अग्निपुराणम्
















एकविंशत्यधिकद्विशततमोऽध्यायः

पुष्कर उवाच
भृत्यः कुर्यात्तु राजाज्ञां शिष्यवत्सच्छ्रियः पतेः ।
न क्षिपेद्वचनं राज्ञो अनुकूलं प्रियं वदेत् ।। २२१.१ ।।

रहोगतस्य वक्तव्यमप्रियं यद्धितं भवेत् ।
न नियुक्तो हरेद्वित्तं नोपेक्षेत्तस्य मानकं ।। २२१.२ ।।

राज्ञश्च न तथाकार्य्यं वेशभाषाविचेष्टितं ।
अन्तःपुरचराध्यक्षो वैरभूतैर्न्निराकृतैः ।। २२१.३ ।।

संसर्ग न व्रजेद्‌भृत्यो राज्ञो गुह्यञ्च गोपयेत् ।
प्रदर्श्य कौशलं किञ्चिद्राजानन्तु विशेषयेत् ।। २२१.४ ।।

राज्ञा यच्छ्रावितं गुह्यं न तल्लोके प्रकाशयेत् ।
आज्ञाप्यमाने बान्यस्मिन् किङ्करोमीति वा वदेत् ।। २२१.५ ।।

वस्त्रं रत्नमलङ्कारं राज्ञा दत्तं च धारयेत्१ ।
नानिर्द्दिष्टे२ द्वारि विशेन्नायोग्ये भुवि राजदृक ।। २२१.६ ।।

जृम्भान्निष्ठीवनङ्कासं कोपं पर्य्यन्तिकाश्रयं ।
भृकुटीं वातमुद्‌गारं तत्समीपे विसर्जयेत्३ ।। २२१.७ ।।

स्वगुणाख्यापने युक्त्या परानेव प्रयोजयेत्४ ।
शाठ्यं लौल्यं सपैशून्यं नास्तिक्यं क्षुद्रतातथा ।। २२१.८ ।।

चापल्यञ्च परित्याज्यं नित्यं राकजानुजीविना ।
श्रुतेन विद्याशिल्पैश्च संयोज्यात्मानमात्मना ।। २२१.९ ।।

राजसेवान्ततः कुर्याद् भूतये भूतिवर्द्धनः५ ।
नमस्कार्याः सदा चास्य पुत्रवल्लभमन्त्रिणः ।। २२१.१० ।।

सचिवैर्न्नास्य विश्वासो राजचित्तप्रियञ्चरेत् ।
त्यजेद्विरक्तं रक्तात्तु वृत्तिमीहेत राजवित् ।। २२१.११ ।।

अपृष्टश्चास्य न ब्रूयात् कामं कुर्य्यात्तथापदि ।
प्रसन्नो वाक्यसङ्‌ग्राही रहस्ये न च शङ्कते ।। २२१.१२ ।।

कुशलादिपरिप्रश्नं सम्प्रयच्छति चासनं ।
तत्कथाश्रवणाद्‌धृष्टो अप्रियाण्यपि नन्दते ।। २२१.१३ ।।

अल्पं दत्तं प्रगृह्णाति स्मरेत् कथान्तरेष्वपि ।
इति रक्तस्य कर्त्तव्यं सेवामन्यस्य वर्जयेत् ।। २२१.१४ ।।

इत्यादिम्हापुराणे आग्नेये अनुजीविवृत्तं नामैकविंशत्यधिक द्विशततमोऽध्यायः ।