अग्निपुराणम्
















बालग्रहहरबालतन्त्रम् सम्पाद्यताम्

अग्निरुवाच
बालतन्त्रं प्रवक्ष्यामि बालादिग्रहमर्द्दनं ।
अथ जातदिने वत्सं ग्रही गृह्णाति पापिनी ।। २९९.१ ।।

गात्रोद्वेगो निराहारो नानाग्रीवाविवर्त्तनं ।
तच्चेष्टितमिदं तत्स्यान्मातृणाञ्च बलं हरेत् ।। २९९.२ ।।

मत्स्यमांससुराभक्ष्यगन्धस्रग्धूपदीपकैः ।
लिम्पेच्च धातकीलोध्रमञ्जिष्ठातालचन्दनैः ।। २९९.३ ।।

महिषाक्षेण धूपश्च द्विरात्रे भीषणी ग्रही ।
तच्चेष्टा कासनिश्वासौ गात्रसङ्गोचनं मुहुः ।। २९९.४ ।।

आजमूत्रैर्लिपेत् कृष्णासेव्यापामार्गचन्दनैः ।
गोश्रृङ्गदन्तकेशैश्च धूपयेत् पूर्ववद्वलिः ।। २९९.५ ।।

ग्रही त्रिरात्रे घण्ठाली तच्चेष्टा क्रन्दनं मुहुः ।
जृम्भणं स्वनितन्त्रासो गात्रोद्वेगमरोचनं ।। २९९.६ ।।

केशराञ्जनगोहस्तिदन्तं साजपयो लिपेत् ।
नखराजीविल्वदलैर्धूपयेच्च बलिं हरेत् ।। २९९.७ ।।

ग्रही चतुर्थी काकोली गात्रोद्वेगप्ररोचनं ।
फेनोद्‌ग्णरो दिशो द़तकेशेन धूपयेत् ।। २९९.८ ।।

गजदन्ताहिनिर्म्मोकवाजिमूत्रप्रलेपनं ।
सराजीनिम्बपत्रेण धूतकेशेन धूतकेशेन धूपयेत् ।। २९९.९ ।।

हंसाधिका पञ्चमी स्याज्जृम्भाश्वासोद्‌र्ध्वधारिणी ।
मुष्टिबन्धश्च तच्चेष्टा बलिं मत्स्यादिना हरेत् ।। २९९.१० ।।

मेषश्रृड्गबलालोध्रशिलातालैः शिशुं लिपेत् ।
फट्कारी तु ग्रही षष्ठी भयमोहप्ररोदनं ।। २९९.११ ।।

निराहरोऽह्गविक्षेणो हरेन्मत्स्यादिना बलिं ।
राजीगुग्गुलुकुष्ठे भदन्ताद्यैर्धूपलेपनैः ।। २९९.१२ ।।

सप्तमे मुक्तकेश्यार्त्तः पूतिगन्धो विजृम्भणं ।
सादः प्ररोदनङ्गासो धूपो व्याघ्रनशैर्लिपेत् ।। २९९.१३ ।।

वचागोमयगोमूत्रेः श्रीदणअडी चाष्टमे ग्रही ।
दिशो निरीक्षणं जिह्वाचालनङ्कासरोदनं ।। २९९.१४ ।।

वलिः पूर्वैव मत्स्याद्यैर्धूपलेपे च हिङ्गुला ।
वचासिद्धार्थलशुनैश्चोद्‌र्ध्वग्राही महाग्रही ।। २९९.१५ ।।

उद्वेजनोद्‌र्ध्वनिःश्वासः स्वमुष्टिद्वयखादनं ।
रक्तचन्दनकुष्ठाद्यैर्धूपयेल्लेपयेच्छिशुं ।। २९९.१६ ।।

कपिरोमनखैर्धूपो दशमी रोदनी ग्ररी ।
तच्चेष्टा रोदनं शश्वत् सुगन्धो नीलवर्णता ।। २९९.१७ ।।

धूपो निम्बेन भूतोग्रराजीसर्ज्जरसैर्ल्लिपेत् ।
बर्लि वहिर्हरेल्लाजकुल्माषकवकोदनम् ।। २९९.१८ ।।

