अग्निपुराणम्
















यजुर्विधानम्

सम्पाद्यताम्


पुष्कर उवाच
यजुर्विधानं वक्ष्यामि भुक्तिमुक्तिप्रदं श्रृणु ।
ॐकारपूर्व्विका राम महाव्याहृतयो मता ।। २६०.१ ।।

सर्व्वकल्मषनाशिन्यः सर्व्वकामप्रदास्तथा ।
आज्यहुतिसहस्रेण देवानाराधयेद्‌बुधः ।। २६०.२ ।।

मनसः काङ्क्षितं राम मनसेप्सितकामदं ।
शान्तिकामो यवैः कुर्य्यात्तिलैः पापापनुत्तये ।। २६०.३ ।।

धान्यैः सिद्धार्थकैश्चैव सर्व्वकामकरैस्तथा ।
औदुम्बरीभिरिध्मामिः पशुकामस्य शस्यते ।। २६०.४ ।।

दध्ना चैवान्नकामस्य पथसा शान्तिमिच्छतः ।
अपामार्गसमिद्भिस्तु कामयन् कनकं बहु ।। २६०.५ ।।

कन्याकामो घृताक्तानि युग्मशो ग्रथितानि तु ।
जातीपुष्पाणि जुहुयाद्‌ग्रामार्थी तिलतण्डुलान् ।। २६०.६ ।।

वश्यकर्मणि शाखोटवासापामार्गमेव च ।
विषासृङ्‌मिश्रसमिधो व्याधिघातस्य भार्गव ।। २६०.७ ।।

क्रुद्धस्तु जुहुयात्सम्यक् शत्रूणां वधकाम्यया ।
सर्व्वव्रीहिमयीं कृत्वा राज्ञः प्रतिकृतिं द्विज ।। २६०.८ ।।

सहस्नशस्तु जुहुयाद्राजा वशगतो भवेत् ।
वस्त्रकामस्य पुष्पाणि दूर्व्वा व्याधिविनाशिनी ।। २६०.९ ।।

ब्रह्मवर्च्चसकामस्य वासोग्रञ्च विधीयते ।
प्रत्यङ्गिरेषु जुहुयात्तुषकण्टकभस्मभिः ।। २६०.१० ।।

विद्वेषणे च पक्ष्माणि काककौशिकयोस्तथा ।
कापिलञ्च घृतं हुत्वा तथा चन्द्रग्रहे द्विज ।। २६०.११ ।।

वचाचूर्णेन सम्पातात्समानीय च तां वचां ।
सहस्रमन्त्रितां भुक्त्वा मेधावी जायते नरः ।। २६०.१२ ।।

एकादशाङ्गुलं शङ्कु लौहं खादिरमेव च।
[]द्विषतो वधोसीति जपन्निखनेद्रिपुवेश्मनि ।। २६०.१३ ।।

उच्चाटनमिदं कर्म शत्रूणां कथितं तव ।
[]चक्षुष्पा इति जप्त्वा च विनष्टञ्चक्षुराप्नुयात् ।। २६०.१४ ।।

उपयुञ्जत इत्येतदनुवाकन्तथान्नदं ।
[]तनूपाग्ने सदिति दूर्व्वां हुत्वार्त्तिवर्ज्जितः ।। २६०.१५ ।।

[]भेषजमसीति दध्याज्यैर्होमः पशूपसर्गनुत्२ ।
[]त्रियम्बकं यजामहे होमः सौभाग्यवर्द्धनः ।। २६०.१६ ।।

कन्यानाम गृहीत्वा तु कन्यालाभकरः परः ।
भयेषु तु जपेन्नित्यं भयेभ्यो विप्रमुच्यते ।। २६०.१७ ।।

धुस्तूरपुष्पं सघृतं हुत्वा स्यात् सर्वकामभाक् ।
हुत्वा तु गुग्गुलं राम स्वप्ने पश्यति शङ्करं ।। २६०.१८ ।।

