अग्निपुराणम्
















अग्निस्थापनादिप्रतिष्ठाकथनम्सम्पाद्यताम्

ईश्वर उवाच
अर्घपात्रकरो यायादग्न्यागारं सुसंवृतः।
यागोपकरणं सर्वं दिव्यदृष्ट्या च कल्पयेत् ।। १ ।।

उदङ्‌मुखः कुण्डमीक्षेत् प्रोक्षणं ताडनं कुशैः।
विदध्यादस्त्रमन्त्रेण वर्म्मणाभ्युक्षणं मतं ।। २ ।।

खड्गेन खातमुद्धारं पूरणं समतामपि।
कुर्वीत वर्म्मणा सेकं कुट्टनन्तु शरात्मना ।। ३ ।।

सम्मार्ज्जनं समालेपं कलारूपप्रकल्पनम्।
त्रिसूत्रीपरिधानं च वर्म्मणाभ्यर्च्चनं सदा ।। ४ ।।

रेखात्रयमुदक् कुर्य्यादेकां पूर्वाननामधः।
कुशेन च शिवास्त्रेण यद्वा तासां विपर्य्ययः ।। ५ ।।

वज्रीकरणमन्त्रेण हृदा दर्भेश्चतुष्पथम्।
अक्षपात्रन्ततनुत्रेण विन्यसेद्विष्टरं हृदा ।। ६ ।।

हृदा वागीश्वरीं तत्र ईशमावाह्य पूजयेत्।
वह्निं सदाश्रयानीतं शुद्धपात्रोपरिस्थितम् ।। ७ ।।

क्रव्यादांशंपरित्यज्य वीक्षणादिविशोधितम्।
औदर्य्यं चैन्दवं भौतं एकीकृत्यानलत्रयम् ।। ८ ।।

ओं हूं वह्निचैतन्याय वह्निवीजेन विन्यसेत्।
संहितामन्त्रितं वह्नि धेनुमुद्रामृतीकृतम् ।। ९ ।।

रक्षितं हेतिमन्त्रेण कवचेनावगुण्ठितम्।
पूजितन्त्रिः परिभ्राम्य कुण्डस्योद्‌र्ध्वं प्रदक्षिणम् ।। १० ।।

शिववीजमिति ध्यात्वा वागीशागर्भगोचरे।
वागीश्वरेण देवेन क्षिप्यमानं विभावयेत् ।। ११ ।।

भूमिष्ठजानुको मन्त्री हृदात्मसम्मुखं क्षिपेत्।
ततोऽन्तस्थितवीजस्य नाभिदेशे समूहम् ।। १२ ।।

सम्भृतिं परिधानस्य शौचमाचमनं हृदा।
गर्भाग्नेः पूजनं कृत्वा तद्रक्षार्थं शराणुना ।। १३ ।।

वध्नीयाद्गर्भजं देव्याः ककङ्कणं पाणिपल्लवे।
गर्भाधानाय सम्पूज्य सद्योजातेन पावकम् ।। १४ ।।

ततो हृदयमन्त्रेण जुहुयादाहुतित्रयम्।
पुंसवनाय वामेन तृतीये मासि पूजयेत् ।। १५ ।।

आहुतित्रितयं दद्याच्छिरसाम्बुकणान्वितं।
सीमन्तोन्नयनं षष्ठे मासि सम्पूज्य रूपिणा ।। १६ ।।

जुहुयादाहुतीस्तिस्त्रः शिखया शिखयैव तु।
वक्त्राङ्गकल्पनां कुर्य्याद्वक्त्रोद्‌घाटननिष्कृती ।। १७ ।।

जातकर्म्मंनृकर्म्मभ्यां दशमे मासि पूर्ववत।
वह्नि सन्धुक्ष्य दर्भाद्यैः स्नानं गर्भमलापहं ।। १८।।

सुवर्णबन्धनं देव्या कृतं ध्यात्वा हृदार्च्चयेत्।
सद्यः सूतकनाशाय प्रोक्षयेदस्त्रवारिणा ।। १९ ।।

कुम्भन्तु वहिरस्त्रेण ताडयेद्वर्म्मणोक्षयेत्।
अस्त्रेणोत्तरपूर्व्वाग्रान्मेखलासु वहिः कुशान् ।। २० ।।

आस्थाप्य स्थापयेत्तेषु हृदा परिधिविस्तरं।
वक्ताणामस्त्रमन्त्रेण ततो नालापन्तुत्तये ।। २१ ।।

समिधः पञ्च होतव्याः प्रान्ते मूले घृतप्लुताः।
ब्रह्माणं शङ्करं विष्णुमनन्तञ्च हृदार्च्चयेत् ।। २२ ।।

दूर्वाक्षतैश्च पर्य्यन्तं परिधिस्थाननुक्रमात्।
इन्द्रादीशानपर्य्यन्तान्विष्टरस्थाननुक्रमात् ।। २३ ।।

अग्नेरभिमुशीभूतान् निजदिक्षु हृदार्च्चयेत्।
निनार्य्य विघ्नसङ्घातं वालकं पालयिष्यथ ।। २४ ।।

