अग्निपुराणम्/अध्यायः ८८
निर्वाणदीक्षाकथनम्संपादित करें
ईश्वर उवाच
सन्धानं शान्त्यतीतायाः शान्त्या सार्द्धं विशुद्धया।
कुर्वींत पूर्ववत्तत्र तत्त्ववर्णादि तद् यथा ।। १ ।।
ओं हीं क्षौं हौं हां इति सन्धानानि।
उभौ शक्तिशिवौ तत्त्वे भुवनाष्टकसिकद्धिकं।
दीपकं रोचिरञ्चैव मोचकं चोद्र्ध्वगामिच ।। २ ।।
व्योमरूपमनायञ्च स्यादनाश्रितमष्टमं।
ओङ्कारपदमीशाने मन्त्रो वर्णाश्च षोडश ।। ३ ।।
अकारादिविसर्गान्ता वीजेन देहकारकौ।
कुहूश्च शङ्खिनी नाड्यौ देवदत्तधनञ्चयौ ।। ४ ।।
मारुतौ स्पर्शनं श्रोत्रं इन्द्रिये विषयो नमः।
शचब्दो गुणोऽस्यावस्था तु तुर्य्यातीता तु पञ्चमी ।। ५ ।।
हेतुः सदाशिवो देव इति तत्त्वादिसञ्चयं।
सञ्चिन्त्य शान्त्यतीताख्यं विदध्यात्ताडनादिकं ।। ६ ।।
कलापाशं समाताड्य फडन्तेन विभिद्य च।
प्रविश्यान्तर्न्नमोऽन्तेन फडन्तेन वियोजयेत् ।। ७ ।।
शिखाहृत्सम्पुटीभूतं स्वाहान्तं सृणिमुद्रया।
पूरकेण समाकृष्य पाशं मस्तकसूत्रतः ।। ८ ।।
कुम्भकेन समादाय रेचकेनोद्भवाख्यया।
हृत्सम्पुटनमोऽन्तेन वह्निं कुण्डे निवेशयेत् ।। ९ ।।
अस्याः पूजादिकं सर्वं निवृत्तेरिव साधयेत्।
सदाशिवं समावाह्य पूजयित्वा प्रतर्प्य च ।। १० ।।
सदा ख्यातेऽधिकारेऽस्मिन् मुमुक्षुं दीक्षयाम्यहं।
भाव्यं त्वयाऽनुकूलेन भक्त्या विज्ञापयेदिति ।। ११ ।।
पित्रोरावाहनं पूजां कृत्वा तर्पणसन्निधी।
हृत्सम्पुटात्मवीजेन शिष्यं वक्षसि ताडयेत् ।। १२ ।।
ओं हां हूं हं फट्।
प्रविश्य चाप्यनेनैव चैतन्यं विभजेत्ततः।
शस्त्रेण पाशसंयुक्तं ज्येष्ठयाऽङ्कुशमुद्रया ।। १३ ।।
स्वाहान्तेन तदाकृष्य तेनैव पुटितात्मना।
गृहीत्वा तन्नमोऽन्तेन निजात्मनि नियोजयेत् ।। १४ ।।
पूर्ववत् पितृसंयोगं भावयित्वोद्भवाख्यया।
वामया तदनेनैव देव्या गर्भे नियोजयेत् ।। १५ ।।
गर्व्भाधानाधिकं सर्वं पूर्वोक्तविधिना चरेत्।
मूलेन पाशशैथिल्ये निष्कृत्यैव शतं जपेत् ।। १६ ।।
मलशक्तितिरोधाने पाशानाञ्च वियोजने।
पञ्च पञ्च हुतीर्द्दद्यादायुधेन यथा पुरा ।। १७ ।।
पाशानायुधमन्त्रेण सप्तवाराभिजप्तया।
छिन्द्यादस्त्रेण कर्त्तर्य्या कलावीजयुजा यथा ।। १८ ।।
विसृज्य वर्त्तुलीकृत्य पाशानस्त्रेण पूर्ववत्।
घृतपूर्णे श्रुवे दत्वा कलास्त्रेणैव होमयेत् ।। १९ ।।
अस्त्रेण जुहुयात् पञ्च पाशाङ्कुशनिवृत्तये।