[]युञ्चते मनोऽनुवाकं जप्त्वा दीर्घायुराप्नुयात् ।
[]विष्णोरराटमित्येतत् सर्वबाधाविनाशनं ।। २६०.१९ ।।

रक्षोघ्नञ्च यशस्यञ्च तथैव विजयप्रदं ।
[]अयन्नो अग्निरित्येतत् संग्रामे विजयप्रदं ।। २६०.२० ।।

[]इदमापः प्रवहत स्नाने पापापनोदनं ।
[१०]विश्वकर्मन्नु हविषा सूचीं लौहीन्दशाङ्गुलाम् ।। २६०.२१ ।।

कन्याया निखनेद् द्वारि साऽन्यस्मै न प्रदीयते ।
[११]देव सवितरेतेन हुतेनैतेन चान्नवान् ।। २६०.२२ ।।

अग्नौ स्वाहेति जुहुयाद्‌बलकामो द्विजोत्तम ।
तिलैर्यवैश्च धर्मज्ञ तथापामार्गतण्डुलैः ।। २६०.२३ ।।

सहस्रमन्त्रितां कृत्वातथा गोरोचनां द्विज ।
तिलकञ्च तथा कृत्वा जनस्यप्रियकामियात् ।। २६०.२४ ।।

रुद्राणाञ्च तथा जप्यं सर्व्वाघविनिसूदनं ।
सर्व्वकर्मकरो होमस्तथा सर्व्वत्र शान्तिदः ।। २६०.२५ ।।

अजाविकानामश्वानां कुञ्जराणां तथा गवां ।
मनुष्याणान्नरेन्द्राणां बालानां योषितामपि ।। २६०.२६ ।।

ग्रामाणां नगराणाञ्च देशानामपि भार्गव ।
उपद्रुतानां धर्मज्ञ व्याधितानां तथैव च ।। २६०.२७ ।।

मरके समनुप्राप्ते रिपुजे च तथा भये ।
रुद्रहोमः परा शान्तिः पायसेन घृतेन च ।। २६०.२८ ।।

कुष्माण्डघृतहोमेन सर्व्वान् पापान् व्यपोहति ।
शक्तुयावकभैक्षाशी नक्तं मनुजसत्तम ।। २६०.२९ ।।

बहिःस्नानरतो मासान्मुच्यते ब्रह्यहत्यया ।
[१२]मधुवातेति मन्त्रेण होमादितोऽखिलं लभेत् ।। २६०.३० ।।

[१३]दधिक्राव्णेति हुत्वा तु पुत्रान् प्राप्नोत्यसंशयं ।
तथा [१४]घृतवतीत्येतदायुष्यं स्यात् घृतेन तु ।। २६०.३१ ।।

[१५]स्वस्ति न इन्द्र इत्येतत्सर्व्वबाधाविनाशनं ।
इह गावः प्रजायध्वमिति पुष्टिविवर्धनम् ।। २६०.३२ ।।

घृताहुतिसहस्रेण तथाऽलक्ष्मीविनाशनं ।
स्रुवेण देवस्य त्वेति हुत्वापामार्गतण्डुलं ।। २६०.३३ ।।

मुच्यते विकृताच्छीघ्रमभिचारान्न संशयः ।
रुद्र पातु पलाशस्य समिद्भिः कनकं लभेत् ।। २६०.३४ ।।

[१६]शिवो भवेत्यग्न्युत्पाते व्रीहिभिर्जुहुयान्नरः ।
याः सेना इति चैतच्च तस्करेभ्यो भयापहम् ।। २६०.३५ ।।

[१७]यो अस्मभ्यमरातीयाद्‌धुत्वा कृष्णतिलान्नरः ।
सहस्रशोऽभिचारच्च मुच्यते विकृताद्‌ द्विज ।। २६०.३६ ।।

[१८]अन्नेनान्नपतेत्येवं हुत्वा चान्नमवाप्नुयात् ।
[१९]हंसः शुचिः सदित्येतज्जप्तन्तोयेऽघनाशनं ।। २६०.३७ ।।

