अग्निपुराणम्
















अव्ययवर्गाःसम्पाद्यताम्

अग्निरुवाच
आङीषदर्थेऽभिव्याप्तौ सीमार्थे धातुयोगजे ।
आ प्रगृह्यः स्मृतौ वाक्येऽप्यास्तु स्यात् कोपपीड़योः ।। ३६१.१ ।।

पापकुत्‌सेषदर्थे कु धिग्‌जुगुप्सननिन्दयोः ।
चान्वाचयसमाहारेतरेतरसमुच्चये ।। ३६१.२ ।।

स्वस्त्याशीः क्षएमपुण्यादौ प्रकर्षे लङ्घनेऽप्यति ।
स्वित्प्रश्ने च वितर्के च तु स्याद् भेदेऽवधारणे ।। ३६१.३ ।।

सकृत्सहैकवारे स्यादाराद्‌दूरसमीपयोः ।
प्रतीच्यां चरमे पश्चादुताप्यर्थविकल्पयोः ।। ३६१.४ ।।

पुनःसदार्थयोः शश्वत् साक्षात् प्रत्यक्षतुल्ययोः ।
खेदानुकम्पासन्तोषविस्मयामन्त्रणे वत ।। ३६१.५ ।।

हन्त हर्षेऽनुकम्पायां वाक्यारम्भविषादयोः ।
प्रति प्रतिनिधौ वीप्सालक्षणादौ प्रयोगतः ।। ३६१.६ ।।

इति हेतौ प्रकरणे प्रकाशादिसमाप्तिषु ।
प्राच्यां पुरस्तात् प्रथमे पुरार्थेऽग्रत इत्यपि ।। ३६१.७ ।।

यावत्तावच्च साकल्येऽवधौ मानेऽवदारणे ।
मङ्गलानन्तरारम्भप्रश्नकार्त्स्नेष्वऽथोथ च ।। ३६१.८ ।।

वृथा निरर्थकाविध्योर्नानाऽनेकोभयार्थयोः ।
नु पृच्छायां विकल्पे च पश्चात्सादृश्ययोरनु ।। ३६१.९ ।।

प्रश्नावधारणानुज्ञाऽनुनयामन्त्रणे ननु ।
गर्हासमुच्चयप्रश्नशङ्कासम्भावनास्वऽपि ।। ३६१.१० ।।

उपमायां विकल्पे वा सामि त्वर्द्धे जुगुप्सिते ।
अमा सह समीपे च कं वारिणि च मूद्‌र्धनि ।। ३६१.११ ।।

इवेत्थमर्थयोरेवं नूनं तर्क्केऽर्थनिश्चये ।
तूष्णीमर्थे सुखे जोषं किम्पृच्छायां जुगुप्सने ।। ३६१.१२ ।।

नाम प्राकाश्यसम्भाव्यक्रोधोपगमकुत्सने ।
अलं भूषणपर्य्याप्तिशक्तिवारणवाचकम् ।। ३६१.१३ ।।

हुं वितर्क्के परिप्रश्ने समयाऽन्तिकमध्ययोः ।
पुनरप्रथमे भेदे निनिश्चयनिषेधयोः ।। ३६१.१४ ।।

स्यात्प्रबन्धे चिरातीते निकटागामिके पुरा ।
उरर्थुरी चीररी च विस्तारेऽङ्गीकृते त्रयम् ।। ३६१.१५ ।।

स्वर्गे परे च लोके स्वर्वार्त्तासम्भावयोः किल ।
निषेधवाक्यालङ्कारे जिज्ञासावसरे१ खलु ।। ३६१.१६ ।।

समीपोभयतः शीघ्रसाकल्याभिमुखेऽभितः ।
नामप्रकाशयोः प्रादुर्मिथोऽन्योन्यं रहस्यपि ।। ३६१.१७ ।।

तिरोऽन्तर्द्धौ तिर्यगर्थे हा विषादशुगर्त्तिषु ।
अहहेत्यद्‌भुते खेदे हि हेताववधारणे ।। ३६१.१८ ।।

चिराय चिररात्राय चिरस्याद्याश्चिरार्थकाः ।
मुहुः पुनः पुनः शश्वद भीक्षणमसकृत् समाः ।। ३६१.१९ ।।

