वास्तुपुरुष (८१पद)
वास्तुपुरुषः.

वास्तुलक्षणम् सम्पाद्यताम्


अग्निरुवाच
वास्तुलक्ष्म प्रवक्ष्यामि विप्रादीनां च भूरिह ।
श्वेता रक्ता तथा पीता कृष्णा चैव यथाक्रमम् ।। २४७.० ।।

घृतरक्तान्नमद्यानां गन्धाढ्या वसतश्च च भूः ।
मधुरा च कषाया च अम्लाद्युपरसा क्रमात् ।। २४७.२ ।।

कुशैः शरैस्तथाकाशैर्दूर्वाभिर्या च संश्रिता ।
प्रार्च्य विप्रांश्च निःशल्पां खातपूर्वन्तु कल्पयेत् ।। २४७.३ ।।

चतुःषष्टिपदं कृत्वा मध्ये ब्रह्मा चतुष्पदः ।
प्राक् तेषां वै गृहस्वामी कथितस्तु तथार्य्यमा ।। २४७.४ ।।

दक्षिणेन विवस्वांश्च मित्रः पश्चिमतस्तथा ।
उदङ्महीधरश्चैव आपवत्सौ च वह्विगे ।। २४७.५ ।।

सावित्रश्चैव सविता जयेन्द्रौ नैर्ऋतेऽम्बुधौ ।
रुद्रव्याधी च वायव्ये पूर्व्वादौ कोणगाद्वहिः ।। २४७.६ ।।

महेन्द्रश्च रविः सत्यो भृशः पूर्व्वेऽथ दक्षिणे।
गृहक्षतोऽर्यमधृती गन्धर्वाश्चाथ वारुणे ।। २४७.७ ।।

पुष्पदन्तोऽसुराश्चैव वरुणो यक्ष एव च ।
सौमेये भल्लाटसोमौ च अदितिर्धनदस्तथा ।। २४७.८ ।।

नागः करग्रहश्चैशे अष्टौ दिशि दिशि स्मृताः ।
आदायन्तौ तु तयोर्देवौ प्रोक्तावत्र गृहेश्वरौ ।। २४७.९ ।.

पर्ज्यन्यः प्रथमो देवो द्वितीयश्च करग्रहः ।
महेन्द्ररविसत्याश्च भृशोऽथ गगन्न्तथा ।। २४७.१० ।।

पवनः पूर्व्वतश्चैव अन्तरीक्षघनेस्वरौ।
आग्नेये चाथ नैर्ऋत्ये मृगसुग्रीवकौ सुरौ ।। २४७.१० ।।

रोगो मुख्यश्च वायव्ये दक्षिणे पुष्पवित्तदौ ।
गृहक्षतो यसभृशौ गन्धर्वो नागपैतृकः ।। २४७.१२ ।।

आप्ये दौवारिकसुग्रीवौ पुष्पदन्तोऽसुरो जलं ।
यक्ष्मा रोगश्च शोषश्च उत्तरे नागराजकः । २४७.१३ ।।

अग्निपुराणम्

















मुख्यो भल्लाटशशिनौ अदितिश्च कुवेरकः ।
नागो हुताशः श्रेष्ठो वै शक्रसूर्य्यौ च पूर्वतः ।। २४७.१४ ।।

दक्षे गृहक्षतः पुष्प आप्ये सुग्रीव उत्तमः ।
पुष्पदन्तो ह्युदग्द्वारि भल्लाटः पुष्पदन्तकः ।। २४७.१५ ।।

शिलेष्टकादिविन्यासं मन्त्रैः प्रार्च्य सुरांश्चरेत् ।
नन्दे नन्दय वासिष्ठे वसुभिः प्रजया सह ।। २४७.१६ ।।

जये फार्गवदायादे प्रजानाञ्चयमावह ।
पूर्णेऽङ्गिरसदायादे पूर्णकामं कुरुष्व मां ।। २४७.१७ ।।

भद्रे काश्यपदायादे कुरु भद्रां मतिं मम ।
सर्ववीजसमायुक्ते सर्वरत्नौषधैर्वृते ।। २४७.१८ ।।

रुचिरे नन्दने नन्दे वासिष्ठे रम्यतामिह।
प्रजापतिसुते देवि चतुरस्त्रे महीमये ।। २४७.१९ ।।

सुभगे सुव्रते भद्रे गृहे काश्यपि रम्यतां ।
पूजिते परमाचार्य्यैर्गन्धमाल्यैरलङ्‌कृते ।। २४७.२० ।।

भवभूतिकरे देवि गृहे काश्यापि रम्यतां ।
अव्यह्ग्ये चाक्षते पूर्णे मुनेरङ्गिरसः सुते ।। २४७.२१ ।।

इष्टके त्वं प्रयच्छेष्टं प्रतिष्ठाङ्गारयाम्यहं ।
देशस्वामिपुरस्वामिगृहस्वामिपरिग्रहे ।। २४७.२२ ।।

मनुष्यधनहस्त्यश्वपशुवृद्धिकरी भव ।
गृहव्रवेशेऽपि तथा शिलान्यासं समाचरेत् ।। २४७.२३ ।।

उत्तरेण शुभः प्लक्षो वचः प्राक् स्याद् गृहादितः ।
उदुम्वरश्च याम्येन पश्चिमेऽश्वत्थ उत्तमः ।। २४७.२४ ।।

वामभागे तथोद्यानं कुर्य्याद्वासं गृहे शुभं ।
सायं प्रातस्तु धर्माप्तौ शीतकाले दिनान्तरे ।। २४७.२५ ।।

वर्षारात्रे भुवः शोषे सेक्तव्या रोपितद्रुमाः ।
विड़ङ्गघृतसंयुक्तान् सेचयेच्छीतवारिणा ।। २४७.२६ ।।

फलनाशे कुलत्थैश्च माषैर्मुद्गैस्तिलैर्यवैः ।
घृतशीतपयःसेकः फलपुष्पाय सर्वदा ।। २४७.२७ ।।

मत्स्याम्भसा तु सेकेन वृद्धिर्भवति शाखिनः ।
आविकाजशकृच्चूर्णं यवचूर्णं तिलानि च ।। २४७.२८ ।।

गोमांसमुदकञ्चेति सप्तरात्रं निधापयेत् ।
उत्सेकं सर्ववृक्षाणां फलपुष्पादिवृद्धिदं ।। २४७.२९ ।।

मत्स्योदकेन शीतेन आम्राणां सेक इष्यते ।
प्रशस्तं चाप्यशोकानां कामिनीपादताडनं ।। २४७.३० ।।

खर्जूरनारिकेलादेर्लवणाद्भिर्विवर्द्धनं ।
विडङ्गमत्स्यमांसाद्भिः सर्वेषां दोहदं शुभं ।। २४७.३१ ।।

इत्यादिमहापुराणे आग्नेये वास्त्वादिर्नाम सप्तचत्वारिंशदधिकद्विशततमोऽध्यायः ।।