अग्निपुराणम्
















अथ षष्ट्यधिकशततमोऽध्यायः

वानप्रस्थाश्रमः

पुष्कर उवाच
वानप्रस्थयतीनाञ्च(२) धर्मं वक्ष्येऽधुना शृणु ।१६०.००१
जटित्वमग्निहोत्रित्वं भूशय्याजिनधारणं ॥१६०.००१
वने वासः पयोमूलनीवारफलवृत्तिता ।१६०.००२
प्रतिग्रहनिवृत्तिश्च त्रिःस्नानं ब्रह्मचारिता ॥१६०.००२
देवातिथीनां पूजा च धर्मोऽयं वनवासिनः ।१६०.००३
टिप्पणी
१ औषधादीति क..
२ यतीनान्तु इति ङ..

गृही ह्यपत्यापत्यञ्च दृष्ट्वारण्यं(१) समाश्रयेत् ॥१६०.००३
तृतीयमायुषो भागमेकाकी वा सभार्यकः ।१६०.००४
ग्रीष्मे पञ्चतपा नित्यं वर्षास्वभ्राविकाशिकः ॥१६०.००४
आर्द्रवासाश्च हेमन्ते तपश्चोग्रञ्चरेद्बली(२) ।१६०.००५
अपरावृत्तिमास्थाय व्रजेद्दिशमजिह्मगः(३) ॥१६०.००५
टिप्पणी
१ दृष्ट्वावश्यमिति ङ..
२ तपश्चोग्रं वने चरेदिति ङ..
३ भजेद्दिशमजिम्हग इति ङ..

इत्याग्नेये महापुराणे वानप्रस्थाश्रमो नाम षष्ट्यधिकशततमोऽध्यायः ॥