शैवीमाज्ञामिमान्तेषां श्रावयेत्तदनन्तम्।
गृहीत्वा स्रुक्‌स्रुवावलूर्ध्ववदनाधोमुखैः क्रमात् ।। २५ ।।

प्रताप्याग्नौ त्रिधा दर्भमूलमध्याग्रकैः स्परृशेत् ।
कुशस्पृषृप्रदेशे तु आत्मविद्याशिवात्मकं ।। २६ ।।

क्रमात्तत्त्वत्रयं न्यस्य हां हीं हूं सं रवैः क्रमात्।
स्रुचि शक्तिं स्तुवे शम्भुं विन्यस्य हृदयाणुना ।। २७ ।।

त्रिसूत्रीवेष्टितग्रीवौ पूजितौ कुसुमादिभिः।
कुशानामुपरिष्टात्तौ स्थापयित्वा स्वदक्षिणे ।। २८ ।।

गव्यमाज्यं समादाय वीक्षणादिविशोधितं।
स्वकां ब्रह्ममयीं मूर्त्ति सञ्चिन्त्यादाय तद्‌घृतं ।। २९ ।।

कुण्डस्योर्ध्वं हृदावर्त्यं भ्रामयित्वाग्निगोचरे।
पुनर्व्विष्णुमयीं ध्यात्वा घृतमीशानगोचरे ।। ३० ।।

धृत्वादाय कुशाग्रेण स्वाहान्तं शिरसाणुना ।
जुहुयाद्विष्णवे विन्दुं रुद्ररूपमनन्तरं ।। ३१ ।।

बावयन्निजमात्मानं नाभौ धृत्वा प्लवेत्ततः।
प्रादेशमात्रदर्भाभप्यामङ्गुष्ठानामिकाग्रकैः ।। ३२ ।।

धृताभ्यां सम्मुखं वह्नेरस्त्रेणाप्लवमाचरेत्।
हृदात्मसम्मुखं तद्वत् कुर्यात् सम्प्लवनन्ततः ।। ३३ ।।

हृदालब्धदग्धदर्भं शस्त्रक्षेपात् पवित्रयेत्।
दीप्तेनापरदर्भेण निवाह्यानेन दीपयेत् ।। ३४ ।।
अस्त्रमन्त्रेण निर्द्दग्धं वह्नौ दर्भं पुनः क्षिपेत्।
क्षिप्त्वा घृते कृतग्रन्‌थिकुशं प्रादेशसम्मितं ।। ३५ ।।

पक्षद्वयमिडादीनां त्रयं चाज्ये विभावयेत्।
क्रमाद्भागत्रयादाज्यं स्रुवेणादाय होमयेत् ।। ३६ ।।

स्वेत्यग्नौ हा घृते भागं शेषमाज्यं क्षिपेत् क्रमात्।
ओं हां अग्नये स्वाहा। ओं हां सोमाय स्वाहा।
ओं हां अग्नीषोमाभ्यां स्वाहा।
उद्‌घाटनाय नेत्राणां अग्नेर्नेत्रत्रये भुखे ।। ३७ ।।

स्रुवेण घृतपूर्णेन चतुर्थीमाहुतिं यजेत्।
ओं हां अग्नये स्विष्टकृते स्वाहा।
अभिमन्ञ्य षडङ्गेन बोधयेद्धेनुमुद्रया ।। ३८ ।।

अवगुण्ठ्य तनुत्रेण रक्षेदाज्यं शराणुना ।
हृदाज्यविन्दुविक्षेपात् कुर्य्यादभ्युक्ष्य शोधनं ।। ३९ ।।

वक्त्राभिघारसन्धानं वक्त्रैकीकरणं तथा।
ओं हां सद्योजाताय स्वाहा। ओं हां वामदेवाय स्वाहा।
ओं हां अघोराय स्वाहा।
ओं तत्‌पुरुषाय स्वाहा। ओं हां ईशानाय स्वाहा।
इत्येकैकघृताहुत्या कुर्य्याद्वक्त्राभिघारकम् ।। ४० ।।

औं हां सद्योजातवामदेवाभ्यां स्वाहा।
ओं हां वामदेवाघोराब्यां स्वाहा। ओं हां अघोरतत्‌पुरुषाभ्यां स्वाहा।
ओं हां तत्‌पुरुषेशानाब्यां स्वाहा।
इतीवक्त्रानुसन्धानं मन्त्रैरेभिः क्रमाच्चरेत्।
अग्नितो गतया वायुं निर्ऋतादिशिवान्तया ।। ४१ ।।

बक्त्राणापेकतां कुर्य्यात् स्रुवेण घृतधारया।
ओं हां सद्योजातवामदेवाघोरतत्‌पुरुषेसानेभ्यः स्वारा।
इतीष्टवक्त्रे वक्त्राणामन्तर्भावस्तदाकृतिः ।। ४२ ।।

ईशेन वह्निमभ्यर्च्य दत्वास्त्रेणाहुतित्रयम्।
कुर्यात् सर्व्वात्मना नाम शिवाग्निस्त्वं हुताशन ।। ४३ ।।

