अग्निपुराणम्
















ब्रह्मज्ञानम्

सम्पाद्यताम्

अग्निरुवाच
यज्ञैश्च देवानाप्नोति वैराजं तपसा पदं ।
ब्रह्मणः कर्मसन्नयासाद्वैराग्यात् प्रकृतौ लयं ।। ३७९.१ ।।

ज्ञानात् प्नाप्नोति कैवल्यं पञ्चैता गतयः स्मृता ।
प्रीतितापविषादादेर्विनिवृत्तिर्विरक्तता ।। ३७९.२ ।।

सन्न्यासः कर्मणान्त्यागः कृतानामकृतैः सह ।
अव्यक्तादौ विशेषान्ते विकारोऽस्मिन्निविर्त्तते ।। ३७९.३ ।।

चेतनाचेतनान्यत्वज्ञानेन ज्ञानमुच्यते ।
परमात्मा च सर्वेषामाधारः परमेश्वरः ।। ३७९.४ ।।

विष्णुनाम्ना च देवेषु वेदान्तेषु च गीयते ।
यज्ञेश्वरो यज्ञपुमान् प्रवृत्तेरिज्यते ह्यसौ ।। ३७९.५ ।।

निवृत्तैर्ज्ञानयोगेन ज्ञानमूर्त्तिः स चेक्ष्यते ।
ह्रस्वदीर्घप्लुताद्यन्तु वचस्तत्पुरुषोत्तमः ।। ३७९.६ ।।

तत्‌प्राप्तिहेतुर्ज्ञानञ्च कर्म चोक्तं महामुने ।
आगमोक्तं विवेकाच्च द्विधा ज्ञानं तथोच्यते ।। ३७९.७ ।।

शब्दब्रह्मागममयं परं ब्रह्म सत्परम् ।
द्वे ब्रह्मणी वेदितव्ये ब्रह्मशब्दपरञ्च यत् ।। ३७९.८ ।।

वेदादिविद्या ह्यपरमक्षरं ब्रह्म सत्परम् ।
तदेतद्भगवद्वाच्यमुपचारेऽर्चनेऽन्यतः ।। ३७९.९ ।।

सम्मर्तेति तथा भर्त्ता भ्कारोऽर्थद्वयान्वितः ।
नेता गमयिता स्रष्टा गकारोऽयं महामुने ।। ३७९.१० ।।

ऐश्वर्य्यस्य समग्रस्य वीर्य्यस्य यशसः श्रइयः ।
ज्ञानवैराग्ययोश्चैव षण्णं भग इतीङ्गना ।। ३७९.११ ।।

वसन्ति विष्णौ भूतानि स च धातुस्त्रिधात्मकः ।
एवं हरौ हि भगवान् शब्दोऽन्यत्रोपचारतः ।। ३७९.१२ ।।

उत्पत्तिं प्रलयञ्चैव भूतानामगतिं गतिं ।
वेत्ति विद्यामविद्याञ्च स वाच्यो भगवानिति ।। ३७९. १३ ।।

ज्ञानशक्तिः परैश्वर्य्यं वीर्य्यं तेजांस्यशेषतः ।
भगवच्छब्दवाच्यानि विना हेयैर्गुणादिभिः ।। ३७९.१४ ।।

खाण्डिक्यजनकायाह योगं केशिध्वजः पुरा ।
अनात्मन्यात्मबुद्धिर्या आत्मस्वमिति या मतिः ।। ३७९.१५ ।।

अविद्याभवसम्भूतिर्वीजमेतद्‌द्विधा स्थितम् ।
पञ्चभूतात्मके देहे देही मोहतमाश्रितः ।। ३७९.१६ ।।

अहमेतदितीत्युच्चैः कुरुते कुमतिर्मतिं ।
इत्थञ्च पुत्रपौत्रेषु तद्देहोत्पातितेषु च ।। ३७९.१७ ।।

करोति पण्डितः साम्यमनात्मनि कलेवरे ।
सर्वदेहोपकाराय कुरुते कर्म्म मानवः ।। ३७९.१८ ।।

देहश्चान्यो यदा पुंसस्तदा बन्धाय तत्परं ।
निर्वाणमथ एवायमात्मा ज्ञानमयोऽमलः ।। ३७९.१९ ।।

दुःखज्ञानमयोऽधर्मः प्रकृतेः स तु नात्मनः ।
जलस्य नाग्निना सङ्गः स्थालीसङ्गत्तथापि हि ।। ३७९.२० ।।

शब्दास्ते कादिका धर्मास्तत् कृता वै महामुने ।
तथात्मा प्रकृतौ सङ्गादहंमानादिभूषितः ।। ३७९.२१ ।।

भजते प्राकृतान्धर्मान् अन्यस्तेभ्यो हि सोऽव्ययः ।
बन्धाय विषयासङ्गं मनो निर्विषयं धिये ।। ३७९.२२ ।।

विषयात्तत्समाकृष्य ब्रह्मभूतं हरिं स्मरेत् ।
आत्मभावं नयत्येनं तद्‌ब्रह्मध्यायिनं मुने ।। ३७९.२३ ।।

विचार्य्य स्वात्मनः शक्त्या लौहमाकर्षको यथा ।
आत्भप्रयत्नसापेज्ञा विशिष्टा या मनोगतिः ।। ३७९.२४ ।।

तस्या ब्रह्‌मणि संयोगो योग इत्यभिधीयते ।
विनिष्पन्दः समाधिस्थः परं ब्रह्माधिगच्छति ।। ३७९.२५ ।।

यमैः सन्नियमैः स्थित्या प्रत्याहृत्या मरुज्जयैः ।
प्राणायामेन पवनैः प्रत्याहारेण चेन्द्रियैः ।। ३७९.२६ ।।

वशीकृतैस्ततः कुर्य्यात् स्थितं चेतः शुभाश्रये ।
आश्रयश्चेतसो ब्रह्म मूर्त्तञ्चामूर्तकं द्विधा ।। ३७९.२७ ।।

हिरण्यगर्भादिषु च ज्ञानकर्मात्मिका द्विधा ।
त्रिविधा भावना प्रोक्ता विश्वं ब्रह्म उपास्यते ।। ३७९.२८ ।।

हिरण्यगर्भादिषु च ज्ञानकर्मात्मिका द्विधा ।
त्रिविधा भावना प्रोक्ता विश्वं ब्रह्म उपास्यते ।। ३७९.२९ ।।

प्रत्यस्तमितभेदं यत् सत्तामात्रमगोचरं ।
वचसामात्मसंवेद्यं तज्ज्ञानं ब्रह्म संज्ञितम् ।। ३७९.३० ।।

तच्च विष्णोः परं रुपमरुपस्याजमक्षरं ।
अशक्यं प्रथमं ध्यातुमतो मूर्त्तादि चितन्येत् ।। ३७९.३१ ।।

सद्भावभावमापन्नस्ततोऽसौ परमात्मना ।
भवत्यभेदी भेदश्च तस्याज्ञानकृतो भवेत् ।। ३७९.३२ ।।

इत्यादिमहापुराणे आग्नेये ब्रह्मज्ञानं नामोनाशीत्यधिकत्रिशततमोऽध्यायः ॥