अग्निपुराणम्
















काव्यदोषविवेकःसम्पाद्यताम्

अग्निरुवाच
उद्वेगजनको दोषः सभ्यानां स च सप्तधा ।
वक्तृवाचकवाच्यानामेकद्वित्रिनियोगतः ।। ३४७.१ ।।

तत्र वक्ता कविर्नाम प्रथते स च भेदतः ।
सन्दिहानोऽविनीतः सन्नज्ञो ज्ञाता चतुर्व्विंधः ।। ३४७.२ ।।

निमित्तपरिभाषाभ्यामर्थसंस्पर्शिवाचकम् ।
तद्‌भेदो पदवाक्ये द्वे कथितं लक्षणं द्व्योः ।। ३४७.३ ।।

असाधुत्वाप्रयुक्तत्वे द्वावेव पदनिग्रहौ ।
शब्दशास्त्रविरुद्धत्वमसाधुत्वं विदुर्बुधाः ।। ३४७.४ ।।

व्युत्पन्नैरनिबद्धत्वमप्रयुक्तत्वमुच्यते ।
छान्दसत्वमविस्पष्टत्वञ्च कष्टत्वमेव च ।। ३४७.५ ।।

तदसामयिकत्वञ्च ग्राम्यत्वञ्चेति पञ्चधा ।
छान्दसत्वं न भाषायामविस्पष्टमबोधतः ।। ३४७.६ ।।

गूढ़ार्थता विपर्य्यस्तार्थता संशयितार्थता ।
अविस्पष्टार्थता भेदास्तत्र गूढ़ार्थतेति सा ।। ३४७.७ ।।

यत्रार्थो दुःखसंवेद्यो विपर्य्यस्तार्थ्ता पुनः ।
विवक्षितान्यशब्दार्थप्रतिपत्तिर्मलीमसा ।। ३४७.८ ।।

अन्यार्थत्वासमर्थत्वे एतामेवोपसर्पतः ।
सन्दिह्यमानवाच्यत्वमाहुः संशयितार्थतां ।। ३४७.९ ।।

दोषत्वमनुबध्नाति सज्जनोद्वेजनादृते ।
असुखोच्चार्य्यमाणत्वं कष्टत्वं समयाच्युतिः ।। ३४७.१० ।।

असामयितता नेयामेताञ्च मुनयो जगुः ।
ग्राम्यता तु जघन्यार्थप्रतिपत्तिः शलीकृता ।। ३४७.११ ।।

वक्तव्यग्राम्यवाच्यस्य वचनात्स्मरणादपि ।
तद्वाचकपदेनाभिसाम्याद्भवति सा त्रिधा ।। ३४७.१२ ।।

दोषः साधारणः प्रातिस्विकोऽर्थस्य स तु द्विधा ।
अनेकभागुपालम्भः साधारण इति स्मृतः ।। ३४७.१३ ।।

क्रियाकारकयोर्भ्रंशो विसन्धिः पुनरुक्तता ।
व्यस्तसम्बन्धता चेति पञ्च साधारणा मताः ।। ३४७.१४ ।।

अक्रियत्वं त्रियाभ्रंशो भ्रष्टकारकता पुनः ।
सर्त्त्र्यादिकारकाभावो विसन्धिः सन्धिदूषणम् ।। ३४७.१५ ।।

विगतो वा विरुद्धो वा सन्धिः स भवति द्विधा ।
सन्धेर्व्विरुद्धता कष्टपादादर्थान्तरागमात् ।। ३४७.१६ ।।

पुनरुक्तत्वमाभीक्ष्ण्यादभिधानं द्विधैव तत् ।
अर्थावृत्तिः पदावृत्तिरर्थावृत्तिरपि द्विधा ।। ३४७.१७ ।।

प्रयुक्त वरशब्देन तथा शब्दान्तरेण च ।
नावर्त्तते पदावृत्तौ वाच्यमावर्त्तते पदम् ।। ३४७.१८ ।।

व्यस्तसम्बन्धता सुष्ठुसम्बन्धो व्यवधानतः ।
सम्बन्धान्तरनिर्भाषात् सम्बन्धान्तरजन्मनः ।। ३४७.१९ ।।

अभावेपि तयोरन्तर्व्यवधानात्त्त्रिधैव सा ।
अन्तरा पदवाक्याभ्यां पुनर्द्विधा ।। ३४७.२० ।।

वाच्यमर्थार्थ्यमानत्वात्तद्‌द्विधा पदवाक्ययोः ।
व्युत्पादितपूर्व्ववाच्यं व्युत्पाद्यञ्चेति भिद्यते ।। ३४७.२१ ।।

