अग्निपुराणम्
















नानामन्त्राः सम्पाद्यताम्

अग्निरुवाच
आदौ हूँकारसंयुक्ताः खेचछे पदभूषिता ।
वर्गातीतविसर्गेण स्त्रीँ हूँक्षेपफड़न्तिक्रा ।। ३१६.१ ।।

सर्व्वकर्म्मकरी विद्या विषसन्धादिमर्द्दनी ।
ओं क्षेचछेतिप्रयोगश्च कालदष्टस्य जीवने ।। ३१६.२ ।।

ओं हूँ केक्षः प्रयोगोयं विषशत्रुप्रमर्द्दनः ।
स्त्रीं हूँ फडितियोगोयं पापरोगादिकं जयेत् ।। ३१६.३ ।।

खेछेति च प्रयोगोऽय विघ्नदुष्टादि वारयेत् ।
ह्रुँ स्त्रीँ ओमितियोगोऽयं योषिदाविवशीकरः ।। ३१६.४ ।।

खे स्त्रीँ खे च प्रयोगोऽयं वशाय विजयाय च ।
एँ ह्रीँ श्रीँ स्फँ कैँ क्षौँ भगवति अम्बिके कुब्जिके स्फँ ओं भं तं
वशनमो अवोराय मुखे व्राँ व्रीँ किलि किलि विच्चा स्फीँ हे स्फँ
 श्रईँ ह्रीँ ऐण श्रीमिति कुब्जिकाविद्या सर्व्वकरा स्मृता ।।
भूयःस्कन्दाय यानाह मन्त्रानीशश्च तान वहे ।। ३१६.५ ।।

इत्यादिमहापुराणे आग्नेये नानामन्त्र नाम षोडशाधिकत्रिशततमोऽध्यायः ॥