अग्निपुराणम्
















अर्थालङ्गाराः सम्पाद्यताम्

अग्निरुवाच
अलङ्करणमर्थानामर्थालङ्कार इष्यते ।
तं विना शब्दसौन्दर्य्यमपि नास्ति मनोहरम् ।। ३४४.१ ।।

अर्थालङ्काररहिता विधवेव सरस्वती ।
स्वरूपमथ सादृश्यमुतप्रेक्षातिशयावपि ।। ३४४.२ ।।

विभावना विरोधश्च हेतुश्च सममष्टधा ।
स्वभाव एव भावानां स्वरूपमभिधीयते ।। ३४४.३ ।।

निजमागन्तुकञ्चेति द्विविधं तदुदाहृतम् ।
सांसिद्धिकं निजं नैमित्तिकमागन्तुकं तथा ।। ३४४.४ ।।

सादृश्यं धर्म्मसामान्यमुपमा रूपकं तथा ।
सहोक्त्यर्थान्तरन्यासाविति स्यात्तु चतुर्विधम् ।। ३४४.५ ।।

उपमा नाम सा यस्यामुपमानोपमेययोः ।
सत्ता चान्तरसामान्ययोगित्वेपि विवक्षितं ।। ३४४.६ ।।

किञ्चिदादाय सारूप्यं लोकयात्रा प्रवर्त्तते ।
समासेनासमासेन सा द्विधा प्रतियोगिनः ।। ३४४.७ ।।

विग्रहादभिधानश्य ससभासाऽन्यथोत्तरा ।
उपमाद्योतकपदेनोपमेयपदेन च ।। ३४४.८ ।।

ताभ्याञ्च विग्रहात् त्रेधा ससमासान्तिमात् त्रिधा ।
विशिष्यमाणा उपमा भवन्त्यष्टादश स्फुटाः ।। ३४४.९ ।।

यत्र साधारणो धर्म्मः कथ्यते गम्यतेऽपि वा ।
ते धर्म्मवस्तुप्राधान्याद्धर्म्मवस्तूपमे उभे ।। ३४४.१० ।।

तुल्यमेवोपमीयेते यत्रान्योन्येन धर्म्मणौ ।
परस्परोपमा सा स्यात् प्रसिद्धेरन्यथा तयो ।। ३४४.११ ।।

विपरीतोपमा सा स्याद्व्यावृत्तेर्न्नियमोपमा ।
अन्यत्राप्यनुवृत्तेस्तु भवेदनियमोपमा ।। ३४४.१२ ।।

समुच्यतेपमातोऽन्यधर्म्मवाहुल्यकीर्त्तनात् ।
वहोर्धर्म्मस्य साम्येपि वैलक्षण्यं विवक्षितं ।। ३४४.१३ ।।

यदुच्यतेऽतिरिक्तत्वं व्यतिरेकोपमा तु सा ।
यत्रोपमा स्याद्वहुभिः सदृशैः सा बहूपमा ।। ३४४.१४ ।।

धर्म्माः प्रत्युपमानञ्चेदन्ये मालोपमैव सा।
उपमानविकारेण लुलना विक्रियोपमा ।। ३४४.१५ ।।

त्रैलोक्यासम्भवि किमप्यारोप्य प्रतियोगिनि ।
कविनोपमीयते या प्रथते साद्‌भुतोपमा ।। ३४४.१६ ।।

प्रतियोगिनमारोष्य तदभेदेन कीर्त्तनम् ।
उपमेयस्य सा मोहोपमाऽसौ भ्रान्तिमद्वचः ।। ३४४.१७ ।।

उभयोर्धर्म्मिणोस्तथ्यानिश्चयात् संशयोपमा ।
उपमेयस्य संशय्य निश्चयान्निश्चयोपमा ।। ३४४.१८ ।।

वाक्यार्थेनैव वाक्यार्थोपमा स्यादुपमानतः ।
आत्मनोपमानादुपमा साधारण्यतिशायिनी ।। ३४४.१९ ।।

उपमेयं यदन्यस्य तदन्यस्योपमा मता ।
यद्युत्तरोत्तरं याति तदाऽसौ गगनोपमा ।। ३४४.२० ।।

प्रशंसा चैव निन्दा च कल्पिता सदृशो तथा ।
किञ्चिच्च सदृशी ज्ञेया उपमा पञ्चधा पुनः ।। ३४४.२१ ।।

उपमानेन यत्तत्त्वमुपमेयस्य रूप्यते ।
गुणानां समतां दृष्ट्वा रूपकं नाम तद्विदुः ।। ३४४.२२ ।।

उपमैव तिरोभूतभेदा रूपकमेव वा ।
सहोक्तिः सहभावेन कथनं तुल्यधर्म्मिणां ।। ३४४.२३ ।।

भवेदर्थान्तरन्यासः सादृश्येनोत्तरेण सः ।
अन्यथोपस्थिता वृत्तिश्चेतन्स्येतरस्य च ।। ३४४.२४ ।।

अन्यथा मन्यते यत्र तामुत्प्रेक्षआं प्रचक्षते ।
लोकसीमानिवृत्तस्य वस्तुधर्म्मस्य कीर्त्तनम् ।। ३४४.२५ ।।

भवेदतिशयो नाम सम्भवासम्भवाद् द्विधा ।
गुणजातिक्रियादीनां यत्र वैकल्यदर्शनं ।। ३४४.२६ ।।

विशेषदर्शनायैव सा विशेषोक्तिरुच्यते ।
प्रसिद्धहेतुव्यावृत्या यत् किञ्चित् कारणआन्तरम् ।। ३४४.२७ ।।

यत्र स्वाभाविकत्वं वा विभाव्यं सा विभावना ।
सङ्गतीकरणं युक्त्या यदसंगच्छमानयोः ।। ३४४.२८ ।।

विरोधपूर्वकत्वेन तद्विरोध इति स्मृतं ।
सिसाधयिषितार्थस्य हेतुर्भवति साधकः ।। ३४४.२९ ।।

कारको ज्ञापक इति द्विधा सोऽप्युपजायते ।
प्रवर्त्तते कारकाख्यः प्राक् पश्चात् कार्य्यजन्मनः ।। ३४४.३० ।।

पूर्व्वशेष इति ख्यातस्तयोरेव विशेषयोः ।
कार्य्यकारणभावद्वा स्वभावाद्वा नियामकात् ।। ३४४.३१ ।।

ईपकाख्यस्य भेदोऽस्ति नदीपूरादिदर्शनात् ।
अविनाभावनियमो ह्यविनाभावदर्शनात् ।। ३४४.३२ ।।

इत्यादिमहापुराणे आग्नेये अलङ्कारे अर्थालङ्कारनिरूपणं नाम चतुश्चत्वारिंशदधिकत्रिशततमोऽध्यायः ।।