अग्निपुराणम्
















प्रतिष्ठाविधिकथनम्सम्पाद्यताम्


ईश्वर उवाच
प्रतिष्ठां सम्प्रवक्ष्यामि क्रमात् सङ्‌क्षेपतो गुह।
पीठं शक्तिं शिवो लिङ्गं तद्योगः स शिवाणुभिः ।। १ ।।

प्रतिष्ठायाः पञ्च भेदास्तेषां रूपं वदामि ते।
यत्र ब्रह्मशिलायोगः सा प्रतिष्ठा विशेषतः ।। २ ।।

स्थापनन्तु यथायोगं पीठ एव निवेशनं।
प्रतिष्ठाभिन्नपीठस्य स्थितस्थापनमुच्यते ।। ३ ।।

उत्थापनञ्च सा प्रोक्ता लिङ्गोद्धारपुरः सरा।
यस्या तु लिङ्गमारोप्य सस्कारः क्रियते बुधैः ।। ४ ।।

आस्थापनं तदुद्दिष्टं द्विधा विष्णवादिकस्य च ।
आसु सर्व्वासु चैतन्यं नियुञ्जीत परं शिवम् ।। ५ ।।

यदाधारादिभेदेन प्रासादेष्वपि पञ्चधा।
परीक्षामथ मे दिन्याः कुर्य्यात्प्रासादकाम्यया ।। ६ ।।

शुक्लाज्यगन्धा रक्ता च रक्तगन्धा सुगन्धिनी ।
पीता कृष्णा सुरादनधा विप्रादीनां मही क्रमात् ।। ७ ।।

पूर्व्वेशोत्तरसर्वत्र पूर्वा चैषां विशिष्यते ।
आखाते हास्तिके यस्याः पूर्णे मृदधिका भवेत् ।। ८ ।।

उत्तमान्तां महीं विद्यात्तोयाद्यैर्वा समुक्षितां।
अस्थ्यङ्गारादिभिर्दुष्टामत्यन्तं शोधयेद् गुरुः ।। ९ ।।

नगरग्रामदुर्गार्थं गृहप्रासादकारणं ।
खननैर्गोकुलावासैः कर्षणैर्वा मुहुर्मुहुः ।। १० ।।

मण्डपे द्वारपूजादि मन्त्रतृप्त्यवसानकं ।
कर्म्म निर्वर्त्याघोरास्त्रं सहस्रं विधिना यजेत् ।। ११ ।।

समीकृत्योपलिप्तायां भूमौ संशोधयेद्दिशः।
स्वर्णदध्यक्षतै रेखाः प्रकुर्वीत प्रदक्षिणं ।। १२ ।।

मध्यादीशानकोष्ठस्थे पूर्णकुम्बे शिवं यजेत्।
वाचस्तुमभ्यर्च्य तत्तोयौः सिञ्चेत् कुद्दालकादिकं ।। १३ ।।

वाह्ये रक्षोगणानिष्ट्वा विधिना दिग्बलिं क्षिपेत्।
भूमिं संसिच्य संस्नाप्य कुद्दालाद्यं प्रपूजयेत् ।। १४ ।।

अन्यं वस्त्रयुगच्छन्नं कुम्भं स्कन्धे द्विजन्मनः।
निधाय गीतवाद्यादिब्रह्मघोषसमाकुलं ।। १५ ।।

पूजां कुम्भे समाहृत्य प्राप्ते लग्नेऽग्निकोष्ठके।
कुद्दालेनाभिषिक्तेन मध्वक्तेन तु खानयेत् ।। १६ ।।

नैर्ऋत्यां क्षेपयेन्मृत्स्नां खाते कुम्भजलं क्षिपेत्।
पुरस्य पूर्व्वसीमान्तं नयेद् यावदभीप्सितं ।। १७ ।।

अथ तत्र क्षणं स्थित्वा भ्रामयेत् परितः पुरं।
सिञ्चन् सीमान्तचिह्णानि यावदीशानगोचरं ।। १८ ।।

अर्घ्यदानमिदं प्रोक्तं तत्र कुम्भपरिभ्रमात्।
इत्थं परिग्रहं भूमेः कुर्व्वीत तदनन्तरं ।। १९ ।।

कर्करान्तं जलान्तं वा शल्यदोषजिघांसया।
खानयेद् भूः कुमारीं चेद् विधिना शल्यमुद्धरेत् ।। २० ।।

अकचटतपयशहान् मानवश्चेत् प्रश्नाक्षराणि तु ।
अग्नेर्ध्वजादिपतिताः स्वस्थाने शल्यमाख्यान्ति ।। २१ ।।