[२०]चत्वारि शृङ्गेत्येतत्तु सर्व्वपापहरं जले ।
[२१]देवा यज्ञेति जप्त्वा तु ब्रह्मलोके महीयते ।। २६०.३८ ।।

[२२]वसन्तेति च हुत्वाज्यं आदित्याद्वरमाप्नुयात् ।
[२३]सुपर्णोसीति चेत्यस्य कर्मव्याहृतिवद्भवेत् ।। २६०.३९ ।।

नमः स्वाहेति त्रिर्ज्जप्त्वा बन्धनान्मोक्षमाप्नुयात् ।
अन्तर्ज्जले त्रिरावर्त्य द्रुपदा सर्व्वपापमुक् ।। २६०.४० ।।

इह गावः प्रजायध्वं मन्त्रोयं बुद्धिवर्द्धनः ।
हुतन्तु सर्पिषा दध्ना पयसा पायसेन वा ।। २६०.४१ ।।

शतं य इति चैतेन हुत्वा पर्णफलानि च ।
आरोग्यं श्रियमाप्नोति जीवतञ्च चिरन्तथा ।। २६०.४२ ।।

[२४]ओषधीः प्रतिमोदध्वं वपने लवनेऽर्थकृत् ।

उद्धरणे दोषः : समाप्तिः </ref> <ref> शृङ्खला लुप्तातस्मा इति च मन्त्रेण बन्धनस्थो विमुच्यते ।

[२५]युवा सुवासा इत्येव वासांस्याप्नोति चोत्तमम् ।। २६०.४४ ।।

[२६]मुञ्चन्तु मा शपथ्यानि सर्व्वान्तकविनाशनम् ।
[२७]मा मा हिंसीस्तिलाज्येन हुतं रिपुविनाशनं ।। २६०.४५ ।।

[२८]नमोऽस्तु सर्व्वसर्पेभ्यो घृतेन पायसेन तु ।
[२९]कृणुध्वं पाज इत्येतदभिचारविनाशनं ।। २६०.४६ ।।

दूर्व्वाकाण्डायुतं हुत्वा [३०]काण्डात् काण्डेति मानवः ।
ग्रामे जनपदे वापि मरकन्तु शमन्नयेत् ।। २६०.४७ ।।

रोगार्त्तो मुच्यते रोगात् तथा दुःखात्तु दुःखितः ।
औडुम्बरीश्च समिधो [३१]मधुमान्नो वनस्पतिः ।। २६०.४८ ।।

हुत्वा सहस्रशो राम धनमाप्नोति मानवः ।
सौभाग्यं महदाप्नोति व्यवहारे तथा जयम् ।। २६०.४९ ।।

[३२]अपां गर्भमिति हुत्वा देवं वर्षापयेद्‌ध्रुवम् ।
[३३]अपः पिबेति च तथा हुत्वा दधि घृतं मधु ।। २६०.५० ।।

प्रवर्त्तयति धर्मज्ञ महावृष्टिमनन्तरं ।
[३४]नमस्ते रुद्र इत्येतत् सर्व्वोपद्रवनाशनं ।। २६०.५१ ।।

सर्व्वशान्तिकरं प्रोक्तं महापातकनाशनं ।
अध्यवोचदित्यनेन रक्षणं व्याधितस्य तु ।। २६०.५२ ।।

रिपूणां भयदं युद्धे नात्र कार्य्या विचारणा ।
मानो महान्त इत्येवं बालानां शान्तिकारकं ।। २६०.५३ ।।

[३५]असौ यस्ताम्र इत्येतत् पठन्नित्यं दिवाकरं ।
उपतिष्ठेत धर्मज्ञ सायं प्रातरतन्द्रितः ।। २६०.५४ ।।

अन्नमक्षयमाप्नोति दीर्घमायुश्च विन्दति ।
[३६]प्रमुञ्च धन्वन्नित्येतत् षड्भिरायुधमन्त्रणं ।। २६०.५५ ।।

रिपूणां भयदं युद्धे नात्र कार्य्या विचारणा ।
[३७]मानो महान्त इत्येवं बालानां शान्तिकारकं ।। २६०.५६ ।।

