अग्निपुराणम्
















पिण्डिकालक्षणकथनम् सम्पाद्यताम्

भगवानुवाच
पिण्डिकालक्षणं वक्ष्ये दैर्घ्यैण प्रतिमासमा।
उच्छायं प्रतिमार्द्धन्तु चतुः षष्टिपुटां च ताम् ।। १ ।।

त्यक्त्वा पङ्‌क्तिद्वयं चाधस्तदूद्‌र्ध्वं यत्तु कोष्ठकम्।
समन्तादुभयोः पार्श्वे अन्तस्थं परिमार्जयेत् ।। २ ।।

ऊद्‌र्ध्वं पङ्‌क्तिद्वयं त्यक्त्वा अधस्ताद् यत्तु कोष्ठकम्।
अन्तः सम्मार्जयेत् यत्नात् पार्श्वयोरुभयोः समम् ।। ३ ।।

तयोर्मध्यगतौ तत्र चतुष्कौ मार्जयेत्ततः।
चतुर्द्धा भाजयित्वा तु ऊद्‌र्ध्वपङ्‌क्तिद्वयं बुधः ।। ४ ।।

मेखला भागमात्रा स्यात् खातं तस्यार्द्धमानतः।
भागं भागं परित्यज्य पार्श्वयोरुभयोः समम् ।। ५ ।।

दत्त्वा चैकं पदं बाह्ये प्रमाणं कारयेद् बुधः।
त्रिभागेण च बागस्याग्रे स्यात्तोयविनिर्गमः ।। ६ ।।

नानाप्रकारभेदेन भद्रेयं पिण्डिका शुभा।
अष्टताला तु कर्त्तव्या देवी लक्ष्मीस्तथा स्त्रियः ।। ७ ।।

भ्रुवौ यवाधिके कार्य्ये यवहीना तु नासिका।
गोलकेनाधिकं वक्त्रमूद्‌र्ध्वं तिर्य्यग्विवर्जितम् ।। ८ ।।

आयते नयने कार्य्यं त्रिभागोनैर्यवैस्त्रिभिः।
तदर्द्धेन तु वैपुल्यं नेत्रयोः परिकल्पयेत् ।। ९ ।।

कर्णपाशोऽधिकः कार्य्यः सृक्कणीसमसूत्रतः।
नम्रं कलाविहीनन्तु कुर्य्यादंशद्वयं तथा ।। १० ।।

ग्रीवा सार्द्धकला कार्य्या तद्विस्तारोपशोभिता।
नेत्रं विना तु विस्तारौ ऊरू जानू च पिण्डिका ।। ११ ।।

अङ्‌घ्निपृष्ठौ स्फिचौ कट्यां यथायोगं प्रकल्पयेत्।
सप्तांशोनास्तथाङ्गुल्यो दीर्घं विष्कम्भनाहतम् ।। १२ ।।

नेत्रैकवर्जितायामा जङ्घोरू च तथा कटिः।
मध्यपार्श्वं च तद्‌वृत्तं घनं पीनं कुचद्वयम् ।। १३ ।।

तालमात्रौ स्तनौ कार्य्यौ कटिः सार्द्धकलाधिका।
लक्ष्म शेषं पुरावत्स्यात् दक्षिणे चाम्बुजं करे ।। १४ ।।

वामे विल्वं स्वियौ पार्श्वे शुभे चामरहस्तके।
दीर्घघोणस्तुगरुडश्चक्राङ्गाद्यानथो वदे ।। १५ ।।

इत्यादिमहापुराणे आग्नेये पिण्डिकालक्ष्मादिलक्षणं नाम पञ्चचत्वारिंशोऽध्यायः।