अग्निपुराणम्
















नित्यनैमित्तिकप्राकृतप्रलयाःसम्पाद्यताम्

अग्निरुवाच
चतुर्विधस्तु प्रलयो नित्यो यः प्राणिनां लयः ।
सदा विनाशो जातानां ब्राह्मो नैमित्तिको लयः ।। ३६८.१ ।।

चतुर्यगसहस्त्रान्ते प्राकृतः प्राकृतो लयः
लय आत्यन्तिको ज्ञानादात्मनः परमात्मनि ।। ३६८.२ ।।

नैमित्तिकस्य कल्पान्ते वक्ष्ये रूपं लयस्य ते ।
चतुर्युगसहस्नान्ते क्षीणप्राये महीतले ।। ३६८.३ ।।

अनावृष्टिरतीवोग्रा जायते शतवार्षिकी ।
ततः सत्त्वक्षयः स्याच्च ततो विष्णुर्जगत्पतिः ।। ३६८.४ ।।

स्थितो जलानि पिवति भानोः सप्तसु रश्मिषु ।
भूपार्तालसमुद्रादितोयं नयति संक्षयं ।। ३६८.५ ।।

ततस्तस्यानुभावेन तोयाहारोपबृंहिताः ।
त एव रश्मयः सप्त जायन्ते सप्त भास्कराः ।। ३६८.६ ।।

दहन्त्यऽशेषं त्रैलोक्यं सपातालतलं द्विज।
सूर्म्मपृष्ठसमा भूः स्यात्ततः कालाग्निरुद्रकः ।। ३६८.७ ।।

शेषाहिश्वाससम्बातात् पातालानि दहत्यधः ।
पातालेभ्यो भुवं विष्णुर्भुवः स्वर्गं दहत्यतः ।। ३६८.८ ।।

अम्बरी षमिवाभाति त्रैलोक्यामखिलं तथा ।
ततस्तापपरीतास्तु लोकद्वयनिवासिनः ।। ३६८.९ ।।

गच्छन्ति ते महर्लोकं महर्लोकाज्जनं ततः ।
रुद्ररूपी जगद्दग्ध्वा मुखनिश्वासतो हरेः ।। ३६८.१० ।।

उत्तिष्ठन्ति ततो मेघा नानारूपाः सविद्युतः ।
शतं वंर्षाणि वर्षन्तः शमयन्त्यग्निमुत्थितम् ।। ३६८.११ ।।

सप्तर्षिस्थानमाक्रम्य स्थितेऽम्भसि शतं मरुत् ।
मुखनिश्वासतो विष्णोर्नाशं नयति तान् घनान् ।। ३६८.१२ ।।

वायुं पीत्वा हरिः शेषे शेते चैकार्णवे प्रमुः ।
ब्रह्मरूपधऱः सिद्धैर्जलगैर्मुनिभिस्तुतः ।। ३६८.१३ ।।

आत्ममायामयीं दिव्यां योगनिद्रां समास्थितः ।
आत्मानं वासुदेवाख्यां चिन्तयन्मधुसूदनः ।। ३६८.१४ ।।

कल्पं शेते प्रबुद्धोऽथ ब्रह्मरूपी सृजत्यऽसौ ।
द्विपरार्धन्ततो व्यक्तं प्रकृतौ लीयते द्विज ।। ३६८.१५ ।।

स्थानात् स्थानं दशगुणमेकस्माद् गुण्यते स्थले ।
ततोऽष्टादशमे भागे परार्द्धमभिधीयते ।। ३६८.१६ ।।

परार्धं द्विगुणं यत्तु प्राकृतः प्रलयः स्मृतः ।
अनावृष्ट्याऽग्निसम्पर्कात् कृते संज्वलने द्विज ।। ३६८.१७ ।।

महदादेर्विकारस्य विशेषान्तस्य संक्षये ।
कृष्णेच्छाकारिते तस्मिन् सम्प्राप्ते प्रतिसञ्चरे ।। ३६८.१८ ।।

आपो ग्रसन्ति वै पूर्ब्वं भूमेर्गन्धादिकं गुणं ।
आत्मगन्धात्ततो भूमिः प्रलयत्वाय कल्पते ।। ३६८.१९ ।।

रसात्मिकाश्च तिष्ठन्ति ह्यापस्तासां रसो गुणः ।
पीयते ज्योतिषा तासु नष्टास्वग्निश्च दीप्य्ते ।। ३६८.२० ।।

ज्योतिषोऽपि गुणं रूपं वायुर्ग्रसति भास्करं ।
नष्टे ज्योतिषि वायुश्च बली दोधूयते महान् ।। ३६८.२१ ।।

वायोरपि गुणं स्पर्शमाकाशं ग्रसते ततः ।
वायौ नष्टे तु चाकाशन्नीरवं तिष्ठति द्विज ।। ३६८.२२ ।।

आकाशस्याथ वै शब्दं भूतादिर्ग्रसते च खं ।
अबिमानात्मकं खञ्च भूतादि ग्रसते महान् ।। ३६८.२३ ।।

भूमिर्याति लयञ्चाप्सु आपो ज्योतिषि तद्‌व्रजेत् ।
वायौ वायुश्च खे खञ्च अहङ्कारे लयं स च ।। ३६८.२४ ।।

महत्तत्त्वे महान्तञ्च प्रकृतिर्ग्रसते द्विज ।
व्यक्ताऽव्यक्ता च प्रकृतिर्व्यक्तस्याव्यक्तके लयः ।। ३६८.२५ ।।

पुमानेकाक्षरः शुद्धः सोऽप्यंशः परमात्मनः ।
प्रकृतिः पुरुषशचैचौ लीयेते परमात्मनि ।। ३६८.२६ ।।

न सन्ति यत्र सर्वेशे नामजात्यादिकल्पनाः ।
सत्तामात्रात्मके ज्ञेये ज्ञानात्मन्यात्मनः परे ।। ३६८.२७ ।।

इत्यादिमहापुराणे आग्नेये नित्यनैमित्तिकप्राकृतप्रलया नामाष्टषष्ट्यधिकत्रिशततमोऽध्यायः॥