अग्निपुराणम्
















अभिषेकादिकथनम्सम्पाद्यताम्

ईश्वर उवाच
शिवमभ्यर्च्याभिषेकं कुर्य्याच्छिष्यादिके क्षिये।
सुम्भानीशादिकाष्ठासु क्रमशो नव विन्यसेत् ।। १ ।।

तेषु क्षारोदं क्षीरीदं दध्युदं घृतसागरं।
इक्षुकादम्बरीस्वादुमस्तूदानष्टसागरान् ।। २ ।।

निवेशयेद् यथासङ्‌ख्यमष्टौ विद्येश्वरानथ।
एकं शिखण्डिनं रुद्रं श्रीकण्ठन्तु द्वितीयकं ।। 3 ।।

त्रिमूर्त्तमेकरुद्राक्षमेकनेत्रं शिवोत्तमं।
सप्तमं सूक्ष्मनामानमनन्तं रुद्रमष्टमं ।। ४ ।।

मध्ये शिवं समुद्रञ्च शिंवमन्त्रं च विन्यसेत्।
यागालयान् दिगीशस्य रचिते स्नानमण्डपे ।। ५ ।।

कुर्य्यात् करद्वयायामां वेदीमष्टाङ्गुलोच्छ्रितां।
श्रीपर्णाद्यासने तत्र विन्यस्यानन्तमानसं ।। ६ ।।

शिष्यं निवेश्य पूर्वास्यं सकलीकृत्य पूजयेत्।
काञ्चिकौदनमृद्‌भस्मदूर्वागोमयगोलकैः ।। ७ ।।

सिद्धार्थदधितोयैश्च कुर्य्यान्निर्म्मञ्छनं ततः।
क्षारोदानुक्रमेणाथ हृदा विद्येशशम्बरै ।। ८ ।।

कलसैः स्नापयेच्छिष्यं स्वधाधारणयान्वितं।
परिधाप्य सिने वस्त्रे निवेश्य शिवदक्षिणे ।। ९ ।।

पूर्व्वोदितासने शिष्यं पुनः पूर्ववदर्च्चयेत्।
उष्णीषं योगपट्टञ्च मुकुटं कर्त्तरीं घटीं ।। १० ।।

अक्षमालां पुस्तकादि शिविकाद्यधिकारकं।
दीक्षाव्याख्याप्रतिष्ठाद्यं ज्ञात्वाऽद्यप्रभृति त्वया ।। ११ ।।

सुपरीक्ष्य विधातव्यमाज्ञां संश्रावयेदिति।
अभिवाद्य ततः शिष्यं प्रणिपत्य महेश्वरं ।। १२ ।।

विघ्नज्वालापनोदार्थं कुर्य्याद्विज्ञापनां यथा।
अभिषेकार्थमादिष्टस्त्वयाऽहं गुरुमुर्त्तिना ।। १3 ।।

संहितापारगः सोऽयमभिषिक्तो मया शिव।
तृप्तये मन्त्रचक्रस्य पञ्चपञ्चाहुतीर्यजेत् ।। १४ ।।

दद्यात् पूर्णां ततः शिष्यं स्थापयेन्निजदक्षिणे।
शिष्यदक्षिणपाणिस्था अह्गुलष्ठाद्यङ्गुलीः क्रमात् ।। १५ ।।

लात्र्छयेदुपबद्धाय दग्धदर्भाग्रशम्बरैः।
कुसुमानि करे दत्वा प्रणामं कारयेदमुं ।। १६ ।।

कुम्भेऽनले शिवे स्वस्मिंस्ततस्तत्कृत्यमाविशेत्।
अनुग्राह्यास्त्वया शिष्याः शास्त्रेण सुपरीक्षिताः ।। १७ ।।

भूपबन्मानवादीनामभिषेकादबीप्सितं।
आं श्रां श्रौं पशुं हूं फडिति अस्त्रराजाभिषेकतः ।। १८ ।।

इत्यादिम्हापुराणे आग्नेये अभिषेकादिकथनं नाम नवतितमोऽध्यायः ।