एकादशीव्रतं
अग्निपुराणम्
















अग्निरुवाच
एकादशीव्रतं वक्ष्ये भुक्तिमुक्तिप्रदायाकं ।१८७.००१
दशम्यान्नियताहारो मांसमैथुनवर्जितः(१) ॥१८७.००१
एकदश्यां न भुञ्जीत पक्षयोरुभयोरपि ।१८७.००२
द्वादश्येकादशी यत्र तत्र सन्निहितो हरिः ॥१८७.००२
तत्र(२) क्रतुशतं पुण्यं त्रयोदश्यां तु पारणे ।१८७.००३
एकादशी कला यत्र परतो द्वादशो गता(३) ॥१८७.००३
तत्र क्रतुशतं पुण्यन्त्रयोदश्यान्तु पारणे ।१८७.००४
दशम्येकादशीमिश्रा नोपोष्या नरकप्रदा ॥१८७.००४
एकादश्यान्निराहारो भुक्त्वा चैवापरेऽहनि ।१८७.००५
भोक्ष्येऽहं पुण्डरीकाक्ष शरणं मे भवाच्युत ॥१८७.००५
एकादश्यां सिते पक्षे पुष्यर्क्षन्तु यदा भवेत् ।१८७.००६
सोपोष्पाक्षय्यफलदा प्रोक्ता सा पापनाशिनी ॥१८७.००६
एकादशी द्वादशी या श्रवणेन च संयुता ।१८७.००७
विजया सा तिथिः प्रोक्ता भक्तानां विजयप्रदा ॥१८७.००७
एषैव फाल्गुने मासि पुष्यर्क्षेण च संयुता ।१८७.००८
टिप्पणी
१ मधुमांसैर्विवर्जित इति ग..
२ अत्रेति ख.. , छ.. , ज.. च
३ द्वादशी मतेति घ.. , ञ.. च । द्वादशी भवेदिति ङ.. , झ.. च

विजया प्रोच्यते सद्भिः कोटिकोटिगुणोत्तरा(१) ॥१८७.००८
एकादश्यां विष्णुपूजा(२) कार्या सर्वोपकारिणी(३) ।१८७.००९
धनवान् पुत्रवान् लोके विष्णुलोके महीयते ॥१८७.००९

इत्याग्न्येये महापुराणे एकादशीव्रतं नाम सप्ताशीत्यधिकशततमोऽध्यायः ॥