त्रयोदशीव्रतानि
अग्निपुराणम्
















अग्निरुवाच
त्रयोदशीव्रतानीह सर्वदानि वदामि ते ।१९१.००१
अनङ्गेन कृतामादौ वक्ष्येऽनङ्गत्रयोदशीं ॥१९१.००१
त्रयोदश्यां मार्गशीर्षे शुक्लेऽनङ्गं हरं यजेत्[१](१) ।१९१.००२
मधु सम्प्राशयेद्रात्रौ घृतहोमस्तिलाक्षतैः ॥१९१.००२
पौषे योगेश्वरं प्रार्च्य चन्दनाशी कृताहुतिः ।१९१.००३
महेश्वरं मौक्तिकाशी माघेऽभ्यर्च्य दिवं व्रजेत् ॥१९१.००३
काकोलं प्राश्य नीरं तु[२](२) फाल्गुने पूजयेद्व्रती ।१९१.००४
कर्पूराशी स्वरूपं च चैत्रे सौभाग्यवान् भवेत् ॥१९१.००४
महारूपन्तु वैशाखे यजेज्जातीफलाश्यपि ।१९१.००५
लवङ्गाशी ज्यैष्ठदिने[३](३) प्रद्युम्नं पूजयेद्व्रती ॥१९१.००५
तिलोदाशी तथाषाढे उमाभर्तारमर्चयेत् ।१९१.००६
श्रावणे गन्धतोयाशी पूजयेच्छूलपाणिनं ॥१९१.००६
सद्योजातं भाद्रपदे प्राशिता गुरुमर्चयेत् ।१९१.००७
सुवर्णवारि संप्राश्य आश्विने त्रिदशाधिपम् ॥१९१.००७
विश्वेश्वरं कार्त्तिके तु मदनाशी यजेद्व्रती ।१९१.००८
शिवं हैमन्तु वर्षान्ते सञ्च्छाद्याम्रदलेन तु ॥१९१.००८
वस्त्रेण पूजयित्वा तु दद्याद्विप्राय गान्तथा ।१९१.००९
शयनञ्छत्रकलशान् पादुका रसभाजनम् ॥१९१.००९
त्रयोदश्यां सिते चैत्रे रतिप्रीतियुतं स्मरन् ।१९१.०१०
अशोकाख्यं नगं लिख्य सिन्दूररजनीमुखैः ॥१९१.०१०
अव्धं यजेत्तु कामार्थी कामत्रयोदशीव्रतम् ।१९१.०११

इत्याग्नेये महापुराणे त्रयोदशी व्रतानि नामैकनवत्यधिकशततमोऽध्यायः ॥


  1. हरिं यजेदिति छ.. , ज.. , ञ.. च
  2. काकोलं प्राश्य चीनञ्चेति घ.. , ज.. , झ.. , ञ.. च
  3. ज्यैष्ठमासे ईत्ग.. , घ.. , ङ.. , ज.. , झ.. , ञ.. च