हृदार्च्चितौ विसृष्टाग्नौ पितरौ विधिपूरणीं।
मूलेन वौषुडन्तेन दद्यात् पूर्णां यथाविधि ।। ४४ ।।

ततो हृदम्बुजे साङ्गं ससेनं भासुरं परम् ।
यजेत् पूर्व्ववदावाह्य प्रार्थ्याज्ञान्तर्प्पयेच्छिवम् ।। ४५ ।।

यागाग्निशिवयोः कृत्वा नाडीसन्धानमात्मना।
शक्त्या मूलाणुना होमं कुर्य्यादङ्गैर्द्दशांशतः ।। ४६ ।।

घृतस्य कार्षिको होमः क्षीरस्य मधुनस्तथा।
शुक्तिमात्राहुतिर्द्दध्नः प्रसृतिः पायसस्य तु ।। ४७ ।।

यथावत्‌ सर्व्वभक्षाणां लाजानां मुष्टिसम्मितम्।
खण्डत्रयन्तु मूलानां फ्लानां स्वप्रमाणतः ।। ४८ ।।

ग्रासार्द्धंमात्रमन्नानां सूक्ष्माणि पञ्च होमयेत्।
इक्षोरापर्व्विकं मानं लतानामङ्गुलद्वयम् ।। ४९ ।।

पुष्पं पत्रं स्वमानेन समिधां तु दसाङ्गुलम्।
चन्द्रचन्दनकाश्मीरकस्तूरीयक्षकर्द्दमान् ।। ५० ।।

कलायसम्मितानेतान् गुग्गुलुं वदरास्थिवत्।
कन्दानामष्टमं भागं जुहुयाद्विधिवत् परम् ।। ५१ ।।

होमं निर्वर्त्तयेदेवं ब्रह्मवीजपदैस्ततः।
घृतेन स्रुचि पूर्णायां निधायाधोमुखं स्रुवम् ।। ५२ ।।

स्रुगग्रे पुष्पमारोप्य पञ्चाद्वामेन पाणिना।
पुनः सव्येन तौ धृत्वा शङ्खसन्निभमुद्रया ।। ५३ ।।

समुद्गतोऽर्द्धकायश्च समपादः समुत्थितः।
नाभौ तन्मृलमाधाय स्रुगग्रव्यग्रलोचनः ।। ५४ ।।

ब्रह्मादिकारणात्यागाद्विनिः सृत्य सुषुम्‌णया ।
वामस्तनान्तमानीय तयोर्मूलमतन्द्रितः ।। ५५ ।।

मूलमन्त्रमविस्पष्टं वौषडन्तं समुच्चरेत्।
तदग्नौ जुहुयादाज्यं यवसम्मितधारया ।। ५६ ।।

आचामं चन्दनं दत्वा ताम्बूलप्रभृतीनपि।
भक्त्या तद्‌भूतिमावन्द्य विदध्यात्प्रणतिं परं ।। ५७ ।।

ततो वह्णिं समब्यर्च्य फडन्तास्त्रेण संवरान्।
संहारमुद्रयाहृत्य क्षमस्वेत्यभिधाय च ।। ५८ ।।

भासुरान् परिधीस्तांश्च पूरकेण हृदाऽणुना ।
श्रद्ध्या परयात्मीये स्थापयेत् हृदम्बुजे ।। ५९ ।।

सर्वपाकाग्रमादाय कृत्वा मण्डलकद्वयम् ।
अन्तर्वहिर्बलिं दद्यादाग्नेय्यां कुण्डसन्निधौ ।। ६० ।।

ओं हां रुद्रेभ्यः स्वाहा पूर्वे मातृब्यो दक्षिणे तथा।
वारुणे हां गणेभ्यश्च स्वाहा तेभ्यस्त्वयं बलिः ।। ६१ ।।

उत्तरे हाञ्च यक्षेभ्य ईशाने हां ग्रहेभ्य उ ।
अग्नौ हामसुरेभ्यस्च रक्षोब्यो नैर्ऋते बलिः ।। ६२ ।।

वायव्ये हाञ्च नागेभ्यो नक्षत्रेभ्यश्च मध्यतः।
हां राशिभ्यः स्वाहा वह्नौ विश्वेभ्यो नैर्ऋते तथा ।। ६३ ।।

वारुण्यां क्षेत्रपालाय अन्तर्बलिरुदाहृतः।
द्वितीये मण्डले वाह्ये इन्द्रायाग्नियमाय च ।। ६४ ।।

नैर्ऋताय जलेशाय वायवे धनरक्षिणे।
ईशानाय च पूर्वादौ हीशाने ब्रह्मणे नमः ।। ६५ ।।

नैर्ऋते विष्णवे स्वाहा वायसादेर्वहिर्बलिः।
बलिद्वयगतान्मन्त्रान् संहारमुद्रयाऽऽत्मनि ।। ६६ ।।

इत्यादिमहापुराणे आग्नेये अग्निकार्य्यं नाम पञ्चसप्ततितमोऽध्यायः।