← अध्यायः २४८ अग्निपुराणम्
अध्यायः २४९
वेदव्यासः
अध्यायः २५० →
अग्निपुराणम्
















धनुर्वेदःसम्पाद्यताम्

अग्निरुवाच
चतुष्पादं धनुर्वेदं वदे पञ्चविधं द्विज ।
रथनागाश्वपत्तीनां योधांश्चाश्रित्य कीर्त्तितं ।। २४९.१ ।।

यन्त्रमुक्तं पाणिमुक्तं मुक्तसन्धारितं तथा ।
अमुक्तं बाहुयुद्धञ्च पञ्चधा तत् प्रकीर्त्तितं ।। २४९.२ ।।

तत्र शस्त्रास्त्रसम्पत्त्या द्विविंधं परिकीर्त्तितं ।
ऋजुमायाविभेदेन भूयो द्विविधमुच्यते ।। २४९.३ ।।

क्षेपणी चापयन्त्राद्यैर्यन्त्रमुक्तं प्रकीर्त्तितं ।
शिलातोमरयन्त्राद्यं पाणिमुक्तं प्रकीर्त्तितं ।। २४९.४ ।।

मुक्तसन्धारितं ज्ञेयं प्रासाद्यमपि यद्भवेत् ।
खड्‌गादिकममुक्तञ्च नियुद्धं विगतायुधं ।। २४९.५ ।।

कुर्य्याद्योग्यानि प्रात्राणि योद्‌धुमिच्छुर्ज्जितश्रमः ।
धनुःश्रेष्ठानि युद्धानि प्रासमध्यानि तानि च ।। २४९.६ ।।

तानि खड्‌गजघन्यानि बाहुप्रत्यवराणि च ।
धनुर्वेदे गुरुर्विप्रः प्रोक्तो वर्णद्वयस्य च ।। २४९.७ ।।

युद्धाधिकारः शूद्रस्य स्वयं व्यापादि शिक्षया ।
देशस्थैः शङ्गरै राज्ञः कार्य्या युद्धे सहायता ।। २४९.८ ।।

अह्गुष्ठगुल्फपाण्यङ्‌घ्र्यः श्लिष्टः स्युः सहिता यदि ।
दृष्टं समपदं स्थानमेतल्लक्षणतस्तथा ।। २४९.९ ।।

वाह्याङ्गुलिस्थितौ पादौ स्तब्धजानुबलावुभौ ।
त्रिवतस्त्यन्तरास्थानमेतद्वैशाखमुच्यते ।। २४९.१० ।।

हंसपङ्‌क्त्याकृतिसमे दृश्येते यत्र जानुनी ।
चतुर्वितस्तिविच्छिन्ने तदे तन्मण्डलं स्मृतं ।। २४९.११ ।।

हलाकृतिमयं यच्च स्तब्धजानूरुदक्षिणं ।
वितस्त्यः पञ्च चविस्तारे तदालीढं प्रकीर्त्तितं ।। २४९.१२ ।।

एतदेव विपर्य्यस्तं प्रत्यालीढमिति स्मृतं ।
तिर्य्यग्भूतो भवेद्वामो दक्षिणोऽपि भवेदृजुः ।। २४९.१३ ।।

गुल्फौ पार्ष्णिग्रहौ चैव स्थितौ पञ्चाङ्गुलान्त्रौ ।
स्थानं जातं भवेदेतद् द्वादशाङ्गुलमायतं ।। २४९.१४ ।।

ऋजुजानुर्भवेद्वामो दक्षिणः सुप्रसारितः ।
अथवा दक्षइणञ्जानु कुब्जं भवति निश्चलं ।। २४९.१५ ।।

दण्डायतो भवेदेष चरणः सह जानुना ।
एवं विकटमुद्दिष्टं द्विहस्तान्तरमायतं ।। २४९.१६ ।।

जानुनी द्विगुणे स्यातामुत्तानौ चरणावुभौ ।
अनेन विधियोगेन सम्पुटं परिकीर्त्तितं ।। २४९.१७ ।।

किञ्चिद्विवर्त्तितौ पादौ समदण्डायतौ स्थिरौ ।
दृष्टमेव यथान्यायं षोडशाङ्गुलमायतं ।। २४९.१८ ।।

स्वस्तिकेनात्र कुर्वीत प्रणामं प्रथमं द्विज ।
कार्मुकं गृह्य वामेन वामणं दक्षिणकेन तु ।। २४९.१९ ।।

