अग्निपुराणम्
















गजचिकित्सासम्पाद्यताम्

पालकाप्य उवाच
गजलक्षअम चिकित्साञ्च लोमपाद वदामि ते ।
दीर्घहस्ता महोच्छ्‌वासाः प्रशस्तास्ते सहिष्णवः ।। २८७.१ ।।

विंशत्यष्टादशनखाः शीतकालमदाश्च ये ।
दक्षिणञ्चोन्नतन्दन्तं वृंहितं जलदोपमं ।। २८७.२ ।।

कर्णौ च विपुलौ येषां सूक्ष्मविन्द्वन्वितत्वचौ ।
ते धार्य्या न तथा धार्य्या वामना ये च सङ्कुशाः२ ।। २८७.३ ।।

हस्तिन्यः पार्श्वगर्भिण्यो ये च मूढा मतङ्गजाः ।
वर्णं सत्वं बलं रूपं कान्तिः संहननञ्जवः ।। २८७.४ ।।

सप्तस्थितो गजश्वेदृक् सङ्‌ग्रामेरीञ्जयेत्स च ।
कुञ्जराः परमा शोभा शिविरस्य बलस्य च ।। २८७.५ ।।

आयत्तं कुञ्जरैश्चैव विजयं पृथिवीक्षितां ।
पाकलेषु च सर्वेषु कर्त्तव्यमनुवासनं ।। २८७.६ ।।

घृततैलपरीपाकं स्थानं वातविवर्जितं ।
स्कन्धेषु च क्रिया कार्य्या तथा पालकवन्नृपाः ।। २८७.७ ।।

गोमूत्रं पाण्डुरोगेषु रजनीभ्यां घृतन्द्विज ।
आनाहे तैलसिक्तस्य निषेकस्तस्य शस्यते ।। २८७.८ ।।

लवणैः पञ्चभिर्म्मिश्रा प्रतिपानाय वारुणी ।
विडङ्गत्रिफलाव्योषसैन्धवैः कवलान् कृतान् ।। २८७.९ ।।

मृर्च्छासु भोजयेन्नागं क्षौद्रन्तोयञ्च पाययेत् ।
अब्यङ्ग शिरसः शुले नस्यञ्चैव प्रशस्यते ।। २८७.१० ।।

नागानां स्नेहपुटकः पादरोगानुपक्रमेत् ।
पश्चात् कल्ककषायेण शोधनञ्च विधीयते ।। २८७.११ ।।

शिखितित्तिरिलावानां पिप्पलीमरिचान्वितैः ।
रसैः सम्भोज्येन्नागं वेपथुर्यस्य जायते ।। २८७.१२ ।।

बालविल्वं तथा लोध्रं धातकी सितया सह ।
अतीसारविनाशाय पिण्डीं भुञ्जीत कुञ्जरः ।। २८७.१३ ।।

नस्यं करग्रहे देयं घृतं लवणसंयुतम् ।
मागधीनागराजाजीयवागूर्मुस्तसाधिता ।। २८७.१४ ।।

उत्कर्णके तु दातव्या वारहञ्च तथा रसम् ।
दशमूलकुलत्थाम्लकाकमाचीविपाचितम् ।। २८७.१५ ।।

तैलमूषणसंयुक्तं गलग्रहगदापहम् ।
अष्टभिर्लवणैः पिष्टैः प्रसन्नाः पाययेद्घृतम् ।। २८७.१६ ।।

मूत्रभङ्गेऽथ वा वीजं क्कथितं त्रपूषस्य च ।
त्वग्दोषेषु पिवेन्निम्बं वृषं वा क्कथितं द्विपः ।। २८७.१७ ।।

गवां मूत्रं विड़ङ्गानि कृमिकोष्ठेषु शस्यते ।
श्रृङ्गवेरकणाद्राक्षाशर्कराभिः श्रृतं पयः ।। २८७.१८ ।।

क्षतक्षयकरं पानं तथा मांसरसः शुभः ।
मुद्‌गोदनं व्योषयुतमरुचौ तु प्रशस्यते ।। २८७.१९ ।।

त्रिवृद्व्योषाग्निदन्त्यर्कश्यामाक्षीरे भपिप्पली ।
एतैर्गुल्महरः स्नेहः कृतश्चैव तथापरः ।। २८७.२० ।।

भेदनद्रावणाभ्यङ्गस्नेहपानानुवासनैः ।
सर्वानेव समुत्पन्नान् विद्रवान् समुपाहरेत् ।। २८७.२१ ।।

यष्टिकं मुद्‌गसूपेन शारदेन तथा पिवेत् ।
बालविल्वैस्तथा लेपः कटुरोगेषु शस्यते ।। २८७.२२ ।।

विडङ्गेन्द्रयवौ हिङ्गु सरलं रजनीद्वयम् ।
पूर्वाह्णे पाययेत् पिण्डात् पिण्डान् सर्वशूलोपशान्तये ।। २८७.२३ ।।

प्रधानभोजने तेषां यष्टिकब्रीहिशालयः ।
मध्यमौ यवगोधूमौ यवगोधूमौ शेषा दन्तिनि चाधमाः ।। २८७.२४ ।।

यवश्चैव तथैवेक्षुर्नागानां बलवर्द्धनः ।
नागानां यवसं शुष्कं तथा धातुप्रकोपणं ।। २८७.२५ ।।

मदक्षीणस्य नागस्य पयःपानं प्रशस्यते ।
दीपनीयैस्तथा द्रव्यैः श्रृतो मांसरसः शुभः ।। २८७.२६ ।।

चायसः कुक्कुरश्चोभौ काकोलूककुलो हरिः ।
भवेत् क्षौद्रेण संयुक्तः पिण्डो युद्धे महापदि४ ।। २८७.२७ ।।

कटुमत्स्यविड़ङ्गानि क्षारः कोषातकी पयः ।
हरिद्राचेति धूपोयं कुञ्जरस्य जयावहः ।। २८७.२८ ।।

पिप्पलीतण्डुलास्तैलं माध्वीकं माक्षइकम् तथा ।
नेत्रयोः परिषेकोयं दीपनीयः प्रशस्यते ।। २८७.२९ ।।

पुरीषञ्जतनेत्रस्तु तथा पारावतस्य च ।
क्षीरवृक्षकरीषाश्च प्रसन्नायेष्टमञ्जनं ।। २८७.३० ।।

अनेनाञ्जिनेत्रस्तु करोति कदनं रणे ।
उत्‌पलानि च नीलानि सुस्तन्तगरमेव च ।। २८७.३१ ।।

तण्डुलोदकपिष्टानि नेत्रनिर्वापनं परम् ।
नखवृद्धौ नखच्छेदस्तैलसेकश्च मास्यपि ।। २८७.३२ ।।

शय्यास्थानं भवेच्चास्य करीषैः पांशुभिस्तथा ।
शरन्निदाघयोः सेकः सर्पिषा च तथेष्यते ।। २८७.३३ ।।

इत्यादिमहापुराणे आग्नेये गजचिकित्सा नाम सप्ताशीत्यधिकद्विशततमोऽध्यायः ।।