अग्निपुराणम्
















प्रात्यहिकराजकर्म ।सम्पाद्यताम्

पुष्कर उवाच
अजस्रं कर्म वक्ष्यामि दिनं प्रति यदाचरेत् ।
द्विमुहूर्त्तावशेषायां रात्रौ निद्रान्त्यजेन्नृपः ।। २३५.१ ।।

वाद्यवन्दिस्वनैर्गीतैः पश्येद् गूढास्ततो नरान् ।
विज्ञायते न ये लोकास्तदीया इति केनचित् ।। २३५.२ ।।

आयव्ययस्य श्रवणं ततः कार्य्यं यथाविधि ।
वेगोत्सर्गं ततः कृत्वा राजा स्नानगृहं व्रजेत् ।। २३५.३ ।।

स्नानं कुर्य्यान्नृपः श्चाद्दन्तधावनपूर्वकं ।
कृत्वा सन्ध्यान्ततो जप्यं वासुदेवं प्रपूजयेत् ।। २३५.४ ।।

वह्नौ पवित्रान् जुहुयात् तर्पयेदु दकैः पितृन् ।
दद्यात्सकाञ्चनीं धेनुं द्विजाशीर्वादसंयुतः ।। २३५.५ ।।

अनुलिप्तोऽलङ्कृतश्च मुखं पश्येच्च दर्पणे ।
ससुवर्णे धृते राजा श्रृणुयाद्दिवसादिकं ।। २३५.६ ।।

औषधं भिषजोक्तं च मङ्गलालम्भनञ्चरेत् ।
पश्येद् गुरुं तेन दत्ताशीर्वादोऽथ व्रजेत्सभां ।। २३६.७ ।।

तत्रस्थो ब्राह्मणान् पश्येदमात्यान्मन्त्रिणस्तथा ।
प्रकृतीश्च महाभाग प्रतीहारनिवेदिताः ।। २३५.८ ।।

श्रुत्वेतिहासं कार्य्याणि कार्याणां कार्य्यनिर्णयम् ।
व्यवहारन्ततः पश्येन्मन्त्रं कुर्य्यात्तु मन्त्रिभिः ।। २३५.९ ।।

नैकेन सहितः कुर्य्यान्न कुर्य्याद्‌बहुभिः सह ।
न च मूर्खैर्न्न चानाप्तैर्गुप्तंन प्रकटं चरेत्१ ।। २३५.१० ।।

मन्त्रं स्वधिष्ठितं कुर्य्याद्येन राष्ट्रं न बाधते ।
आकारग्रहणे राज्ञो मन्त्ररक्षा परा मता२ ।। २३५.११ ।।

आकारैरिङ्गितैः प्राज्ञा मन्त्रं गृह्णन्ति पण्डिताः ।
सांवत्सराणां वैद्यानां मन्त्रिणां वचनेरतः ।। २३५.१२ ।।

राजा विभूतिमाप्नोति३ धारयन्ति नृपं हि ते ।
मन्त्रं कृत्वाथ व्यायामञ्चक्रे याने च शस्त्रके ।। २३५.१३ ।।

निःसत्त्वादौ नृपः स्नातः पश्येद्विष्णुं सुपूजितम् ।
हुतञ्च पावकं पश्येद्विप्रान् पश्येत्सुपूजितान् ।। २३५.१४ ।।

भूषितो भोजनङ्कुर्य्याद् दानाद्यैः सुपरीक्षितं ।
भुक्त्वा गृहीतताम्बूलो वामपार्श्वेन संस्थितः४ ।। २३५.१५ ।।

शास्त्राणि चिन्तयेद् दृष्ट्वा योधान् कोष्ठायुधं गृहं ।
अन्वास्य पश्चिमां सन्ध्यां कार्य्याणि च विचिन्त्य तु ।। २३५.१६ ।।

चरान् सम्प्रेष्य भुक्तान्नमन्तःपुरचरो भवेत् ।
वाद्यगीतैरक्षितोऽन्यैरेवन्नित्यञ्चरेन्नृपः ।। २३५.१७ ।।

इत्यादिमहापुराणे आग्नेये आजस्रिकं नाम पञ्चत्रिंशदधिकद्विशततमोऽध्यायः ।