वैशाखे यदि वा जाते स्थितौ वाप्यथवायतौ ।
गुणान्तन्तु ततः कृत्वा कार्मके प्रियकार्मुकः ।। २४९.२० ।।

अधः कटिन्तु धनुषः फलदेशन्तु पत्रिणः ।
धरण्यां स्थापयित्वा त तोलयित्वा तथैव च ।। २४९.२१ ।।

भुजाब्यामत्र कुब्जाभ्यां प्रकोष्ठाभ्यां शुभव्रत ।
यस्य वाणं धनुः श्रेष्ठं पुङ्खदेशे च पत्रिणः ।। २४९.२२ ।।

विन्यासो धनुषश्चैव द्वादशङ्गुलमन्तरं ।
ज्यया विशिष्टः कर्त्तव्यो नातिहीनो न चाधिकः ।। २४९.२३ ।।

निवेश्य कार्मुकं नाभ्यां नितम्बे शरसङ्करं ।
उत्क्षिपेदुत्थितं हस्तमन्त्रेणाक्षिकर्णयोः ।। २४९.२४ ।।

पूर्वेण मुष्टिना ग्राह्यस्तनाग्रे दक्षिणे शरः ।
हरणन्तु ततः कृत्वा शीघ्रं पूर्वं प्रसारयेत् ।। २४९.२५ ।।

नाभ्यन्तरा नैव वाह्या नोद्‌र्ध्वका नाधरा तथा ।
न च कुब्जा न चोत्ताना न चला नातिवेष्टिता ।। २४९.२६ ।।

समा स्थैर्य्यगुणोपेता पूर्वदण्डमिव स्थिता ।
छादयित्वा ततो लक्ष्यं पूर्व्वेणानेन मुष्टिना ।। २४९.२७ ।।

उरसा तूत्थितो यन्ता त्रिकोणविनतस्थितः ।
स्रस्तांशे निश्चलग्रीवो मयूराञ्चितमस्तकः ।। २४९.२८ ।।

ललाटनासावक्त्रांसाः कुर्य्युरश्वसमम्भवेत् ।
अन्तरं त्र्यङ्गुलं ज्ञेयं चिवुकस्यांसकस्य च ।। २४९.२९ ।।

प्रथमन्त्रयङ्गुलं ज्ञेयं द्वितीये द्व्यङ्गुलं स्मृतं ।
तृतीयेऽङ्गुलमुद्दिष्टमायतञ्चिवुकांसयोः ।। २४९.३० ।।

गृहीत्वा सायकं पुङ्खात्तर्ज्जन्याङ्गुष्ठकेन तु ।
अनामया पुनर्गृह्य तथा मध्यमयापि च ।। २४९.३१ ।।

तावदाकर्षयेद्वेगाद्यावद्वाणः सुपूरितः ।
एवं विधमुपक्रम्य मोक्तव्यं विधिवत् खगं ।। २४९.३२ ।।

दृष्टिमुष्टिहतं लक्ष्यं भिन्द्याद्वाणेन सुव्रत ।
मुक्वा तु पश्चिमं हस्तं क्षिपेद्वेगेन पृष्ठतः ।। २४९.३३ ।।

एतदुच्छेदमिच्छन्ति ज्ञातव्यं हि त्वया द्विज ।
कर्पूरन्तदधः कार्य्यमाकृष्य तु धनुष्मता ।। २४९.३४ ।।

ऊद्‌र्ध्वं विमुक्तके कार्ये लक्षश्लिष्टन्तु मध्यमं ।
श्रेष्ठं प्रकृष्टं विज्ञेयं धनःशास्त्रविशारदैः ।। २४९.३५ ।।

ज्येष्ठस्तु सायको ज्ञेयो भवेद्‌द्वादशमुष्टयः ।
एकादश तथा मध्यः कनीयान्दशमुष्टयः ।। २४९.३६ ।।

चतुर्हस्तं धनुः श्रेष्ठं त्रयः साद्‌र्धन्तु मध्यमं ।
कनीयस्तु त्रयः प्रोक्तं नित्यमेव पदातिनः ।। २४९.३७ ।।

अश्वे रथे गजे श्रेष्ठे तदेव परिकीर्त्तितं ।

इत्यादिमहापुराणे आग्नेये धनुर्वेदो नाम ऊनपञ्जाशदधिकद्विशततमोऽध्यायः ।।