अथ द्वादशाधिकशततमोऽध्यायः
वाराणसीमाहात्म्यम्
अग्निरुवाच
वाराणसी(३) परं तीर्थं गौर्यै प्राह महेश्वरः ।११२.००१
भुक्तिमुक्तिप्रदं पुण्यं वसतां गृणतां हरिं(४) ॥११२.००१
रुद्र उवाच
गौरीक्षेत्रं न मुक्तं वै अविमुक्तं ततः स्मृतं ।११२.००२
- - - - -- - - -- - - --
टिप्पणी
३ वाराणसीमिति ख.. , घ.. च
४ वसतां शृणुतां हरिमिति ग.. , घ.. , ङ.. च
- - -- - - -- - -- - -- -

जप्तं तप्तं दत्तममविमुक्ते विलाक्षयं ॥११२.००२
अश्मना चरणौ हत्वा वसेत्काशीन्न हि त्यजेत्(१) ।११२.००३
हरिश्चन्द्रं परं गुह्यं गुह्यमाम्नातकेश्वरं(२) ॥११२.००३
जप्येश्वरं परं गुह्यं(३) गुह्यं श्रीपर्वतं तथा ।११२.००४
महालयं(४) परं गुह्यं भृगुश्चण्डेश्वरं(५) तथा ॥११२.००४
केदारं परमं गुह्यमष्टौ सन्त्यविमुक्तके ।११२.००५
गुह्यानां परमं गुह्यमविमुक्तं परं मम ॥११२.००५
द्वियोजनन्तु पूर्वं स्याद्योजनार्धं तदन्यथा(६) ।११२.००६
वरणा च नदी चासीत्तयोर्मध्ये(७) वाराणसी ॥११२.००६
अत्र स्नानं जपो होमो मरणं देवपूजनं ।११२.००७
श्राद्धं दानं निवासश्च यद्यत्स्याद्भुक्तिमुक्तिदं(८) ॥११२.००७
- - - -- -- - -- - - -- -- - - -- - - -
टिप्पणी
१ काशीं तु न हि सन्त्यजेदिति ज..
२ परं गुह्यमविमुक्तं परं ममेति ज..
३ जयेश्वरं परं गुह्यमिति ख..
४ महाबलमिति क..
५ भूमिचण्डेश्वरमिति ग..
६ तथान्यथेति झ..
७ द्वयोर्मध्ये इति ख..
८ यद्वत्स्याद्भुक्तिमुक्तिदमिति ङ..
- - --- - -- - - -- - -- -- - -- - - -

इत्याग्नेये महापुराणे वाराणसीमाहात्म्यं नाम द्वादशाधिकशततमोऽध्यायः ॥