अग्निपुराणम्
















पवित्राशेपणविधानम्सम्पाद्यताम्

अग्निरुवाच
प्रातः स्नानादिकं कृत्वा द्वारपालान् प्रपूज्य च।
प्रविश्य गुप्ते देशे च समाकृष्याथ धारयेत् ।। १ ।।

पूर्वाधिवासितं द्रव्यं वस्त्राभरणगन्धकम्।
निरस्य सर्वनिर्म्माल्यं देवं संस्थाप्य पूजयेत् ।। २ ।।

पञ्चामृतैः कषायैश्च शुद्धगन्धोदकैस्ततः।
पूर्वाधिवासितं दद्याद्वस्त्रं गन्धं च पुष्पकम् ।। ३ ।।

अग्नौ हुत्वा नित्यवच्च देवं सम्प्रार्थयेन्नमेत् ।
समर्प्य कर्म्म देवाय पूजां नैमित्तिकीं चरेत् ।। ४ ।।

द्वारपालविष्णुकुम्भवर्द्धनीः प्रार्थयेद्धरिम्।
अतो देवेति मन्त्रेण मूलमन्त्रेण कुम्भके ।। ५ ।।

कृष्ण कृष्ण नमस्तुभ्यं गृह्णीष्वेदं पवित्रकम्।
पवित्रीकरणार्थाय वर्षपूजाफलप्रदम् ।। ६ ।।

पवित्रकं कुरुष्वाद्य यन्मया दुष्कृतं कृतम्।
शुद्धो भवाम्यहं देव त्वत्प्रसादात् सुरेश्वर ।। ७ ।।

पवित्रञ्च हृदाद्यैस्तु आत्मानमभिषिव्य च।
विष्णुकुम्भञ्च सम्प्रोक्ष्य व्रकजेद्देवसमीपतः ।। ८ ।।

पवित्रमात्मने दद्याद्रक्षआबन्धं विसृज्य च ।
गृहाण ब्रह्मसूत्रञ्च यन्मया कल्पितं प्रभो ।। ९ ।।

कर्म्माणां पूरणार्थाय यथा दोषो न मे भवेत्।
द्वारपालासनगुरुमुख्यानाञ्च पवित्रकम् ।। १० ।।

कनिष्ठादि च देवाय वनमालाञ्च मूलतः।
हृदादिविष्वक्सेनान्ते पवित्राणि समर्पयेत् ।। ११ ।।

वह्नौ हुत्वाग्निवर्त्तिभ्यो विष्णवादिभ्यः पवित्रकम्।
प्रार्च्य पूर्णाहुतिं दद्यात् प्रायश्चित्ताय मूलतः ।। १२ ।।

अष्टोत्तरशतं वापि पञ्चोपनिषदैस्ततः।
मणिविद्रुममालाभिर्म्मन्दारकुसुमादिभिः ।। १३ ।।

इयं सांवत्सरी पूजा तवास्तु गरुडध्वज।
वनमाला यथा देव कौस्तुभं सततं हृदि ।। १४ ।।

तद्वत् पवित्रतन्तूंश्च पूजां च हृदये वह ।
कामतोऽकामतो वापि यत्कृतं नियमार्च्चने ।। १५ ।।

विधिना विध्नलोपेन परिपूर्णे तदस्तु मे।
प्रार्थ्य नत्वा क्षमाप्याथ पवित्रं मस्तकेऽर्प्पयेत् ।। १६ ।।

दत्वा बलिं दक्षिणाभिवैष्णवन्तोषयेद् गुरुम्।
विप्रान् भोजनवस्त्राद्यैर्द्दिवसं पक्षमेव वा ।। १७ ।।

पवित्रं स्नानकाले च अवतार्य्य समर्प्पयेत्।
अनिवारितमन्नाद्यं दद्याद्भुङ्क्तेथ च स्वयम् ।। १८ ।।

विसर्जनेह्नि सम्पूज्य पवित्राणि विसर्ज्जयेत्।
सांवत्सरीमिमां पूजां सम्पाद्य विधिवन्मम ।। १९ ।।

व्रज पवित्रकेदानीं विष्णुलोकं विसर्ज्जितः।
मध्ये सोमेशयोः प्रार्च्च्य विष्वक्सेनं हि तस्य च ।। २० ।।

पवित्राणि समभ्यर्च्य ब्राह्मणाय समर्प्पत्।
यावन्तस्तन्तवस्तस्मिन् पवित्रे परिकल्पिताः ।। २१ ।।

तावद्युगसहस्नाणि विष्णुलोके महीयते।
कुलानां शतमुद्‌धृत्य दश पूर्वान् दशापरान् ।।
विष्णुलोके तु संस्थाप्य स्वयं मुक्तिमवाप्नुयात् ।। २२ ।।

इत्यादिमहापुराणे आग्नेये विष्णुपवित्रारोहणं नाम षट्‌त्रिंशोऽध्यायः।