अग्निपुराणम्
















अङ्गाक्षरार्च्चनम्सम्पाद्यताम्


अग्निरुवाच
यदा जन्मर्क्षगश्चन्द्रो भानुः सप्तमराशिगः ।
पौष्णः कालः स विज्ञेयस्तदा ग्रासं परीक्षयेत् ।। ३०३.१ ।।

कण्ठेष्ठै चलतः स्थानाद्यस्य वक्रा च नासिका ।
कृष्णा च जिह्वा सप्ताहं जीवितं तस्य वै भवेत् ।। ३०३.२ ।।

तारो मेषो विषं दन्ती नरो दीर्घो घणा रसः ।
क्रुद्धोल्काय महोल्काय वीरोत्लाय शिखा भवेत् ।। ३०३.३ ।।

ह्यल्काय सहसोल्काय वैष्णवोष्टाक्षरो मनुः ।
कनिष्ठादितदष्टानामङ्गुलीनाञ्च पर्वसु ।। ३०३.४ ।।

ज्येष्ठाग्रेण क्रमात्तावन् मूर्द्धन्यष्टाक्षरं न्यसेत् ।
तर्ज्जन्यान्तारमङ्गुष्ठे लग्ने मध्यमया च तत् ।। ३०३.५ ।।

तलेङ्गुष्ठे तदुत्तारं वीजोत्तारं ततो न्यसेत् ।
रक्तगौरधूम्रहरिज्जातरूपाः सितास्त्रथः ।। ३०३.६ ।।

एवं रूपानिमान् वर्णान् भाववुद्धान्न्यसेत् क्रमात् ।
हृदास्यनेत्रमूर्द्धाङ्घ्रितालुगुह्यकरादिषु ।। ३०३.७ ।।

अङ्गानि च न्यसेद्वीजान्न्यस्याथ करदेहयोः ।
यथात्मनि तथा देवेन्यासः सार्य्यः करं विना ।। ३०३.८ ।।

हृदादिस्थानगान् वर्णान् गन्धपुष्पैः समर्च्चयेत् ।
धर्म्माद्यग्न्याद्यधर्मादि गात्रे पीठेऽम्बुजे न्यसेत् ।। ३०३.९ ।।

यत्र केशरकिञ्चल्कव्यापिसूर्य्येन्दुदाहिनां ।
मण्डलन्त्रितयन्तावद् भेदैस्तत्र न्यसेत् क्रमात् ।। ३०३.१० ।।

गुणाश्च तन्त्रसत्वाद्याः केशरम्थाश्च शक्तयः ।
विमलोत्कर्षणीज्ञानक्रियायोगाश्च वै क्रमात् ।। ३०३.११ ।।

प्रह्वी सत्या तथेशानानुग्रहा मध्यतस्ततः ।
योगपीठं समभ्यर्च्य समावाह्य हरिं यजेत् ।। ३०३.१२ ।।

पाद्यार्घ्याचमनीयञ्च पीतवस्त्रविभूषणं ।
योगपीठं समभ्यर्च्य समावाह्य हरिं यजेत् ।। ३०३.१२ ।।

वासुदेवादयः पूज्याश्चत्वारो दिक्षु मूर्त्तयः ।
विदिक्षु श्रईसरस्वत्यै रतिशान्त्यै च पूजयेत् ।। ३०३.१४ ।।

शङ्खं चक्रं गदां पद्मं मुषलं खड्गशार्ङ्गिके ।
वनमालान्वितं दिक्षु विदिक्षु च यजेत् क्रमात् ।। ३०३.१५ ।।

अब्यर्च्य च चवहिस्तार्क्ष्यं देवस्य पुरतोऽर्च्चयेत् ।
विश्वक्सेनञ्च सोमेशं मध्ये आवरणाद्वहिः ।। ३०३.१६ ।।

इन्द्रादिपरिचारेण पूज्य सर्व्वमवाप्नुयात् ।। ३०३.१७ ।।

इत्यादिमहापुराणे आग्नेये अङ्गाक्षरार्च्चनं नाम त्र्यधिकत्रिशततमोऽध्यायः ।।