अग्निपुराणम्
















विष्णुपञ्जरम्सम्पाद्यताम्

पुष्कर उवाच
त्रिपुरञ्जघ्नुषः पूर्वं ब्रह्मणा विष्णुपञ्जरं ।
शङ्करस्य द्विजश्रेष्ठ रक्षणाय निरूपितं ।। २७०.१ ।।

वागीशेन च शक्रस्य बलं हन्तुं प्रयास्यतः ।
तस्य स्वरूपं वक्ष्यामि तत्त्वं श्रृणु जयादिमत् ।। २७०.२ ।।

विष्णुऋ प्राच्यां स्थितश्चक्री हरिर्दक्षिणतो गदी ।
प्रतीच्यां शार्ङ्गधृग्‌विष्णुर्जिष्णुः खड्गी ममोत्तरे ।। २७०.३ ।।

हृषीकेशो विकीर्णेषु तच्छिद्रेषु जनार्दनः ।
क्रोड़रूपी हरिर्भूमौ नरसिंहोऽम्बरे मम ।। २७०.४ ।।

क्षुरान्तममलञ्चक्रं भ्रमत्येतत् सुदर्शनं ।
अस्याशुमाला दुष्प्रेक्ष्या हन्तुं प्रेतनिशाचरान् ।। २७०.५ ।।

गदा चेयं सहस्रार्च्चिः प्रदीप्तपावकोज्जवला ।
रक्षोभूतपिशाचानां डाकिनीनाञअच नाशनी ।। २७०.६ ।।

शार्ङ्गविस्फूर्ज्जिञ्चैव वासुदेवस्य मद्रिपून् ।
तिर्य्यङ्‌मनुष्यकुष्माण्डप्रेतादीन् हन्त्वशेषतः ।। २७०.७ ।।

खड्गधारोज्ज्वलज्योऽत्स्नानिर्द्धूता ये समाहिताः ।
ते यान्तु शाम्यतां सद्यो गरुडेनेव चपन्नगः ।। २७०.८ ।।

ये कुष्णाण्डास्तथा यक्षा ये दैत्या ये निशाचराः ।
प्रेता विनायकाः क्रूरा मनुष्या जम्भगाः खगाः ।। २७०.९ ।।

सिंहादयश्च पशवो दन्दसूकाश्च पन्नागाः ।
सर्व्वे भवन्तु ते सौम्याः कृष्णशङ्खरवाहताः ।। २७०.१० ।।

चित्तवृत्तिहरा ये मे ये जनाः स्मृतिहारकाः ।
बलौजसाञ्च हर्त्तारश्छायाविभ्रंशकाश्च ये ।। २७०.११ ।।

ये चोपभोगहर्त्तारो ये च लक्षणनाशकाः ।
कुष्माण्डास्ते प्रणश्यन्तु विष्णुचक्ररवाहताः ।। २७०.१२ ।।

बुद्धिस्वास्थ्यं मनःस्वास्थ्यं स्वास्थ्यमैन्द्रियकं तथा ।
ममास्तु देवदेवस्य वासुदेवस्य कीर्त्तनात् ।। २७०.१३ ।।

पृष्ठे पुरस्तान्मम दक्षिणोत्तरे विकोणतश्चास्तु जनार्दनो हरिः ।
तमीड्यमीशानमनन्तमच्युतं जनार्दनं प्रणिपतितो न सीदति ।। २७०.१४ ।।

यथा परं ब्रह्म हरिस्तथा परः जगत्स्वरूपश्च स एव केशवः ।
सत्येन तेनाच्युतनामकीर्त्तनात् प्रणाशयेत्तु त्रिविधं ममाशुभं ।। २७०.१५ ।।

इत्यादिमहापुराणे आग्नेये विष्णुपञ्जरं नाम सप्तत्यधिकद्विशततमोऽध्यायः ।।