अग्निपुराणम्
















सकलादिमन्त्रोद्धारःसम्पाद्यताम्

ईश्वर उवाच
सकलं निष्कलं शून्यं कलाढयं स्वमलङ्‌कृतम् ।
क्षपणं क्षयमन्तस्थं कण्ठोष्ठं चाष्टमं शिवम् ।। ३१७.१ ।।

प्रासादस्य१ पराख्यस्य स्मृतं रुपं गुहाष्टधा ।
सदाशिवश्य शब्दस्य रूपस्याखिलसिद्धये ।। ३१७.२ ।।

अमृतश्चांशुमांश्चेन्दुश्चेश्वरश्चोग्र ऊहकः ।
एकपादेन ओजाख्य औषधश्चांशुमान् वशी ।। ३१७.३ ।।

अकारादेः क्षकारश्च ककारादेः क्रमादिमे ।
कामदेवः शिखण्डी च गणेशः कालशङ्करौ ।। ३१७.४ ।।

एकनेत्रो द्विनेत्रश्च त्रिशिखो दीर्घबाहुकः ।
एकपादर्द्धचन्द्रश्च वलपो योगिनीप्रियः ।। ३१७.५ ।।

शक्तीश्वरो महाग्रन्धिस्तर्पकः स्थाणुदन्तुरौ ।
निधीरो नन्दी पद्मश्च तथान्यः शाकिनीप्रियः ।। ३१७.६ ।।

मुखविम्वो भीषणश्च कृतान्तः प्राणसंज्ञकः ।
तेजस्वी शक्र उदधिः श्रीकण्ठः सिंह एव च ।। ३१७.७ ।

शशङ्गो विश्वरूपश्च क्षश्च स्यान्नरसिहकः ।
सुर्य्यमात्रासमाक्रान्तं विश्वरूपन्तु कारयेत् ।। ३१८.८ ।।

अंशुमत्संयुतं कृत्वा शशिवीजं विनायुतम् ।
ईशानमोजसाक्रान्तं प्रथमन्तु समुद्धरेत् ।। ३१८.९ ।.

तृतीयं पुरुषं विद्धि दक्षिणं पञ्चमं तथा ।
सप्तमं वामदेवन्तु सद्योजातन्ततः परं ।। ३१८.१० ।।

रसयुक्तन्तु नवमं ब्रह्मपञ्चकमीरितम् ।
ओंकाराद्याश्चतुर्थ्यन्ता नमोन्ताः सर्व्वमन्त्रकाः ।। ३१८.११ ।।

सद्योदेवा द्वितीयन्तु हृदयञ्चाङ्गसंयुतम् ।
चतुर्थन्तु शिरो विद्धि ईश्वरन्नामनामतः ।। ३१८.१२ ।।

ऊहकन्तु शिखा ज्ञेया विश्वरूपसमन्विता ।
तन्मन्त्रमष्टमं ख्यातं नेत्रन्तु दशमं मतम् ।। ३१८.१३ ।।

अस्त्रं शशी समाख्यातं शिवसंज्ञं शिखिध्वजः ।
नमः स्वाहा तथा वौषट् ह्रँ च फट्‌कक्रमेण तु ।। ३१८.१४ ।।

जातिफट्‌कं हृदादीनां प्रासादं मन्त्रमावदे ।
ईशानाद्रुद्रसंख्यातं प्रोद्धरेच्चांशुरञ्चितम् ।। ३१८.१५ ।।

औषधाक्रान्तशिरसमूहकस्योपरिस्थितं ।
अर्द्धचन्द्रोर्द्धनादश्च विन्दुद्वितयमध्यगं ।। ३१८.१६ ।।

तदन्ते विश्वरूपन्तु कृटिलन्तु त्रिधा ततः ।
एवं प्रासादमन्त्रश्च सर्व्वकर्म्मकरो मनुः ।। ३१८.१७ ।।

