अग्निपुराणम्
















तद्धितम् सम्पाद्यताम्

स्कन्द उवाच
तद्धितं त्रिविधं वक्ष्ये सामान्यवृत्तिरीदृशी ।
ल व्यंसलो वत्सलः स्यादिलचि स्यात्तू फेनिलं ।। ३५६.१ ।।

लोमशः से पामनो ने इलचि स्यात्तु पिच्छिलं ।
अणि प्राज्ञ आर्च्चकः स्यात् दन्तादुरचि दन्तुरः ।। ३५६.२ ।।

रे स्याम्मधुरं सुशिरं रे स्यात् केशर ईदृशः ।
हिरण्यं ये मालवो वे वलचि स्याद्रजस्वलः ।। ३५६.३ ।।

इनो धनो करी हस्ती धनिकं टिकनोरितं ।
पयस्वी विनि मायावी ऊर्णायुर्युचि ईरितं ।। ३५६.४ ।।

वाग्मी मिनि आलचि स्याद्वाचालश्चाटचीरितं ।
फलिनो वर्हिणः केकी वृन्दारकस्तया कनि ।। ३५६.५ ।।

आलुचि शीतन्न सहते शीतालुः श्वालुरीदृशः ।
हिमालुरालुचि स्याच्च हिमं न सहते तथा ।। ३५६.६ ।।

रूपं वातादुलचि स्याद् वातुलश्चानपत्यके ।
वाशिष्ठः कौरवो वासः पाञ्चालः सोस्य वासकः ।। ३५६.७ ।।

तत्र वासो माथुरः स्याद्वेत्त्यधीते च चान्द्रकः ।
व्युत्‌क्रमं वेत्ति क्रमकः नरश्चक्राम कौशकः ।। ३५६.८ ।।

प्रियङ्गूनां भवं क्षेत्रं प्रैयङ्गवीनकं खञि ।
मौद्‌गीनं सौद्रवीणञ्च वैदेहश्चानपत्यके ।। ३५६.९ ।।

इञि दाक्षिर्दाशरथिः कचि नारायणादिकं ।
आश्वायनः स्याच्च फञि यचि गार्ग्यश्च वात्सकः ।। ३५६.१० ।।

ढकि स्याद्वैनतेयादिश्चाटकेरस्तथैरकि ।
ढ्रकि गौधेरको रूपं गौवारश्चारकीरितं ।। ३५६.११ ।।

क्षत्रियो घे कुलीनः खे ण्ये कौरव्यादयः स्मृताः ।
यति मूर्द्धन्यमुख्यादिः सुगन्धिरिति रूपकं ।। ३५६.१२ ।।

तारकादिभ्य इतचि नभस्तारकितादयः ।
अनङि स्याच्च कुण्डाध्नी पुष्पधन्वसुधनवनी ।। ३५६.१३ ।।

चञ्चुपि वित्तचञ्चुः स्याद्वित्तमस्य च शब्दके ।
चणपि स्यात् केशचणः रूपे स्यात् पटरूपकम् ।। ३५६.१४ ।।

ईयसौ च पटीयान् स्यात् तरप्यक्षतरादिकम् ।
पचतितराञ्च तरपि तमप्यटतितमामपि ।। ३५६.१५ ।।

मृद्वीतमा कल्पपि स्यादिन्द्रकल्पोऽर्ककल्पकः ।
राजदेशीयो देशीये देश्ये देश्यादिरूपकम् ।। ३५६.१६ ।।

पटुजातीयो जातीये जानुमात्रञ्च मात्रचि ।
ऊरुद्वयसो द्वयसचि ऊरुदघ्नञ्च दघ्नचि ।। ३५६.१७ ।।

तयटि स्यात् पञ्चतयः दौवारिकष्ठकीरितं ।
सामान्यवृत्तिरुक्ताऽअव्याख्यश्च तद्धितः ।। ३५६.१८ ।।

यस्माद्यतस्तसिलि च यत्र तत्र त्रलीरितं ।
अस्मिन् काले ह्यधुना स्यादिदानीञ्चैव दान्यपि ।। ३५६.१९ ।।

सर्वस्मिन् सर्व्वदा दा स्यात्तस्मिन्काले र्हिलीरितं ।
तर्हि होऽस्भिन् काल इह कर्हि सस्मिंश्च कालके ।। ३५६.२० ।।

यथा थालि थमि कथं पूर्व्वस्यान्दिशि सञ्चयेत् ।
अस्ताति चैव पूर्व्वस्याः पूर्व्वादिग्रामणीयकाः ।। ३५६.२१ ।।

पुरस्तात् सञ्चरेद् गच्छेत् सद्यस्तुल्येऽहनीरितं ।
उतिपूर्व्वाब्दे च परुत् पूर्व्वतरे परार्य्यपि ।। ३५६.२२ ।।

ऐषमोऽस्मिन् संवत्सरे रूपं समसि चेरितं ।
एद्यवौ परेद्यवि स्यात् परस्मिन्नहनीरितं ।। ३५६.२३ ।।

अद्यास्मिन्नहनि द्ये स्यात् पूर्व्वेद्युश्च तथैद्युसि ।
दक्षिणस्यान्दिशि वसेत् दक्षिणाद्दक्षइणा द्युभौ ।। ३५६.२४ ।।

उत्तरस्यान्दिशि वसेदुत्तरादुत्तराद्युभौ ।
उपरि वसैदुपरिष्टाद् भवेद्रिष्टाति ऊद्‌र्ध्वकात् ।। ३५६.२५ ।।

उत्तरेण च पित्रोक्तं आचि च स्याच्च दक्षिणा ।
आहौ दक्षिणाहि वसेद् द्विप्रकारं द्विधा च धा ।। ३५६.२६ ।।

ध्यमुञि चैकध्यं कुरु त्वं द्वैधन्धमुञि चेदृशं ।
द्वौ प्र्कारौ द्विधा धाचि१ यथा२ ।। ३५६.२७ ।।

निपातास्तद्धिताः प्रोक्ताः तद्वितो भाववाचकः ।
पटोर्भावः पटुत्वन्त्वे पटुता तलि चेरितं ।। ३५६.२८ ।।

प्रथिमा चेमनि पृथोः सौख्यं सुखात् ष्यञीरितम् ।
स्तेयं यति च स्येनस्य ये सख्युः सख्यमीरितं ।। ३५६.२९ ।।

कपेर्भावश्च कापेयं सैन्यं पथ्यं यकीरितं ।
आश्वं कौमारकं चाणि रूपं चाणि च यौवनम् ।।

आचार्य्यकं कणि प्रोक्तमेवमन्येपि तद्धिताः ।। ३५६.३० ।।

इत्यादिमहापुराणे आग्नेये व्याकरणे तद्धितसिद्दरूपं नाम षट्‌पञ्चाशदधिकत्रिशततमोऽध्यायः ॥