← अध्यायः २०४ अग्निपुराणम्
अध्यायः २०५
वेदव्यासः
अध्यायः २०६ →
अग्निपुराणम्
















भीष्मपञ्चकव्रतं

अग्निरुवाच
भीष्मपञ्चकमाख्यास्ये व्रतराजन्तु सर्वदं ।२०५.००१
कार्त्तिकस्यामले पक्षे एकादश्यां समचरेत् ॥२०५.००१
दिनानि पञ्चत्रिःस्नाती पञ्चव्रीहितिलैस्तथा(१) ।२०५.००२
तर्पयेद्देवपित्रादीन्मौनी सम्पूजयेद्धरिं ॥२०५.००२
पञ्चगव्येन संस्नाप्य देवं पञ्चामृतेन च ।२०५.००३
चन्दनाद्यैः समालिप्य गुग्गुलुं सघृतन्दहेत् ॥२०५.००३
दीपं दद्याद्दिवारात्रौ नैवेद्यं परमान्नकं ।२०५.००४
ओं नमो वासुदेवाय जपेदष्टोत्तरं शतं ॥२०५.००४
टिप्पणी
१ यवव्रीहितिलैस्तथेति घ.. , ङ.. , छ.. , ज.. च

जुहुयाच्च घृताभ्यक्तांस्तिलव्रीहींस्ततो व्रती ।२०५.००५
षडक्षरेण मन्त्रेण स्वाहाकारान्वितेन च ॥२०५.००५
कमलैः पूजयेत्पादौ द्वितीये बिल्वपत्रकैः ।२०५.००६
जानु सक्थि तृतीयेऽथ नाभिं भृङ्गरजेन तु ॥२०५.००६
वाणबिल्वजवाभिस्तु चतुर्थे पञ्चमेऽहनि ।२०५.००७
मालत्या भूमिशायी स्यादेकादश्यान्तु गोमयं ॥२०५.००७
गोमूत्रं दधि दुग्धं च पञ्चमे पञ्चगव्यकं ।२०५.००८
पौर्णमास्याञ्चरेन्नक्तं भुक्तिं मुक्तिं लभेद्व्रती ॥२०५.००८
भीष्मः कृत्वा हरिं प्राप्तस्तेनैव(१) भीष्मपञ्चकं ।२०५.००९
ब्राह्मणः पूजनाद्यैश्च उपवासादिकं व्रतं(२) ॥२०५.००९

इत्याग्नेये महापुराणे भीष्मपञ्चकं नाम पञ्चाधिकद्विशततमोऽध्यायः ॥
टिप्पणी
१ हरिं लेभे तेनैतदिति ग.. । हरिं प्राप तेनैतदिति ङ.. । हरिं प्राप्तस्तेनैतदिति ज.. , ट.. च
२ पूजनात्पञ्च उपवासादजव्रतमिति ग.. , घ.. , ङ.. , ज.. , ञ.. , ड.. च