अग्निपुराणम्
















गोनसादिचिकित्सा

सम्पाद्यताम्

अग्निरुवाच
गोनसादिचिकित्साञ्च वशिष्ठ श्रृणु वच्मि ते ।
ह्रीँ ह्रीँ अमलपक्षि स्वाहा ।।
ताम्बूलखादनान्मन्त्री हरेन्मण्डलिनो विषं ।। २९८.१ ।।

लशुनं रामठफ्लं कुष्ठाग्निव्योषकं विषे ।
स्नुहीक्षीरं गव्यघृतं पक्षं पीत्वाऽहिजे विषे ।। २९८.२ ।।

अथ राजिलदष्टे च पेया कृष्णा ससैन्धवा ।
आज्यक्षौद्रशकृत्तोयं पुरीतत्या विषापहं ।। २९८.३ ।।

सकृष्णाखण्डदुग्धाज्यं पातव्यन्तेन माक्षिकं ।
व्योषं पिच्छं विडालास्थि नकुलाङ्गरुहैः समैः ।। २९८.४ ।।

चूर्णितैर्म्मेषदुग्धाक्तैर्धूपः सर्वविषापहः ।
रोमनिर्गुण्डिकाकोलवर्णैर्वा लशुनं समं ।। २९८.५ ।।

मुनिपत्रैः कृतस्वेदं दष्टं काञ्जिकपाचितैः ।
मूषिकाः षोडश प्रोक्ता रसङ्कार्पासकजम्पिवेत् ।। २९८.६ ।।

सतैलं मूषिकार्त्तिघ्नं फलिनीकुसुमन्तथा ।
सनागरगुडम्भक्ष्यं तद्विषारोचकापहं ।। २९८.७ ।।

चिकित्सा विंशतिर्भूता लूताविषहरो गणः ।
पद्मकं पाटली कुष्ठं नतमूशीरचन्दनं ।। २९८.८ ।।

निर्गुण्डी शारिवा शेलु लूतार्त्तं सेचयेज्जलैः ।
गुञ्जानिर्गुण्डिकङ्कोलपर्णं शुण्ठी निशाद्वयं ।। २९८.९ ।।

करञ्जास्थि च तत्पङ्कैः वृश्चिकार्त्तिहरं श्रृणु ।
मञ्जिष्ठा व्योषपुष्पं शिरीषकौमुदं ।। २९८.१० ।।

संयोज्याश्चतुरो योगा लेपादौ वृश्चिकापहाः ।।
ओं नमो भगवते रुद्राय चिवि छिन्द किरि

भिन्द खङ्गेन छेदय शुलेन भेदय चक्रेण दारय
ओं ह्रूँ फट् ।
मन्त्रेण मन्त्रितो देयो गर्द्धभादीन्निकृन्तति ।। २९८.११ ।।

त्रिफलोशीरमुस्ताम्बुमांसीपद्मकचन्दनं ।
अजाक्षीरेण पानादेर्गर्द्धभादेर्विषं हरेत् ।। २९८.१२ ।।

हरेत् शिरीषपञ्चाङ्गं व्योषं शतपदीविषं ।
सकन्धरं शिरीषास्थि हरेदुन्दूरजं विषं ।। २९८.१३ ।।

व्योषं ससर्पिः पिण्डीतमूलमस्य विषं हरेत् ।
क्षारव्योषवचाहिङ्गुविडङ्गं सैन्धवन्नतं ।। २९८.१४ ।।

अम्बष्ठातिबलाकुष्ठं सर्वकीटविषं हरेत् ।
यष्टिव्योषगुडक्षीरयोगाः शुनो विषापहः ।। २९८.१५ ।।

ओं सुभद्रायै नमः ओं सुप्रभायै नमः ।
यान्यौषधानि गृह्यन्ते विदानेन विना जनैः ।। २९८.१६ ।।

तेषां वीजन्त्वया ग्राह्यमिति ब्रह्माऽव्रवीच्च नाम् ।
ताम्प्रणम्योषधीम्पश्चात् यवान् प्रक्षिप्य मुष्टिना ।। २९८.१७ ।।

दश जप्त्वा मन्त्रमिदं नमस्कुर्य्यात्तदौषधं ।
त्वामुद्धराम्यूद्‌र्ध्वनेत्रामनेनैव च भक्षयेत् ।। २९८.१८ ।।

नमः पुरुषसिंहाय नमो गोपालकाय च ।
आत्मनैवाभिजानाति रणे कृष्णपराजयं ।। २९८.१९ ।।

एतेन सत्यवाक्येन अगदो मेऽस्तु सिध्यतु ।।
नमो वैदूर्य्यमाते तन्न रक्ष मां सर्वविषेभ्यो गौरि गान्धारि
चाण्डालि मातङ्गिनि स्वाहा हरिमाये ।
औषधादौ प्रयोक्तव्यो मन्त्रोऽयं स्थावरे विषे ।। २९८.२० ।।

भुक्तमात्रे स्थिते ज्वाले पद्मं शीताम्बुसेवितं ।
पाययेत्सघृतं क्षौद्रं विषञ्चेत्तदनन्तरं ।। २९८.२१ ।।

इत्यादिमहापुराणे आग्नेये गोनसादिचिकित्सा नाम अष्टनवत्यधिकद्विशततमोऽध्यायः ।।