अग्निपुराणम्
















राजधर्माः

सम्पाद्यताम्

पुष्कर उवाच
राजपुत्रस्य रक्षा च कर्त्तव्या पृथिवीक्षिता ।
धर्मार्थ्कामशास्त्राणि धनुर्वेदञ्च शिक्षयेत् ।। २२५.१ ।।

शिल्पानि शिक्षयेच्चैवमाप्तैर्मिथ्याप्रियंवदैः ।
शरीररक्षाव्याजेन रक्षिणोऽस्य नियोजयेत् ।। २२५.२ ।।

न चास्य सङ्गो दातव्यः क्रुद्धलुब्धविमानितैः ।
अशक्यन्तु गुणाधानं कर्त्तु तं बन्धयेत् सुखैः ।। २२५.३ ।।

अधिकारेषु सर्वेषु विनीतं विनियोजयेत् ।
मृगयां पानमक्षांश्च राज्यनाशं स्त्यजेन्नृपः ।। २२५.४ ।।

दिवास्वप्नं वृथाट्याञ्च वाक्पारुष्यं विवर्जयेत् ।
निन्दाञ्च दण्डपारुष्यमर्थदूषणमुत्सृजेत् ।। २२५.५ ।।

आकाराणां समुच्छेदो दुर्गादीनामसत्क्रिया ।
अर्थानां दूषणं प्रोक्तं विप्रकीर्णत्वमेव च ।। २२५.६ ।।

अदेशकाले यद्दानमपात्रे दानमेव च ।
अर्थेषु दूषणं प्रोक्तमसत्कर्मप्रवर्त्तनं ।। २२५.७ ।।

कामं क्रोधं मदं मानं लोभं दर्पञ्च वर्जयेत् ।
ततो भृत्यजयङ्‌कृत्वा पौरजानपदं जयेत् ।। २२५.८ ।।

जयेद्‌बाह्यानरीन् पश्चाद्वाह्याश्च त्रिविधारयः ।
गुरवस्ते यथा पूर्वं कुल्यानन्तरकृत्रिमाः ।। २२६.९ ।।

पितृपैतामद्दं मित्रं सामन्तञ्च तथा रिपोः ।
कृत्रिमञ्च महाभागा मित्रन्त्रिविधमुच्यते ।। २२६.१० ।।

स्वाम्यमात्यञ्जनपदा दुर्गं दण्डस्तथैव च।
कोपो मित्रञ्च धर्मज्ञ सप्ताङ्गं राज्यमुच्यते ।। २२५.११ ।।

मूलं स्वामी स वै रक्ष्यस्तस्माद्राज्यं१ बिशेषतः ।
राज्याङ्गद्रोहिणं हन्यात्काले तीक्ष्णो मृदुर्भवेत् ।। २२५.१२ ।।

एवं लोकद्वयं राज्ञो भृत्यैर्हासं विवर्जयेत् ।
भृत्याः परिभवन्तीह नृपं हर्षणसत्कथं ।। २२५.१३ ।।

लोकसङ्‌ग्रहणार्थाय कृतकव्यसनो भवेत् ।
स्मितपूर्वाभिभाषी स्यात् लोकानां रञ्जनं चरेत् ।। २२५.१४ ।।

दीर्घसूत्रस्य नृपतेः कर्महानिर्ध्रुवं भवेत् ।
रागे दर्पे च माने च द्रोहे पापे च कर्मणि ।। २२५.१५ ।।

अप्रिये चैव बक्तव्ये दीर्घ्सूत्रः प्रशस्यते।
गुप्तमन्त्रो भवेद्राजा नापदो गुप्तमन्त्रतः ।। २२५.१६ ।।

ज्ञायते हि कृतं कर्म्म नारब्धं तस्य राज्यकं२।
आकारैरिङ्गितैर्गत्या चैष्टया भाषितेन च ।। २२५.१७ ।।

नेत्रवक्त्रविकाराभ्यां गृह्यतेऽन्तर्गतं पुनः ।
नैकस्तु मन्त्रयेनुमन्त्रं न राजा बहुभिः सह ।। २२५.१८ ।।

बहुभिर्मन्त्रयेत् कामं राजा मन्त्रान् पृथक् पृथक्।
मन्त्रिणामपिनो कुर्यान्मन्त्री मन्त्रप्रकाशनं ।। २२५.१९ ।।

क्वापि कस्यापि३ विश्वासो बवतीहसदा नृणां ।
निश्चयश्च तथा मन्त्रे कार्य्य एकेन सूरिणा ।। २२५.२० ।।

नश्येदविनयाद्राजाराज्यञ्च विनयाल्लभेत् ।
त्रैविद्येभ्यस्त्रयीं विद्यां दण्डनीतिञ्च शाश्वतीं ।। २२५.२१ ।।

आन्वीक्षिकीञ्चार्थविद्यां वार्त्तारम्भांश्च लोकतः ।
जितेन्द्रियो हिशक्रोति वशे स्थापयितुं प्रजाः ।। २२५.२२ ।।

पूज्या देवा द्विजाः सर्वे दद्याद्दानानि तेषु च ।
द्विजे दानञ्चक्षयोऽयं निधिः कैश्चिन्नि नाश्यते ।। २२५.२३ ।।

सङ्‌ग्रामेष्वनिवर्त्तित्वं प्रजानां परिपालनं ।
दानानि ब्राह्मणानाञ्च राज्ञो निः श्रेयसम्परं ।। २२५.२४ ।।

कृपणानाथवृद्धानां विधवानाञ्च योषितां ।
योगक्षेमञ्च वृत्तिञ्च तथैव परिकल्पयेत् ।। २२५.२५ ।।

वर्णाश्रमव्यवस्थानां कार्यन्तापसपूजनं ।
न विश्वसेच्च सर्वत्र तापसेषु च विश्वसेत् ।। २२५.२६ ।।

विश्वासयेच्चापि परन्तत्त्वभूतेन हेतुना ।
वककवच्चिन्तयेदर्थं सिंहवच्च पराक्रमेत् ।। २२५.२७ ।।

वृकवच्चावलुम्पेत् शशवच्च विनिष्पतेत् ।
दृढप्रहारी च भवेत् तथा शूकरवन्नृपः ।। २२५.२८ ।।

चित्राकारश्च शिखिवद्‌ दृढभक्तिस्तथा श्ववत् ।
भवेच्च मधुराभाषी तथा कोकिलवन्नृपः ।। २२६.२९ ।।

काकशङ्की भवेन्नित्यमज्ञातां वसतिं वसेत्।
नापरीक्षितपूर्वञ्च भोजनं शयनं स्पृशेत् ।। २२५.३० ।।

नाविज्ञातां स्त्रियं गच्छेन्नाज्ञातां नावमारुहेत् ।
राष्ट्रकर्षी भ्रस्यते चराज्यार्थाच्चैव जीवितात् ।। २२५.३१ ।।

भृतो वत्सो जातबलः कर्मयोग्यो यथा भवेत् ।
तथा राष्ट्रं महाभाग भृतं कर्मसहं भवेत् ।। २२५.३२ ।।

सर्वं कर्मेदमायत्तं विधाने दैवपौरुषे ।
तयोर्दैवचचिन्त्यं हि पौरुषे विद्यते क्रिया ।। २२५.३३ ।।

जनानुरागप्रभवा राज्ञो राज्यमहीश्रियः ।

इत्याकदिमहापुराणे आग्नेये राकजधर्मो नाम पञ्चविंशत्यधिकद्विशततमोऽध्यायः ।