स्राग्ज्ञटित्यञ्जसाह्राय सपदि द्राङ्‌मङ्क्षु च द्रुते ।
बलवत् सुष्ठु किमुत विकल्पे किं किमूत च ।। ३६१.२० ।।

तु हि च स्म ह वै पादपूरणे पूजनेप्यति ।
दिवाह्नीत्यथ दोषा च नक्तञ्च रजनाविति ।। ३६१.२१ ।।

तिर्यगर्थे साचि तिरोऽप्यथ सम्बोधनार्थकाः ।
स्युः प्याट्‌पाडङ्ग हे है भोः समया निकषा हिरुक् ।। ३६१.२२ ।।

अतर्किते तु सहसा स्यात् पुरः पुरतोऽग्रतः ।
स्वाहा देवहविर्दाने श्रौषट् वौषट् वषट् स्वधा ।। ३६१.२३ ।।

किञ्चिदीषन्मनागल्पे प्रेत्याऽमुत्र भवान्तरे ।
यथा तथा चैव साम्ये अहो ही इति विस्मये ।। ३६१.२४ ।।

मौने तु तूष्णीं तूष्णीकं सद्यः सपदि तत्क्षणे ।
दिष्ट्या शमुपयोषञ्चेत्यानन्देऽथान्तरेऽन्तरा ।। ३६१.२५ ।।

अन्तरेण च मध्ये स्युः प्रसह्य तु हठार्थकम् ।
युक्ते द्वे साम्प्रतं स्थानेऽभीक्ष्‌णं शश्वदनारते ।। ३६१.२६ ।।

अभावे नह्यनो नापि मास्म मालञ्च वारणे ।
पक्षान्तरे चेद्यदि च तत्त्वे त्वऽद्धाऽञ्चसा द्वयम् ।। ३६१.२७ ।।

प्राकाश्ये प्रादुराविः स्यादोमेवं परमं मते ।
समन्ततस्तु परितः सर्वतो विश्वगित्यपि ।। ३६१.२८ ।।

अकामानुमतौ काममसूयोपगमेऽस्तु च ।
ननु च स्याद्विरोधोक्तौ क्कच्चित् कामप्रवेदने ।। ३६१.२९ ।।

निःषमं दुःषमं गर्ह्ये यथास्वलन्तु यथायथं ।
मृषा मिथ्या च वितथे यथार्थन्तु यथातथं ।। ३६१.३० ।।

स्युरेवन्तु पुनर्वैवेत्यवधारणवाचकाः ।
प्रागतीतार्थकं नूनमवश्यं निश्चये द्वयं ।। ३६१.३१ ।।

संवद्वर्षेऽवरे त्वर्वागामेवं स्वयमात्मना ।
अल्पे नीचैर्महत्युच्चैः प्रायोभूम्न्यऽद्रुते शनैः ।। ३६१.३२ ।।

सना नित्ये वहिर्वाह्ये स्मातीतेऽस्तमदर्शने ।
अस्ति सच्चवे रुषोक्तावूमुं प्रश्नेऽनुनये त्वयि ।। ३६१.३३ ।।

हूं तर्के स्यादुषा रात्रेकरवसाने नमो नतौ ।
पुनरर्थेऽङ्गनिन्दायां दुष्ठु सुष्ठु प्रशंसने ।। ३६१.३४ ।।

सायं साये प्रगे प्रातः प्रभाते निकषाऽन्तिके ।
परुत्परार्य्यैषमोऽब्दे पूर्वे पूर्वतरे यति ।। ३६१.३५ ।।

अद्यात्राह्न्यऽथ पूर्वलह्नीत्यदौ पूर्वोत्तरा परात् ।
तथाऽधरान्यान्यतरेतरात्पूर्व्वोदुरादयः ।। ३६१.३६ ।।

उभयद्युश्चोभयेद्युः परे त्वह्नि परेद्यवि ।
ह्यो गतेऽनागतेऽह्नि स्वः परश्वः श्वः परेऽहनि ।। ३६१.३७ ।।

तदा तदानीं युगपदेकदा सर्वदा सदा ।
पतर्हि सम्प्रतीदानीमधुना साम्प्रतन्तथा ।। ३६१.३८ ।।

इत्यादिमहापुराणे आग्नेये अव्ययवर्गानाम एकषष्ट्यथिकत्रिशततमोऽध्यायः॥