कर्त्तुं श्चाङ्गविकारेण जानीयात्तत्प्रमाणतः।
पश्वादीनां प्रवेशेन कीर्त्तनैर्विरुतैर्द्दिशः ।। २२ ।।

मातृकामष्टवर्गाढ्यां फलके भुवि वा लिखेत्।
शल्यज्ञानं वर्गवशात् पूर्वादीशान्ततः क्रमात् ।। २३ ।।

अवर्गे चैव लोहन्तु कवर्गेऽङ्गारमग्नितः।
चवर्गे भस्म दक्षे स्याट् टवर्गेऽस्थि च नैर्ऋते ।। २४ ।।

तवर्गे चेष्टका चाप्ये कपालञ्च पवर्गके।
यवर्गे शवकीटादि शवर्गे लोहमादिशेत् ।। २५ ।।

हवर्गे रजतं तद्वदवर्गाच्चानर्थकरानपि।
प्रोक्षयात्मभिः करापूरैरष्टाङ्गुलमृदन्तरैः ।। २६ ।।

पादोनं खातमापूर्य्य सजलैर्मुद्‌गराहतैः ।
लिप्तां समप्लवां तत्र कारयित्वा भुवं गुरुः ।। २७ ।।

सामान्यार्घ्यकरो यायान्मण्डपं वक्ष्यमाणकं।
तोरणद्वाः पतीनिष्ट्वा प्रत्यग्द्वारेण संविशेत् ।। २८ ।।

कुर्य्यात्तत्रात्मशुद्ध्यादि कुण्डमण्डपसंस्कृतिं।
कलसं वर्द्धनीसक्तं लोकपालशिवार्च्चनं ।। २९ ।।

अग्नेर्जननपूजादि सर्व्वं पूर्ववदाचरेत्।
यजमानान्वितो यायाच्छिलानां स्नानमण्डपं ।। ३० ।।

शिलाः प्रासादलिङ्गस्य पादधर्म्मादिसञ्‌ज्ञकाः।
अष्टाङ्गुलोच्छ्रिताः शस्ताश्चतुरस्राः करायताः ।। ३१ ।।

पाषाणानां शिलाः कार्य्या इष्टकानां तदर्द्धतः।
प्रासादेऽश्मशिलाः शैले इष्टका इष्टकामये ।। ३२ ।।

अङ्किता नववक्त्राद्यैः पङ्कजाः पङ्कजाङ्किताः।
नन्दाभद्राजया रिक्ता पूर्णाख्या पञ्चमी मता ।। ३३ ।।

आसां पद्मो महापद्मः शङ्‌खोऽथ मकरस्तथा।
समुद्रश्चेति पञ्चामी निधिकुम्भाः क्रमादधः ।। ३४ ।।

नन्दा भद्रा जया पूर्णा अजिता चापराजिता।
विजया मङ्गलाख्या च धरणी नवमी शिला ।। ३५ ।।

सुभद्रश्च विभद्रश्च सुनन्दः पुष्पनन्दकः ।
जयोऽथ विजयश्चैव कुम्भः पूर्णस्तथोत्तरः ।। ३६ ।।

नवानान्तु यथासङ्‌खयं निधिकुम्भा अमी नव।
आसनं प्रथमं दत्त्वा ताड्योल्लिख्य शराणुना ।। ३७ ।।

सर्वासामविशेषेण तनुत्रेणावगुण्ठनं ।
मृद्‌भिर्गोमयगोमूत्रकषायैर्गन्धवारिणा ।। ३८ ।।

अस्त्रेण हूंफडन्तेन मलस्नानं समाचरेत्।
विधिना पञ्चगव्येन स्नानं पञ्चामृतेन च।। ३९ ।।

गन्धतोयान्तर कुर्य्यान्निजनामाङ्किताणुना ।
फलरत्नसुवर्णानां गोश्रृड्गसलिलैस्ततः ।। ४० ।।

चन्दनेन समालभ्य वस्त्रैराच्छादयेच्छिलां।
स्वर्णोत्थमासन् दत्वा नीत्वा यागं प्रदक्षिणं ।। ४१ ।।

शय्यायां कुशतल्पे वा हृदयेन निवेशयेत्।
सम्पूज्य न्यस्य बुद्ध्यादिधरान्तं तत्त्वसञ्चयं ।। ४२ ।।

त्रिशण्डव्यापकं तत्त्वत्रयञ्चानुक्रमान् न्यसेत्।
बुद्ध्यादौ चित्तपर्य्यन्ते चिन्तातन्मात्रकावधौ ।। ४३ ।।

तन्मात्रादौ धरान्ते च शिवविद्यात्मनां स्थितिः।
तत्त्वानि निजमन्त्रेण तत्त्वेशांश्च हृदाऽर्च्चयेत् ।। ४४ ।।