[३८]नमो हिरण्यबाहवे इत्यनुवाकसप्तकम् ।
राजिकां कटुतैलाक्तां जुहुयाच्छत्रुनाशनीं ।। २६०.५७ ।।

[३९]नमो वः किरिकेभ्यश्च पद्मलक्षाहुतैर्न्नरः ।
राज्यलक्ष्मीमवाप्नोति तथा बिल्वैः सुवर्णकम् ।। २६०.५८ ।।

[४०]इमा रुद्रायेति तिलैर्होमाच्च धनमाप्यते ।
दूर्वाहोमेन चान्येन सर्वव्याधिविवर्ज्जितः ।। २६०.५९ ।।

[४१]आशुः शिशान इत्येतदायुधानाञ्च रक्षणे।
संग्रामे कथितं राम सर्वशत्रुनिबर्हणं ।। २६०.६० ।।

[४२]राजसामेति जुहुयात् सहस्रं पञ्चभिर्द्विज ।
आज्याहुतीनां धर्मज्ञ चक्षूरोगाद्विमुच्यते ।। २६०.६१ ।।

[४३]शन्नो वनस्पते गेहे होमः स्याद्वास्तुदोषनुत् ।
[४४]अग्न आयूंषि हुत्वाज्यं द्वेषं नाप्नोति केनचित् ।। २६०.६२ ।।

[४५]अपां फेनेति लाजाभिर्हुत्वा जयमवाप्नुयात् ।
[४६]भद्रा इतीन्द्रियैर्हीनो जपन् स्यात् सकलेन्द्रियः ।। २६०.६३ ।।

[४७]अग्निश्च पृथिवी चेति वशीकरणमुत्तमम् ।
[४८]अध्वनेति जपन् मन्त्रं व्यवहारे जयी भवेत् ।। २६०.६४ ।।

ब्रह्म राजन्यमिति च कर्मारम्भे तु सिद्धिकृत् ।
[४९]संवत्सरोसीति धृतैलक्षहोमादरोगवान् ।। २६०.६५ ।।

[५०]केतुं कृण्वन्नितीत्येतत् संग्रामे जयवर्द्धनम् ।
इन्द्रोग्निर्धर्म इत्येतद्रणे धर्मनिबन्धनम् ।। २६०.६६ ।।

[५१]धन्वनागेति मन्त्रश्च धनुर्ग्राहणिकः परः ।
युञ्जीतेति तथा मन्त्रो विज्ञेयो ह्यभिमन्त्रणे ।। २६०.६७ ।।

मन्त्रश्चाहिरथेत्येतच्छराणां मन्त्रणे भवेत् ।
[५२]वह्नीनां पितरित्येरत्तूणमन्त्रः प्रकीर्त्तितः ।। २६०.६८ ।।

[५३]युञ्जन्तीति तथाश्वानां योजने मन्त्र उच्यते ।
[५४]आशुः शिशान इत्येतद्‌यात्रारम्भणमुच्यते ।। २६०.६९ ।।

विष्णोः क्रमेति मन्त्रश्च रथारोहणिकः परः ।
आजङ्घेतीति चाश्वानां ताडनीयमुदाहृतं ।। २६०.७० ।।

याः सेना अभित्वरीति परसैन्यमुखे भवेत् ।
यमेन दत्तमित्यस्य कोटिहोमाद्विचक्षणः ।। २६०.७१ ।।

एतैः पूर्वहुतैर्मन्त्रैः कृत्वैव विजयी भवेत् ।
यमेन दत्तमित्यस्य कोटिहोमाद्विचक्षणः ।। २६०.७२ ।।

रथमुत्पादयेच्छीघ्रं संग्रामे विजयप्रदम् ।
आ कृष्णेति तथैतस्य कर्मव्याहृतिवद्भवेत् ।। २६०.७३ ।।

