अग्निपुराणम्
















छन्दःसारः सम्पाद्यताम्

अग्निरुवाच
छन्दो वक्ष्ये मूलजैस्तैः पिङ्गलोक्तं यथाक्रमम् ।
सर्व्वादिमध्यान्तगणौ म्लौ द्वौ जौ स्तौ त्रिकौ गणाः ।। ३२८.१ ।।

ह्रस्वो गुरुर्व्वा पादान्ते पूर्व्वो योगाद्‌ विसर्गतः ।
अनुस्वाराद्व्यञ्जनात् स्थात् जिह्वामूलीयतस्तथा ।। ३२८.२ ।।

उपाध्मानीयतो दीर्वो गुरुर्ग्लौ नौ गणाविह ।
वसवोष्टौ च चत्वारो वेदादित्यादिलोपतः ।। ३२८.३ ।।

इत्यादिमहापुराणे आग्नेये छन्दःसारो नामाष्टाविंशत्यधिकत्रिशततमोऽध्यायः ।।