अखण्डद्वादशीव्रतं
अग्निपुराणम्
















अग्निरुवाच
अखण्डद्वादशीं वक्ष्ये व्रतसम्पूर्णताकृतं ।१९०.००१
मार्गशीर्षे सिते विष्णुं द्वादश्यां समुपोषितः ॥१९०.००१
पञ्चगव्यजले स्नातो यजेत्तत्प्राशनो व्रती ।१९०.००२
यवव्रीहियुतम्पात्रन्द्वादश्यां हि द्विजेऽर्पयेत् ॥१९०.००२
सप्तजन्मनि यत्किञ्चिन्मया खण्डं व्रतं कृतं ।१९०.००३
भगवंस्त्वत्प्रसादेन तदखण्डमिहास्तु मे ॥१९०.००३
यथाखण्डं जगत्सर्वं त्वमेव पुरुषोत्तम ।१९०.००४
तथाखिलान्यखण्डानि व्रतानि मम सन्तु वै ॥१९०.००४
एवमेवानुमासञ्च चातुर्मास्यो विधिः स्मृतः ।१९०.००५
अन्यच्चैत्रादिमासेषु शक्तुपात्राणि(१) चार्पयेत् ॥१९०.००५
श्रावणादिषु चारभ्य कार्त्तिकान्तेषु पारणं ।१९०.००६
सप्तजन्मसु वैकल्यं व्रतानां सफलं कृते ॥१९०.००६
आयुरारोग्यसौभाग्यराज्यभोगादिमाप्नुयात्(२) ।१९०.००७

इत्याग्नेये महापुराणे अखण्डद्वादशीव्रतं नाम नवत्यधिकशततमोऽध्यायः ॥

टिप्पणी
१ स्वर्णपात्राणि इति ख.. , घ.. , ञ.. च
२ अग्निरुवाच । अखण्डद्वादशीं वक्ष्ये इत्यादिः, राज्यभोगादिमाप्नुयादित्यन्तः पाठः झ.. पुस्तके नास्ति