यावत्त्रयोदशाहं स्यादेवं धूपादिका क्रिया ।
गृह्णाति मासिकं वत्सं पूतनासङ्कुली ग्रही ।। २९९.१९ ।।

काकवद्रोदनं स्वासो मूत्रगन्वोऽक्षिमीलनं ।
गोमूत्रस्नपनं त्स्य गोदन्तेन च धूपनम् ।। २९९.२० ।।

पीतवस्त्रं ददेद्रक्तस्रग्गन्धौ तैलदीपकः ।
त्रिविधं पायसम्मद्यं तिलमासञ्चतुर्व्विधम् ।। २९९.२१ ।।

करञ्जाधो यमदिशि सप्ताहं तैर्बलिं हरेत् ।
द्विमासिकञ्च मुकुटा वपुः शीतञ्च शीतलं ।। २९९.२२ ।।

छर्द्दिः स्यान्मुखशोषादिपुष्पगन्धांशुकानि च ।
अपूपमोदनं दोपः कृष्णं नीरादि धूपकम् ।। २९९.२३ ।।

तृतीये गोमुखी निद्रा सविण्मुत्रप्ररोदनम् ।
यवाः प्रियङ्गुः पलनं कुल्माषं शाकमोदनम् ।। २९९.२४ ।।

क्षीरं पूर्व्वे ददेन्मध्येऽहनि धूपश्च सर्पिषा ।
पञ्चभङ्गेन तत् स्नानं चतुर्थे पिङ्गलार्त्तिहृत् ।। २९९.२५ ।।

तनुः शीता पूतिगन्धः शोषः स म्रियते ध्रुवम् ।
पञ्चमी ललना गात्रसादः स्यान्मुखशोषणं ।। २९९.२६ ।।

अपानः पीतवर्णश्च मत्स्याद्यैर्द्दक्षइणे बलिः ।
षणअमासे पङ्कजा चेष्टा रोदनं विकृतः स्वरः ।। २९९.२७ ।।

मत्स्यमांससुराभक्तपुष्पगन्धादिभिर्बलिः ।
सप्तमे तु निराहारा पूतिगन्धादिदन्तरुक् ।। २९९.२८ ।।

पिष्टमांससुरामांसैर्बलिः स्याद्यमुनाष्टमे ।
विस्फोटशोषणाद्यं स्यात् तच्चिकित्सान्न कारयेत् ।। २९९.२९ ।।

नवमे कुम्भकर्ण्यार्त्तो ज्वरी च्छर्द्दति पालकम् ।
रोदनं मांसकुल्माषमद्याद्यैर्वैश्वके बलिः ।। २९९.३० ।।

दशमे तापसी चेष्टा निराहारोक्षइमीलनम् ।
घण्टा पताका पिष्टोक्ता सुरामांसबलिः समे ।। २९९.३१ ।।

राक्षस्येकादशी पीड़ा नेत्राद्यं न चिकित्सनम् ।
चञ्चला द्वादशे श्वासः त्रासादिकविचेष्टितम् ।। २९९.३२ ।।

बलिः पूर्वऽथ मध्याह्ने कुल्माषाद्यैस्तिलादिभिः ।
यातना तु द्वितीयेऽब्दे यातनं रोदनादिकम् ।। २९९.३३ ।।

तिलमांसमद्यमांसैर्बलिः स्नानादि पूर्ववत् ।
तृतीये रोदनी कम्पो रोदनं रक्तमूत्रकं ।। २९९.३४ ।।

गुड़ौदनं तिलापूपः प्रतिमा तिलपिष्टजा ।
तिलस्नानं पञ्चपत्रैर्धूपो राजफलत्वचा ।। २९९.३५ ।।

चतुर्थे चटकाशोफो ज्वरः सर्व्वाङ्गसादनम् ।
मत्स्यमांसतिलाद्यैश्च बलिः स्नानञ्च धूपनम् ।। २९९.३६ ।।

चञ्चला पञ्चमेऽब्दे तु ज्वरस्त्रासोऽङ्गसादनम् ।
मांसौदनाद्यैश्च वलिर्मेषश्रृङ्गेण धूपनम् ।। २९९.३७ ।।

पलाशोदुम्बराश्वत्थवटबिल्वदलाम्बुधृक् ।
षष्ठेऽब्दे धावनीशोषो वैरस्यं३ गात्रसादनम् ।। २९९.३८ ।।