प्रायश्चित्तनिषेधार्थं दद्यादष्टाहुतीस्ततः ।। २० ।।
सदाशिवं हृदावाह्य कृत्वा पूजनतर्पणे।
पूर्वोक्तविधिना कुर्य्यादधिकारसमर्पणं ।। २१ ।।
ओं हां सदाशिव मनोवि दुं शुल्कं गृहाण स्वाहा।
निः शेषदग्धपाशस्य पशोरस्य सदाशिव।
बन्धाय न त्वाया स्थेयं शिवाज्ञां श्रावयेदिति ।। २२ ।।
भूलेन जुहुयात् पूर्णां विसृजेत्तु सदाशिवं।
ततो विशुद्धमात्मानं शरच्चन्द्रमिवोदितं ।। २३ ।।
संहारमुद्रया रौद्र्या संयोज्य गुरुरात्मनि।
कुर्वीत शिष्यदेहस्थमुद्धृत्योद्भवमुद्रया ।। २४ ।।
दद्यादाप्यायनायास्य मस्तकेऽर्घ्याम्बुविन्दुकं।
क्षमयित्वा महाभक्त्या पितरौ विसृजेत्तथा ।। २५ ।।
खेदितौ शिष्यदीक्षायै यन्मया पितरौ युवां।
कारुण्यान्मोक्षयित्वा तद्व्रजत्वं स्थानमात्मनः ।। २६ ।।
शिकामन्त्रितकर्त्तर्य्या बोधशक्तिस्वरूपिणीं।
शिखां छिन्द्याच्छिवास्त्रेण शिष्यस्य चतुरङ्गुलां ।। २७ ।।
ओं क्ली शिखायै हूं फट् ओं हः अस्त्राय हूं फट्।
स्रुचि तां घृतपूर्णायां गोविड्गोलकमध्यागां ।
संविधायास्त्रमन्त्रेण हूं फडन्तेन होमयेत् ।। २८ ।।
ओं हौं हः अस्त्राय हूं फट्।
प्रक्षाल्य स्रुक्स्रुवौ शिष्यं संस्नाप्याचम्य च स्वयं।
योजनिकास्थमात्मानं शस्त्रमन्त्रेण ताडयेत् ।। २९ ।।
षियोज्याकृष्य सम्पूज्य पूर्व्ववद् द्वादशान्ततः।
आत्मीयहृदयाम्भोजकर्णिकायां निवेशयेत् ।। ३० ।।
पूरितं श्रुवमाज्येन विहिताधोमुखश्रुचा।
नित्योक्तविधिनाऽऽदाय शङ्शसन्निभमुद्रया ।। ३१ ।।
प्रसारितशिरोग्रीवो नादोच्चारानुसारतः।
समदृष्ठिशिवश्चान्तः परभावसमन्वितः ।। ३२ ।।
कुम्भमण्डलवह्निभ्यः शिष्यादपि निजात्मनः।
गृहीत्वा षड्विधाध्वानं श्रुगग्रे प्राणनाडिकं ।। ३३ ।।
सञ्चिन्त्य विन्दुवद् ध्यात्वा क्रमशः सप्तधा यथा।
प्रथमं प्रोणसंयोगस्वरुपमपरन्ततः ।। ३४ ।।
हृदयादिक्रमोच्चारविसृष्टं मन्त्रसञ्ज्ञकं।
पूरकं कुम्भकं कृत्वा व्यादाय वदनं मनाक् ।। ३५ ।।
सुषुम्णानुगतं नादस्वरूपन्तु तृतीयकं।
सप्तमे कारणे त्यागात्प्रशान्तविस्वरं लयः ।। ३६ ।।
शक्तिनादोद्र्ध्वसञ्चारस्तच्छक्तिवस्वरं मतं।
प्राणस्य निखिलस्यापि शक्तिप्रमेयवर्जितं ।। ३७ ।।
तत्कालविस्वरं षष्ठं शक्त्यतीतञ्च सप्तमं।
तदेतद् योजनास्थानं विस्वरन्तत्त्वसञ्ज्ञकं ।। ३८ ।।
पूरकं कुम्भकं कृत्वा व्यादाय वदनं मनाक्।
