अग्निपुराणम्
















नाटकनिरूपणम्

सम्पाद्यताम्

अग्निरुवाच
नाटकं सप्रकरणं डिम ईहामृगोऽपि वा ।
ज्ञेयः समवकारश्च भवेत् प्रहसनन्तथा ।। ३३८.१ ।।

व्यायोगभाणवीथ्यङ्गत्रोटकान्यथ नाटिका ।
सट्टकं शिल्पकः कर्णा एको दुर्म्मल्लिका तथा ।। ३३८.२ ।।

प्रस्थानं भाणिका भाणी गोष्ठी हल्लीशकानि च ।
काव्यं श्रीगदितं नाट्यरासकं रासकं तथा ।। ३३८.३ ।।

उल्लाप्यकं प्रेङ्‌क्षणञ्च सप्तविंशतिरेव तत् ।
सामान्यञ्च विशेषश्च लक्ष्णस्य द्वयी गतिः ।। ३३८.४ ।।

सामान्यं सर्व्वविषयं शेषः क्कापि प्रवर्त्तते ।
पूर्व्वरङ्गे निवृते द्वौ देशकालावुभावपि ।। ३३८.५ ।।

रसभावमिभावानुभावा अभिनयास्तथा ।
अङ्कः स्थितिश्च सामान्यं सर्व्वत्रैवोपसर्पणात् ।। ३३८.६ ।।

विशेषोऽवसरे वाच्यः सामान्यं पूर्व्वमुच्यते ।
त्रिवर्गसाधनन्नाट्यमित्याहुः करणञ्च यत् ।। ३३८.७ ।।

इतिकर्त्तव्य्ता तस्य पूर्व्वरङ्गो यथाविधि ।
नान्दीमुखानि द्वात्रिंशदङ्गानि पूर्व्वरङ्गके ।। ३३८.८ ।।

देवतानां नमस्कारो गुरूणामपि च स्तुतिः ।
गोब्राह्मणनृपादीनामाशीर्वादादि गीयते ।। ३३८.९ ।।

नान्द्यन्ते सूत्रधारोऽसौ रुपकेषु निबध्यते ।
गुरुपूर्वक्रमं वंशप्रशंसा पौरुषं कवेः ।। ३३८.१० ।।

सम्बम्धार्थौ च काव्य्स्य पञ्चैतानेष निर्द्दिशेत् ।
नटी विदूषको वापि पारिपार्श्विक एव वा ।। ३३८.११ ।।

सहिताः सूत्रधारेण संलापं यत्र कुर्व्वते ।
चित्रैर्व्वाक्यैः स्वकार्य्योत्थैः प्रस्तुताक्षेपिभिर्मिथ ।। ३३८.१२ ।।

आमुखं तत्तु विज्ञेयं बुधैः प्रस्तावनापि सा ।
प्रवृत्तकं कथोद्‌घातः प्रयोगातिशयस्तथा ।। ३३८.१३ ।।

आमुखस्य त्रयो भेदा वीजांशेषूपजायते ।
कालं प्रवृत्तमाश्रित्य सूत्रधृग्यत्र वर्णयेत् ।। ३३८.१४ ।।

तदाश्रयश्च पात्रस्य प्रवेशस्तत् प्रवृत्तकं ।
सूत्रधारस्य वाक्यं वा यत्र वाक्यार्थमेव वा ।। ३३८.१५ ।।

गृहीत्वा प्रविशेत् पात्रं कथोद्‌घातः स उच्यते ।
प्रयोगेषु प्रयोगन्तु सूत्रधृग्यत्र वर्णयेत् ।। ३३८.१६ ।।

ततश्च प्रविशेत् पात्रं प्रयोगातिशयो हि सः ।
शरीरं नाटकादीनामितिवृत्तं प्रचक्षते ।। ३३८.१७ ।।

सिद्धमुत्प्रेक्षितञ्चेति तस्य भेदाबुभौ स्मृतौ ।
सिद्धमागमदृष्टञ्च सृष्टमुत्प्रेक्षइतं कवेः ।। ३३८.१८ ।।

वीजं विन्दुः पताका च प्रकरी कार्य्यमेव च ।
अर्थप्रकृतयः पञ्च पञ्च चेष्टा अपि क्रमात् ।। ३३८.१९ ।।

प्रारम्भश्च प्रयत्नश्च प्राप्तिः सद्भाव एव च ।
नियता च फलप्राप्तिः फलयोगश्च पञ्चमः ।। ३३८.२० ।।

मुखं प्रतिमुखं गर्भो विमर्षश्च तथैव च ।
तथा निर्व्वहणञ्चेति क्रमात् पञ्चैव सन्धयः ।। ३३८.२१ ।।

अल्पमात्रं समुद्दिष्टं बहुधा यत् प्रसर्पति ।
फलावसानं यच्चैव वीजं तदभिधीयते ।। ३३८.२२ ।।

यत्र वीजसमुत्पत्तिर्नानार्थरससम्भवा ।
काव्ये शरीरानुगतं तन्मुखं परिकीर्त्तितं ।। ३३८.२३ ।।

इष्टस्यार्थस्य रचना वृत्तान्तस्यानुपक्षयः ।
रागप्राप्तिः प्रयोगस्य गुह्यानाञ्चैव गूहनम् ।। ३३८.२४ ।।

आस्चर्य्यवदभिख्यातं प्रकाशानां प्रकाशनम् ।
अङ्गहीनं नरो यद्वन्न श्रेष्ठं काव्यमेच च ।। ३३८.२५ ।।

देशकालौ विना किञ्चिन्नेतिवृत्तं प्रवर्त्तते ।
अतस्तयोरुपादाननियमात् पदभुच्यते ।। ३३८.२६ ।।

देशेषु भारतं वर्षं काले कृतयुगत्रयं ।
नर्त्ते ताम्यां प्राणभृतां सुखदुःखोदयः क्कचित् ।। ३३८.२७ ।।

सर्गे सार्गादिवार्त्ता च प्रसज्जन्ती न दुष्यति ।। ३३८.२८ ।।

इत्यादिमहापुराणे आग्नेये अलङ्कारे नाटकादिनिरूपणं नामाष्टत्रिंशदधिकत्रिशततमोऽध्यायः ।।