सप्ताहोभिर्बलिः पूर्वैर्धूपस्नानञ्च भङ्गकैः ।
स्प्तमे यमुनाच्छर्दिरवचोहासरोदनम् ।। २९९.३९ ।

मांसपायसमद्याद्यैर्बलिः स्नानञ्च धूपनम् ।
अष्टमे वा जातवेदा निराहारं प्ररोदनम् ।। २९९.४० ।।

कृशरापूपदध्याद्यैर्बलिः स्नानञ्च धूपनम् ।
कालाब्दे नवमे वाह्वोरास्फोटो गर्जनं भयम् ।। २९९.४१ ।।

बलिः स्यात् कृशरापूपशक्तुकुल्मासपायसैः ।
दशमेऽब्दे कलहंसी दाहोऽङ्गकृशता ज्वरः ।। २९९.४२ ।।

पौलिकापूपदध्यन्नैः पञ्चरात्रं बलिं हरेत् ।
निम्बधूपकुष्ठलेप एकादशमके ग्रही ।। २९९.४३ ।।

देवदूती निष्ठुरवाक् बलिर्लेपादि पूर्ववत् ।
बलिका द्वादशे स्वासो बलीर्लेपादि पूर्ववत् ।। २९९.४४ ।।

त्रयोदशे वायवी च मुखवाह्याङ्गसादनम् ।
रक्तान्नगन्धमाल्याद्यैर्बलिः पञ्चदलैः स्नपेत् ।। २९९.४५ ।।

राजीनिस्वदलैर्धूपो यक्षिणी च चतुर्दशे ।
चेष्टा शूलं ज्वरो दाहो मांसभक्षादिकैर्बलिः ।। २९९.४६ ।।

स्नानादि पूर्ववच्छान्त्यै मुण्डिकार्त्तिस्त्रिपञ्चके ।
तच्चेष्टासृक्‌श्रवः शश्वत्कुर्य्यान्मातृचिकित्सनम् ।। २९९.४७ ।।

वानरी षोडशी भूमौ पतेन्निद्रा सदा ज्वरः ।
पायसाद्यैस्त्रिरात्रञ्च बलिः स्नानादि पूर्ववत् ।। २९९.४८ ।।

गन्धवती सप्तदशे गात्रोद्वेगः प्ररोदनम् ।
कुल्माषाद्यैर्बलिः स्नानधूपलेपादि पूर्ववत् ।। २९९.४९ ।।

दिनेशाः पूतना नाम वर्षेशाः सुकुमारिकाः ।
ओं नमऋ सर्वमातृभ्यो बालपीड़ासंयोगं भुञ्ज भुञ्ज चुट चुट
स्फोटय स्फोटय स्फुर स्फुर गृह्ण गृह्ण आकट्टय आकट्टय
एवं सिद्धरूपो ज्ञापयति ।
हर हर निर्दोवं कुरु कुरु बालिकां बालं स्त्रियम् पुरुषं वा
सर्वग्रहाणामुपक्रमात् ।
चामुण्डे नमो देवेयै ह्रूँ ह्रुँ ह्रीँ अपसर अपसर दुष्टग्रहान् ह्रूँ तद्यथा गच्छन्तु गृह्यकाः अन्यत्र पन्थानं रुद्रो ज्ञापयति ।
सर्वबालग्रहेषु स्यान्मन्त्रोऽयं सर्वकामिकः ।। २९९.५० ।।

ओं नमो भगवति चामुण्डे मुञ्च मुञ्च बलिं बालिकां वा ।
बलिं गृह्ण गृह्ण जय जय वस वस ।
सर्वत्र बलिदानेऽयं रक्षाकृत् पठ्यते मनुः ।। २९९.५१ ।।

ब्रह्मा विष्णुः शिवः स्कन्दो गौरीलक्षअमीर्गणआदयः ।
रक्षन्तु च ज्वराभ्यान्तं मुञ्चन्तु च कुमारकम् ।। २९९.५२ ।।

इत्यादिमहापुराणे आग्नेये बालग्रहहरं बालतन्त्रं नाम नवनवत्यधिकद्विशततमोऽध्यायः ।।