अग्निपुराणम्
















सङ्ग्रामविजयपूजा

ईश्वर उवाच ।
ओं डे ख ख्यां सूर्याय सङ्ग्रामविजयाय नमः ।
ह्रां ह्रों ह्रूं ह्रें ह्रौं ह्रः षडङ्गानि तु सूर्यस्य सङ्ग्रामे जयदस्य हि ।१४८.००१
ओं हं खं खशोक्लाय स्वाहा । स्पूं ह्रूं हुं क्रूं ओं ह्रों क्रें
प्रभूतं विमलं सारसाराध्यं परमं मुखं ॥१४८.००१
धर्मज्ञानञ्च वैराग्यमैश्वर्याद्यष्टकं यजेत् ।१४८.००२
अनन्तासनं सिंहासनं पद्मासनमतः परं ॥१४८.००२
कर्णिकाकेशरण्येव सूर्यसोमाग्निमण्डलं ।१४८.००३
दीप्ता सूक्ष्मा(१) जया भद्रा विभूतिर्विमला तथा ॥१४८.००३
अमोघा विद्युता पूज्या नवमी सर्वतोमुखी ।१४८.००४
सत्त्वं रजस्तमश्चैव प्रकृतिं पुरुषं तथा ॥१४८.००४
आत्मानञ्चान्तरात्मानं परमात्मानमर्चयेत् ।१४८.००५
सर्वे बिन्दुसमायुक्ता मायानिलसमन्विताः ॥१४८.००५
उषा प्रभा च सन्ध्या च साया माया बलान्विता ।१४८.००६
बिन्दुविष्णुसमायुक्ता(२) द्वारपालास्तथाष्टकं ॥१४८.००६
सूर्यं चण्डं प्रचण्डञ्च पूजयेद्गन्धकादिभिः ।१४८.००७
पूजया जपहोमाद्यैर्युद्धादौ विजयो भवेत् ॥१४८.००७

इत्याग्नेये महापुराणे युद्धजयार्णवे सङ्ग्रामविजयपूजा नाम अष्टचत्वारिंशदधिकशततमोऽध्यायः ॥


- -- - - - -- --- - -- - - - -

टिप्पणी
१ दीप्ता धूमेति झ..
२ बिन्दु बिन्दु समायुक्ता इति छ..
- - - - -- - - -- - -- - --- - - --