[५५]शिवसंकल्पजापेन समाधिं मनसो लभेत् ।
पञ्चनद्यः पञ्चलक्षं हुत्वा लक्ष्मीमवाप्नुयात् ।। २६०.७४ ।।

[५६]यदा बध्नन्दाक्षायणां मन्त्रेणानेन मन्त्रितम् ।
सहस्रकृत्वः कनकं धारयेद्रिपुवारणं ।। २६०.७५ ।।

[५७]इमं जीवेभ्य इति च शिलां लोष्ट्रञ्चतुर्द्दिशं ।
क्षिपेद्‌गृहे तदा तस्य न स्याच्चौरभयं निशि ।। २६०.७६ ।।

[५८]परि मे गामनेनेति वशीकरणमुत्तमं ।
हन्तुमभ्यागतस्तत्र वशी भवति मानवः ।। २६०.७७ ।।

भक्ष्यताम्बूलपुष्पाद्यं मन्त्रितन्तु प्रयच्छति ।
यस्य धर्मज्ञ वशगः सोस्य शीघ्रं भविष्यति ।। २६०.७८ ।।

[५९]शन्नो मित्र इतीत्येतत् सदा सर्व्वत्र शान्तिदं ।
[६०]गणानां त्वा गणपतिं कृत्वा होमञ्चतुष्पथे ।। २६०.७९ ।।

वशीकुर्य्याज्जगत्सर्वं सर्वधान्यैरसंशयम् ।
हिरण्यवर्णाः शुचयो मन्त्रोयमभिषेचने ।। २६०.८० ।।

[६१]शन्नो देवीरभिष्टये तथा शान्तिकारः परः ।
एकचक्रेति मन्त्रेण हुतेनाज्येन भागशः ।। २६०.८१ ।।

ग्रहेभ्यः शान्तिमाप्नोति प्रसादं न च संशयः ।
[६२]गावो [६३]भग इति द्वाभ्यां हुत्वाज्यं गा अवाप्नुयात् ।। २६०.८२ ।।

प्रवादांषः सोपदिति गृहयज्ञे विधीयते ।
देवेभ्यो वनस्पत इति द्रुमयज्ञे विधीयते ।। २६०.८३ ।।

गायत्री वैष्णवी ज्ञेया तद्विष्णोः परमम्पदं ।
सर्व्वपापप्रशमनं सर्व्वकामकरन्तथा१५ ।। २६०.८४ ।।

इत्यादिमहापुराणे आग्नेये यजुर्विधानं नाम षष्ट्यधिकद्विशततमोऽध्यायः ।।

  1. १.२८
  2. २.१६
  3. ३.१७
  4. ३.५९
  5. ३.६०
  6. ५.१४
  7. ५.२१
  8. ५.३७
  9. ६.१७
  10. १७.२२
  11. ११.७
  12. १३.२७
  13. २३.३२
  14. ३४.४५
  15. २५.१९
  16. ११.४५
  17. ११.८०
  18. ११.८३
  19. १०.२४
  20. १७.९१
  21. १९.१२
  22. ३१.१४
  23. १७.७२
  24. १२.७७
  25. तै.ब्रा. ३.६.१.३
  26. १२.९०
  27. १२.१०२
  28. १३.६
  29. १३.९
  30. १३.२०
  31. १३.२९
  32. १३.३०
  33. १४.८
  34. वासं १६.१
  35. वासं १६.६
  36. १६.९-१४
  37. १६.१५
  38. १६.१७
  39. १६.४६
  40. १६.४८
  41. ऋ. १०.१०३.१
  42. १८.१५-१९
  43. १९.३८
  44. १९.३८
  45. १९.७१
  46. १४.३९
  47. २६.१
  48. ५.३३
  49. २७.४५
  50. २९.३७
  51. २९.३९
  52. २९.४२
  53. २३.६
  54. वा.सं. १७.३३
  55. वा.सं. ३४.१
  56. वासं ३४.५२
  57. ३५.१५
  58. ३५.१८
  59. ३६.९
  60. २३.१९
  61. ३६.१२
  62. ३३.२९
  63. ३४.३६-३७