इष्टव्याघातकारित्वं हेतोः स्यादसमर्थता ।
असिद्धत्वं विरुद्धत्वमनैकान्तिकता तथा ।। ३४७.२२ ।।

एवं सत्प्रतिपक्षत्वं कालातीतत्वसङ्करः ।
पक्षे सपक्षे नास्तित्वं विपक्षेऽस्तित्वमेव तत् ।। ३४७.२३ ।।

काव्येषु परिषद्यानां न भवेदप्यरुन्तुदम् ।
एकादशनिरर्थत्वं दुष्करादौ न दुष्यति ।। ३४७.२४ ।।

दुःखीकरोति दोषज्ञान् गूढार्थत्वं न दुष्करे ।
न ग्राम्यतोद्वेगकारी प्रसिद्धेर्ल्लोकशास्त्रयोः ।। ३४७.२५ ।।

क्रियाभ्रंशेन लक्ष्मास्ति क्रियाध्याहारयोगतः ।
भ्रष्टकारकताक्षेपबलाध्याहृतकारके ।। ३४७.२६ ।।

प्रगृह्यो गृह्यते नैव क्षतं विगतसन्धिना ।
कष्टपाठाद्विसन्धित्वं दुर्व्वचादौ न दुर्भगम् ।। ३४७.२७ ।।

अनुप्रासे पदावृत्तिर्व्यस्तसम्बन्धता शुभा ।
नार्थसंग्रहणे दोषो व्युत्क्रमाद्यैर्न्न लिप्यते ।। ३४७.२८ ।।

विभक्तिसंज्ञालिङ्गानां यत्रोद्वेगो न धीमतां ।
संख्यायास्तत्र भिन्नत्वमुप्मानोपमेययोः ।। ३४७.२९ ।।

अनेकस्य तथैकेन बहूनां बहुभिः शुभा ।
कवीनां समुदाचारः समयो नाम गीयते ।। ३४७.३० ।।

सामान्यश्च विशिष्टश्च धर्म्मवद्भवति द्विधा ।
सिद्धसैद्धान्तिकानाञ्च कवीनाञ्चाविवादतः ।। ३४७.३१ ।।

यः प्रसिध्यति सामान्य इत्यसौ समयो मतः ।
सर्व्वे सिद्धान्तिका येन सञ्चरन्ति निरत्ययं ।। ३४७.३२ ।।

कियन्त एव वा येन सामान्यस्तेन स द्विधा ।
छेदसिद्धान्ततोऽन्यः स्यात् केषाञ्चिद्‌ भ्रान्तितो यथा ।। ३४७.३३ ।।

तर्कज्ञानां मुनेः कस्य कस्यचित् क्षणभङ्गिका ।
भूतचैतन्यता कस्य ज्ञानस्य सुप्रकाशता ।। ३४७.३४ ।।

प्रज्ञातस्थूलताशबप्दानेकान्तत्वं तथार्हतः ।
शैववैष्णवशाक्तेयसौरसिद्धान्तिनां मतिः ।। ३४७.३५ ।।

जगतः कारणं ब्रह्म साङ्‌ख्यानां सप्रधानकं ।
अस्मिन् सरस्वतीलोके सञ्चरन्तः परस्परम् ।। ३४७.३६ ।।

बध्नन्ति व्यतिपश्यन्तो यद्विशिष्टः स उच्यते ।
परिग्रहादप्यसतां सतामेवापरिग्रहात् ।। ३४७.३७ ।।

भिद्यमानस्य तस्यायं द्वैविध्यमुपगीयते ।
प्रत्यज्ञादिप्रमाणैर्यद्बाधितं तदसद्विदुः ।। ३४७.३८ ।।

कविभिस्तत् प्रतिग्राह्यं ज्ञानस्य द्योतमानता ।
यदेवार्थक्रियाकारि तदेव परमार्थसत् ।। ३४७.३९ ।।

अज्ञानाज्ज्ञानतस्त्वेकं ब्रह्मैव परमार्थसत् ।
विष्णुः स्वर्गादिहेतुः स शब्दालङ्काररूपवान् ।। ३४७.४० ।।

अपरा च परा विद्या तां ज्ञात्वा मुच्यते भवात् ।। ३४७.४१ ।।

इत्यादिमहापुराणे आग्नेये अलङ्कारे काव्यदोषविवेको नाम सप्तचत्वारिंशदधिकत्रिशततमोऽध्यायः ।।