अथ चतुर्नवत्यधिकशततमोऽध्यायः

अग्निपुराणम्
















अशोकपूर्णिमादिव्रतं

अग्निरुवाच
अशोकपूर्णिमां वक्ष्ये भूधरं च भुवं यजेत् ।
फाल्गुन्यां सितपक्षायां वर्षं स्याद्भुक्तिमुक्तिभाक् ॥१
कार्त्तिक्यान्तु वृषोत्सर्गं कृत्वा नक्तं समाचरेत् ।
शैवं पदमवाप्नोति वृषव्रतमिदं परं ॥२
पित्र्या यामावसी तस्यां पितॄणां दत्तमक्षयं ।
उपोष्याब्दं पितॄनिष्ट्वा निष्पापः स्वर्गमाप्नुयात् ॥३
पञ्चदश्यां च माघस्य पूज्याजं सर्वमाप्नुयात् ।
वक्ष्ये सावित्र्यमावास्याम्भुक्तिमुक्तिकरीं शुभां ॥४
पञ्चदश्यां व्रती ज्यैष्ठे वटमूले महासतीं ।
त्रिरात्रोपोषिता नारी सप्तधान्यैः प्रपूजयेत् ॥५
प्ररूढैः कण्ठसूत्रैश्च रजन्यां कुङ्कुमादिभिः ।
वटावलम्बनं कृत्वा नृत्यगीतैः प्रभातके ॥६
नमः सावित्र्यै सत्यवते नैवेद्यं चार्पयेद्द्विजे ।
वेश्म गत्वा द्विजान् भोज्य स्वयं भुक्त्वा विसर्जयेत् ॥७
सावित्री प्रीयतां देवी सौभाग्यादिकमाप्नुयात् ॥८॥८

इत्याग्नेये महापुराणे तिथिव्रतानि नाम चतुर्नवत्यधिकतशततमोऽध्यायः ॥