स्थानेषु पुष्पमालादिचिह्नितेषु यथाक्रमं ।
ओं हूं शिवतत्त्वाय नमः।

ओं हूं शिवतत्त्वाधिपतये रुद्राय नमः। ओं हां विद्यातत्त्वाय नमः। ओं हां
विद्यातत्त्वाधिपाय विष्णवे नमः। ओं हां आत्मतत्त्वाय नमः।

ओं हां आत्मतत्त्वाधिपतये ब्रह्मणे नमः ।
क्षमाग्नियजमानार्कान् जलवातेन्दुखानि च ।। ४५ ।।

प्रतितत्त्वं नयसेदष्टौ मूर्त्तीः प्रतिशिलां शिलां।
सर्वं पशुपति चोग्रं रुद्रं भवमतेश्वरं ।। ४६ ।।

महादेवं च भीमं च मूर्त्तीशांश्च यथाक्रमात्।
ओं धरामूर्त्तये नमः, ओं धराधिपतये नमः
इत्यादिमन्त्रान् लोकपालान् यथासङ्‌ख्यं निजाणुभिः ।। ४७ ।।

विन्यस्य पूजयेत् कुम्भांस्तन्मन्त्रैर्वा निजाणुभिः ।
इन्द्रादीनां तु वीजानि वक्ष्यमाणक्रमेण तु ।। ४८ ।।

लूं रुं शूं पूं वूं यूं मूं हूं क्षूमिति ।
अक्तो नवशिलापक्षः शिला पञ्चपदा तथा।
प्रतितत्त्वं न्यसेन्मूर्त्तीः सृष्ट्या पञ्च धरादिकाः ।। ४९ ।।

ब्रकह्मा विष्णुस्तथा रुद्र ईश्वरश्च सदाशिवः।
एते च पञ्च मूर्त्तीशा यष्टव्यास्तासु पूर्ववत् ।। ५० ।।

ओं पृथ्वीमूर्त्तये नमः। ओं पृष्वीमूर्त्त्यधिपतये ब्रह्मणे नमः। इत्यादि मन्त्राः।
सम्पूज्य कलशान् पञ्च क्रमेण निजनामभिः।
निरुन्धीत विधानेन न्यासो मध्यशिलाक्रमात् ।। ५१ ।।

कुर्य्यात् प्राकारमन्त्रेण भूतिदर्भैस्तिलैस्ततः।
कुण्डेषु धारिकां शक्तिं विन्यस्याभ्यर्च्य तर्पयेत् ।। ५२ ।।

तत्त्वतत्त्वाधिपान् मूर्त्तीर्मूर्त्तीशांस्च घृतादिभिः।
ततो ब्रह्मांशशुद्ध्यर्थं मूलाङ्गं ब्रह्मभिः क्रमात् ।। ५३ ।।

कृत्वा शतादिपूर्णान्तं प्रोक्ष्याः शान्तिजलैः शिलाः।
पूजयेच्च कुशैः स्पष्ट्वा प्रतितत्त्वमनुक्रमात् ।। ५४ ।।

सांन्निध्यमथ सन्धानं कृत्वा शुद्धं पुनर्न्यसेत्
एवं भागत्रये कर्म्म गत्वा गत्वा समाचरेत् ।। ५५ ।।

ओं आं ईं आत्मतत्त्वविद्यातत्त्वाभ्यां नमः इति।
संस्पृशेद् दर्भमूलाद्यैर्ब्रह्माङ्गादित्रयं क्रमात्।
कुर्य्यात्तत्त्वानुसन्धानं ह्रस्वदीर्घप्रयोगतः ।। ५६ ।।

ओं हां उं विद्यातत्त्वशिवतत्त्वाभ्यां नमः।
घृतेन मधुना पूर्णांस्ताम्रकुम्भान् सरत्नकान् ।। ५७ ।।

पञ्चागव्यार्घ्यसंसिक्तान् लोकपालाधिदैवतान् ।। ५८ ।।

पूजयित्वा निजैर्म्मम्त्रैः सन्निधौ होममाचरेत्।
शिलानामथ सर्वासां संस्मरेदधिदेवताः ।।
विद्यारूपाः कृतस्नाना हेमवर्णाः शिलाम्वराः।
न्यूनादिदोषमोषार्थं वास्तुभूमेश्च शुद्धये ।।
यजेदस्त्रेण मूर्द्धान्तमाहुतीनां शतं शतं ।। ५९ ।।

इत्यादिमहापुराणे आग्नेये शिलान्यासकथनं नाम द्विनवतितमोऽध्यायः।