शनैरुदीरयन् मूलं कृत्वा शिष्यात्मनो लयं ।। ३९ ।।
हकारे तडिदाकारे षडध्वप्राणरूपिणि।
उकारं परतो नाभेर्विस्तिं व्याप्य संस्थितं ।। ४० ।।
ततः परं मकारन्तु हृदयाच्चतुरङ्गुलं।
ओङ्कारं वाचकं विष्णोस्ततोऽष्टाङ्गुलकण्ठकं ।। ४१ ।।
चतुरङ्गलतालुस्थं मकारं रुद्रवाचकं।
तद्वल्ललाटमध्यस्थं विन्दुमीश्वरवाचकं ।। ४२ ।।
नादं सदाशिवं देवं ब्रह्मरन्ध्रावसानकं।
शक्तिं च ब्रह्मारन्ध्नस्थां त्यजन्नित्यमनुक्रमात् ।। ४३ ।।
दिव्यं पिपीलिकास्पर्शं तस्मिन्नेवानुभूय च।
द्वादशान्ते परे तत्त्वे परमानन्दलक्षणे ।। ४४ ।।
भावशून्ये मनोऽतीते शिवे नित्यगुणोदये।
विलीय मानसे तस्मिन् शिष्यात्मानं विबावयेत् ।। ४५ ।।
विमुञ्चन् सर्पिषो धारां ज्वालान्तेऽपिपरे शिवे।
योजनिकास्थिरत्वाय वौष्डन्तशिवाणुना ।। ४६ ।।
दत्वा पूर्णां विधानेन गुणापादनमाचरेत्।
ओं हां आत्मने सर्वज्ञो भव स्वाहा। शुद्ध पाठः - पादटिप्पणी द्र.
ओं हां आत्मने परितृप्तो भव स्वाहा।
ओं ह्रूं आत्मने अनादिवोधो भव स्वाहा।
ओं हौं आत्मने स्वतन्त्रो भव स्वाहा।
ओं हौं आत्मन् अलुप्तशक्तिर्भव स्वाहा।
ओं हः आत्मने अनन्तशक्तिर्भव स्वाहा।
इत्थं षड्घुणमात्मानं गृहीत्वा परमाक्षरात् ।। ४७ ।।
विधिना भावनोपेतः शिष्यदेहे नियोजयेत्।
तीव्राणुशक्तिसम्पातजनितश्रमशान्तये ।। ४८ ।।
शिष्यमूर्धनि विन्यस्येदर्घ्यादमृतविन्दुकं।
प्रणमय्येशकुम्भादीन् शिवाद्दक्षिणमण्डलो ।। ४९ ।।
सौम्यवक्त्रं व्यवस्थाप्य शिष्यं दक्षिणमात्मनः।
त्वयैवानुगृहीतोऽयं मूर्त्तिमास्थाय मामकीं ।। ५० ।।
देवे वह्नौ गुरौ तस्माद्भक्तिं चाप्यस्य वर्द्धय ।
इति विज्ञाप्य देवेशं प्रणम्य च गुरुः स्वयं ।। ५१ ।।
श्रेयस्तवास्त्विति ब्रूयादाशिषं शिष्वमादशत्।
ततः परमाया भक्त्या दत्वा देवेऽष्टपुष्पिकां ।।
पुत्रकं शिवकुम्भेन संस्नाप्य विसृजेन्मखं ।। ५२ ।।
इत्यादिमहापुराणे आग्नेये निर्वाणदीक्षासमापनं नाम अष्टाशीतितमोऽध्यायः॥
संपादित करें
८८.४७ शुद्ध पाठः-
ओं हां आत्मने सर्वज्ञो भव स्वाहा।
ओं हीं आत्मने परितृप्तो भव स्वाहा।
ओं हूं आत्मने अनादिबोधो भव स्वाहा।
ओं हैं आत्मने स्वतन्त्रो भव स्वाहा।
ओं हौं आत्मन् अलुप्तशक्तिर्भव स्वाहा।
ओं हः आत्मने अनन्तशक्तिर्भव स्वाहा।४७ - अग्निपुराण(हिन्दी), गीताप्रेस, गोरखपुर