६४ ।।
लोकानां हितकामेन संक्षिप्योद्गीतमग्निना ।
सर्वं ब्रह्मेति जानीध्वं मुनयः शोनकादयः ।। ३८३.६५ ।।
श्रृणुयाच्छ्रावयेद्वापि यः पठेत्पाठयेदपि ।
लिखेल्लेखापयेद्वापि पूजयेत्कीर्त्तयेदपि ।। ३८३.६६ ।।
पुराणपाठकञ्चैव पूजयेत् प्रयतो नृपः ।
गोभूहिरण्यदानाद्यैर्वस्त्रालङ्कारतर्पणैः ।। ३८३.६७ ।।
तं संपूज्य लभेच्चैव पुराणश्रवणात् फलं ।
पुराणान्ते च वै कुर्य्यादवश्यं द्विजभोजनं ।। ३८३.६८ ।।
निर्म्मलः प्राप्तसर्व्वार्थः सकुलः स्वर्गमाप्नुयात् ।
शरयन्त्रं पुस्तकाय सूत्रं वै पत्रसञ्चयं ।। ३८३.६९ ।।
पट्टिकाबन्धवस्त्रादि दद्याद् यः स्वर्गमाप्नुयात् ।
यो दद्याद्ब्रह्म्लोकी स्यात् पुस्तकं यस्य वै गृहे ।। ३८३.७० ।।
तस्योत्पातभयं नास्ति भुक्तिमुक्तिमवाप्नुयात् ।
यूयं स्मरत चाग्नेयं पुराणं रूपमैश्वरं ।।
सूतो गतः पूजितस्तैः शौनकाद्या हरिं ययुः ।। ३८३.७१ ।।

इत्यादिमहापुराणे आग्नेये आग्नेयपुराणमाहात्म्यं नाम
त्र्यशीत्यधिकत्रिशततमोऽध्यायः ।

समाप्तमाग्नेयं पुराणम् ।