अग्निपुराणम्
















देवपूजावैश्वदेवबलिः

सम्पाद्यताम्


पुष्कर उवाच
देवपूजादिकं कर्म वक्ष्ये चोत्पातमर्दनम् ।
आपोहिष्ठेति तिसृभिः स्नातोऽर्घ्यं विष्णवेर्पयेत् ।। २६४.१ ।।

हिरण्यवर्णा इति च पाद्यञ्च तिसृभिर्द्विज ।
शन्न आपो ह्याचमनमिदमापोऽभिषेचनं ।। २६४.२ ।।

रथे अक्षे च तिसृभिर्गन्धं युवेति वस्त्रकं ।
पुष्पं पुष्पवतीत्येवं धूपं धूपोसि चाप्यथ ।। २६४.३ ।।

तेजोसि शुक्रं दीपं स्यान्मधुपर्कं दधीति च ।
हिरण्यगर्भ इत्यष्टावृचः प्रोक्ता निवेदने ।। २६४.४ ।।

अन्नस्य मनुजश्रेष्ठ पानस्य च सुगन्धिनः ।
चामरव्यजनोपानच्छत्रं यानासने तथा ।। २६४.५ ।।

यत् किञ्चिदेवमादि स्यात्सावित्रेण निवेदयेत् ।
पौरुषन्तु जपेत् सूक्तं तदेब जुहुयात्तथा ।। २६४.६ ।।

अर्च्चाभावे तथा वेद्याञ्जले पूर्णघटे तथा ।
नदीतीतरेऽथ कमले शान्तिः स्याद्विष्णुपूजनात् ।। २६४.७ ।।

ततो होमः प्रकर्त्तव्यो दीप्यमाने विभावसौ ।
परिसम्मृज्य पर्य्युक्ष्य परिस्तीर्य्य परिस्तरैः ।। २६४.८ ।।

सर्व्वान्नाग्रं समुद्‌धृत्य जुहुयात् प्रयतस्ततः ।
वासुदेवाय देवाय प्रभवे चाव्ययाय च ।। २६४.९ ।।

अग्नये चैव सोमाय मित्राय वरुणाय च ।
इन्द्राय च महाभाग इन्द्राग्निभ्यां तथैव च ।। २६४.१० ।।

विश्वेभ्यशचैव देवेब्यः प्रजानां पतये नमः ।
अनुमत्यै तथा राम धन्वन्तरय एव च ।। २६४.११ ।।

वास्तोष्पत्यै ततो देव्यै ततः स्विष्टिकृतेऽग्नये ।
सच्तुर्थ्यन्तनाम्ना तु हुत्वैतेब्यो बलिं हरेत् ।। २६४.१२ ।।

तक्षोपतक्षमभितः पूर्वेणाग्निमतः परम् ।
अश्वानामपि धर्मज्ञ ऊर्णानामानि चाप्यथ ।। २६४.१३ ।।

निरुन्धी धूम्रिणीका च अस्वपन्ती तथैव च ।
मेघपत्नी च नामानि सर्व्वेषामेव भार्गव ।। २६४.१४ ।।

आग्नेयाद्याः क्रमेणाथ ततः शक्तिषु निक्षिपेत् ।
नन्दिन्यै च सुभाग्यै च सुमङ्गल्यै च भार्गव ।। २६४.१५ ।।

भद्रकाल्यै ततो दत्वा स्थूणायाञ्च तथा श्रिये ।
हिरणअयकेश्यै च तथा वनस्पतय एव च ।। २६४.१६ ।।

धर्म्माधर्ममयौ द्वारे गृहमध्ये ध्रुवाय च ।
मृत्यवे च बहिर्दद्याद्वरुणायोदकाशये ।। २६४.१७ ।।

भूतोभ्यश्च बहिर्द्दद्याच्छरणे धनदाय च ।
इन्द्रायेन्द्रपुरुषेभ्यो दद्यात् पूर्वेण मानवः ।। २६४.१८ ।।

यमाय तत् पुरुषेभ्यो दद्याद्दक्षिणतस्तथा ।
वरुणाय तत्पुरुषेभ्यो दद्यात्पश्चिमतस्तथा ।। २६४.१९ ।।

सोमाय सोमपुरुषेभ्य उदग्दद्यादनन्तरं ।
ब्रह्मणे ब्रह्मपुरुषेभ्यो मध्ये दद्यात्तथैव च ।। २६४.२० ।।

आकाशे च तथा चोद्‌र्ध्वे स्थण्डिलाय क्षितौ तथा ।
दिवा दिवाचरेभ्यश्च रात्रौ रात्रिचरेषु च ।। २६४.२१ ।।

बलिं बहिस्तथा दद्यात्सायं प्रातस्तु प्रत्यहं ।
पिण्डनिर्वपणं कुर्य्यात् प्रातः सायं न कारयेत् ।। २६४.२२ ।।

पित्रे तु प्रथमं दद्यात्तत्पित्रे तदनन्तरम् ।
प्रतिपामहाय तन्मात्रे पितृमात्रे ततोऽर्पयेत् ।। २६४.२३ ।।

तन्मात्रे दक्षिणाग्रेषु कुशेष्वेवं यज्ते पितृन् ।
इन्द्रवारुणवायव्या याम्या वा नैर्ऋताश्च ये ।। २६४.२४ ।।

ते काकाः प्रतिगृह्णन्तु इमं पिण्डं मयोद्धृतम् ।
काकपिण्डन्तु मन्त्रेण शुनः पिण्डं प्रदापयेत् ।। २६४.२५ ।।

विवस्वतः कुले जातौ द्वौ श्यावशबलौ शुनौ ।
तेषां पिण्डं प्रदास्यामि पथि रक्षन्तु मे सदा ।। २६४.२६ ।।

सौरभेय्यः६ सर्वहिताः पवित्राः पापनाशनाः७ ।
प्रतिगृह्लन्तु मे ग्रासं गावस्त्रैलोक्यमातरः ।। २६४.२७ ।।

गोग्रासञ्च स्वस्त्ययनं कृत्वा बिक्षां प्रदापयेत् ।
अतिथीन्दीनान् पूजयित्वा गृही भुञ्जीत च स्वयं ।। २६४.२८ ।।

ओं भूः स्वाहा ओं भुवः स्वाहा ओं स्वः स्वाहा ओं भूर्भुवः स्वः स्वाहा ।

ओं देवकृतस्यैनसोऽवयकजनमसि स्वाहा ।
ओं पितृकृतस्यैनसोऽवयकजनमसि स्वाहा ।।

ओं आत्मकृतस्यैनसोऽवयजनमसि स्वाहा ।
ओं मनुष्यकृतस्यैनसोऽवयजनमसि स्वाहा ।।

ओं एनस एनसोऽवयजनमसि स्वाहा ।
यच्चाहमेनो विद्वाश्चकार यच्चाविद्वांस्तस्य ।।

सर्वस्यैनसोऽवयजनमसि स्वाहा।
अग्नेये स्विष्टिकृते स्वाहा ।
ओं प्र्जापतये स्वाहा ।।

विष्णुपूजावैश्वदेवबलिस्ते कीर्त्तितो मया ।

इत्यादिमहापुराणे आग्नेये देवपूजावैश्वदेवबलिर्नाम चतुःषष्ट्यधिकद्विशततमोऽध्यायः ।।