चतुर्दशीव्रतानि
अग्निपुराणम्
















अग्निरुवाच
व्रतं वक्ष्ये चतुर्दश्यां भुक्तिमुक्तिप्रदायकं(१) ।१९२.००१
कार्त्तिके तु चतुर्दश्यां निराहारो यजेच्छिवम् ॥१९२.००१
वर्षभोगधनायुष्मान्(२) कुर्वन् शिवचतुर्दशीम् ।१९२.००२
मार्गशीर्षे सितेऽष्टाभ्यां तृतीयायां मुनिव्रतः ॥१९२.००२
टिप्पणी
१ भुक्तिमुक्तिप्रदं शृणु इति ख.. , घ.. , ज.. , झ.. , ञ.. , ट.. च । भुक्तिमुक्तिसुखप्रदमिति ङ..
२ भोगबलायुष्मानिति ङ..

द्वादश्यां वा चतुर्दश्यां फलाहारो यजेत्सुरं(१) ।१९२.००३
त्यक्त्वा फलानि दद्यात्तु कुर्वन् फलचतुर्दशीं ॥१९२.००३
चतुर्दश्यां मथाष्टम्यां पक्षयोः शुक्लकृष्णयोः ।१९२.००४
अनश्नन् पूजयेच्छम्भुं स्वर्ग्युभयचतुर्दशीं ॥१९२.००४
कृष्णाष्टम्यान्तु नक्तेन तथा कृष्णचतुर्दशीं ।१९२.००५
इह भोगानवाप्नोति परत्र च शुभाङ्गतिं ॥१९२.००५
कार्तिके च चतुर्दश्यां कृष्णायां स्नानकृत्सुखी ।१९२.००६
आराधिते महेन्द्रे तु ध्वजाकारासु यष्टिषु(२) ॥१९२.००६
ततः शुक्लचतुर्दश्यामनन्तं पूजयेद्धरिं ।१९२.००७
कृत्वादर्भमयं चैव वारिधानी समन्वितं ॥१९२.००७
शालिप्रस्थस्य पिष्टस्य पूपनाम्नः कृतस्य च ।१९२.००८
अर्धं विप्राय दातव्यमर्धमात्मनि योजयेत्(३) ॥१९२.००८
कर्तव्यं सरितां चान्ते कथां कृत्वा(४) हरेरिति ।१९२.००९
अनन्तसंसारमहासमुद्रे मग्नान् समभ्युद्धर वासुदेव ॥१९२.००९
अनन्तरूपे विनियोजयस्व अनन्तरूपाय नमो नमस्ते ।१९२.०१०
अनेन पूजयित्वाथ सूत्रं बद्धा तु मन्त्रितं ॥१९२.०१०
स्वके करे वा कण्ठे वा त्वनन्तव्रतकृत्सुखी ॥११॥१९२.०११

इत्याग्नेये महापुराणे नानाचतुर्दशीव्रतानि नाम द्विनवत्यधिकशततमोऽध्यायः ॥

टिप्पणी
१ यजेत्स्वयमिति घ..
२ वर्षं भोगधनायुष्मानित्यादिः ध्वजाकारासु यष्टिषु इत्यन्तः पाठः झ.. पुस्तके नास्ति
३ भोजनमिति घ.. , ङ.. , ज.. , झ.. , ञ.. , ट.. च
४ कथां श्रुत्वेति झ..