शिखाबीजं समुद्‌धृत्य फट्कारान्तन्तु चैव फट् ।
अर्द्धचन्द्रासनं ज्ञेयं कामदेवं ससर्पकम् ।। ३१८.१८ ।।

महापाशुपतास्त्रन्तु सर्व्वदुष्टप्रमर्द्दनम् ।
प्रासादः सकलः प्रोक्तो निष्कलः प्रोच्यते ऽधुना ।। ३१८.१९ ।।

औषधं विश्वरूपन्तु रुद्राख्यं सूर्य्यमण्डलम् ।
चन्द्रार्द्धं नादसंयोगं विसंज्ञं कुटिलन्ततः ।। ३१८.२० ।।

निष्कलोभुक्तिमुक्तौ स्यात्पञ्चाङ्गोऽयं सदाशिवः ।
अंशुमान् विस्वरुपञ्च आवृतं शून्यरञ्जितम् ।। ३१८.२१ ।।

ब्रह्माङ्गरहितः शून्यस्तस्य मूर्त्तिरसस्तरुः ।
विघ्ननाशाय भवति पूजितो बालबालिसैः ।। ३१८.२२ ।।

अंशुमान् विश्वरूपाख्यमूहकस्योपरि स्थितम् ।
कलाढ्यं सकलस्यैव पूजाङ्गादि च सर्व्वतः ।। ३१८.२३ ।।

नरसिंहं कृतान्तस्थं तेजस्विग्राणमूर्द्धगम् ।
अंशुमानूहकाक्रान्तमधोर्द्धं स्वसलङ्‌घृतम् ।। ३१८.२४ ।।

चन्द्रार्द्धनादनादानतं ब्रह्मविष्णुविभूषितम् ।
उदधिं नरसिंहञ्च सूर्य्यमात्राविभेदितम् ।। ३१८.२५ ।।

यदा कृतं तदा तस्य ब्रह्माण्यङ्गानि पूर्व्ववत् ।
ओजाख्यमंशुमद्‌युक्तं प्रथमं वर्णमुद्धरेत् ।। ३१८.२६ ।।

अंशुमच्चांशुनाक्रान्तंक द्वितीयं वर्णनायकम् ।
अंशुमानीश्चरन्तद्वत् तृतीयं मुक्तिदायकम् ।। ३१८.२७ ।।

ऊहकञ्चांशुनाक्रान्तं वरुणप्राणतैजसम् ।
पद्ममिन्दुसमाक्रान्तं नन्दीशमेकपादधृक् ।। ३१८.२८ ।।

अंशुमानुदकप्राणः सप्तमं वर्णमुद्‌धृतम् ।
अस्यार्द्धं तृतीयञ्चैव पञ्चमं सप्तमं तथा ।। ३१८.२९ ।।

प्रथमञ्चान्ततो योज्यं क्षपणं दशवीजकम् ।
अस्यार्द्धंतृतीयञ्चैव पञ्चैमं सप्तमं तथा ।। ३१८.३० ।।

सद्योजातन्तु नवमं द्वितीयाद्‌धृदयादिकम् ।
दशार्णप्रणवं यत्तु फडन्तञ्चास्त्रमुद्धरेत् ।। ३१८.३१ ।।

नमस्कारयुतान्यत्र ब्रह्माङ्गानि तु नान्यथा ।
द्वितीयादष्टमं यावदष्टौ विद्येश्वरा मताः ।। ३१८.३२ ।।

अनन्तेशश्च सूक्षमश्च तृतीयश्च शिवोत्तमः ।
एकमूर्त्त्येकरूपस्तु त्रिमूर्त्तिरपस्तथा ।। ३१८.३३ ।।

श्रीकण्ठश्च शिखण्डी च अष्टौ वद्येश्वराः स्मृताः ।
शिखिण्डिनोऽप्यनन्तान्तं मन्त्रान्तं मूर्त्तिरीरीता ।। ३१८.३४ ।।

इत्यादिमहापुराणे अग्नेये सकलादिमन्त्रोद्धारो नाम सप्तदशाधिकत्रिशततमोऽध्याय ॥